________________
६०
स्याद्वादरहस्ये
चादिः, एकज्ञानसंसर्गिणि प्रदेशादौ घटादेः प्रागनुभूयमानत्वात्पिशाचादेः पुनरतथात्वादिति स्पष्टं स्याद्वादरत्नाकरे । अथैवं स्तंभे पिशाचस्वभावानुपलब्धिः कथं ! तत्रैकज्ञानसंसर्गितया पिशाचस्य पूर्वमननुभूतत्वेनाऽनारोप्यत्वादिति चेत् ? न, कथमपि तत्र ( तस्याः) सहचराद्यनुपलब्ध्यैव प्रतिषेधव्यवहारात् । इत्थं चात्मनि चक्षुरादिना स्वभावानुपलब्धिर्नास्त्येवात्मनश्चक्षुराधयोग्यत्वात् । मनसा तूपलब्धिर्बाढमस्त्येव, ' अहं सुखीत्याद्यनुभवस्य सार्वजनीनत्वात् ।
द्वितीयतृतीये व्यापक कार्यज्ञानाद्युपलम्भादेव । कारणाद्यनुपलम्भस्तु कार्य पूर्वोत्तरनिषेधकत्वादात्मनश्चानीदृशत्वान्न बाधकः । सहचरानुपलब्धिरपि नास्ति आत्मसहचराणां चेष्टादीनां बाढमुपलम्भादेव । किं च परस्पर सांकर्यस्याऽन्योन्याभावानभ्युपगमे दुःपरिहरत्वाद् भूतचतुष्टयमपि लोकायतिकानां कथंकारमुपपादनीयम्, मिथोव्यान्वृत्त्यसिद्धेः ।
वैधर्म्यमथ भेदो नो, नाभाव इति धीः पुनः । भेदाभेद विकल्पाभ्यां ग्रस्तेयं धर्मधर्मिणोः ॥ १॥ मेदे ह्यर्थान्तरापत्तिरभेदे त्वेकशेषिता । पक्षान्तरस्पृहाकक्षाप्रवेशे नो न चान्यथा ॥ २ ॥ स्वतो व्यावृत्तिरेषां चेदनुवृत्तिर्न किं स्वतः । एवं चेज्जैन सिद्धान्तस्पर्शिने भवते नमः ||३||
एतेन शक्ति विना स्वभावतः कार्य प्रतिनियमोऽपि परास्तः, प्रातिस्विकरूपेण कारणत्वस्याप्ययोगात्, तृणारणिमणिन्यायेन कारणतास्थले व्यभिचाराद्वै जात्यत्रय कल्पनात एकशक्तिमत्वेन कारणताकल्पनाया लघुत्वात्, सांकर्याsदोषत्वे वैजात्येन हेतुत्वेप्यभावकारणस्थले तदयोगात् इति अन्यत्र विस्तरः ।
[नव्यनास्तिक मतापाकरणम् ]
यदपि नव्यचार्वाकमतानुयायिभिः न्यगादि - अवच्छेदकतयेत्यादिना तदपि न्यायवादार्थेवेव पराकृतमस्माभिः । तथाहि शरीरं न ज्ञानाश्रयः स्तनंधयानां स्तनपानादिप्रवृत्तिजनकेष्टसाधनताज्ञानस्य स्मृतिरूपतया पर्यवस्यतो हेतुभूतस्याऽमुस्मिकानुभवस्यैहि कशरीरेऽसंभवात् । तदिदमाह ‘वीतरागजन्मादर्शनादि 'ति । तथात्वे चैकौ नित्योनुभविता स्मर्त्ता च यः, स एव भगवानात्मेति । ज्ञानमानसमपि दुरभ्युपगमं मनसोऽनुमानापलापेऽभ्युपगन्तुमशक्यत्वादन्यथा 'प्रत्यक्षमेव प्रमाणमिति प्रतिज्ञासन्यासात् । ' परामर्शजन्यज्ञानाभ्युपगमेऽपि तत्रानुमितित्वे मानाभावात्सर्वप्रमायाः प्रत्यक्षरूपत्वान्न प्रमाभेदाधीनः प्रमाणभेद इति न प्रतिज्ञासन्यास' इति चेत् ? न, 'वहिव्याप्यधूमवान् पर्वत' एतादृश निश्चयस्यैतदुत्तरानुमितित्वस्य जन्यतावच्छेदकत्वेन प्रमाविशेषसिद्धौ प्रमाणविशेषसिद्धेः । न चैतदुत्तरज्ञानत्वमेव तज्जन्यतावच्छेदकं, एतदव्यवहितोत्तरोत्पत्ति कत्वमेव वा संस्कारव्यावृत्तं तथा, गृहीताप्रामाण्यकाहार्यपरामर्शविशिष्टस्मृतिसंशयादिषु व्यभिचारवारणाय तत्तदप्रमाण्यग्रहाभावतत्तदाहार्यभेदादीनां जन्यतावच्छेदके निवेशे गौरवात् ।
न चाप्रामाण्यप्रकारतानिरूपित सामानाधिकरण्य विशिष्टविशेष्यतासम्बन्धेन ज्ञानाभावत्वेनाऽप्रमाण्यग्रहाभावानामाऽऽहार्यभेदस्य चानुगतस्यैव निवेशान्नायं दोष इति वाच्यं, न ह्यप्रामाण्य