________________
प्रलो. ११]
नास्तिकमत-निराकरणम् समवायसामानाधिकरण्याभ्यां पृथक् कारणत्वात् । न च परमाणौ पृथिवीत्वादिप्रत्यक्षापत्तिवारणायोद्भूतरूपमहत्वयोः प्रत्यासत्तिमध्ये निवेशनमेवोचितमिति वाच्यं, परमाणौ पृथिवोत्वादिप्रत्यक्षस्याऽनापाद्यत्वात्, घटादौ तस्य तु जायमानत्वादेव । न च परमाणुघटितसंनिकर्षात् पृथिवीत्वादिप्रत्यक्षापत्तिः अयोग्यवृत्तिधर्माऽयोग्यसंनिकर्षाद्यभावकूटस्य सामान्यत एव प्रत्यक्षहेतुत्वात् ।
अस्तु वा स्वविशिष्टस्वविषयसमवायित्वसंबन्धेन जातिचाक्षुषं प्रति विषयतासम्बन्धेनाश्रयचाक्षुषस्य हेतुत्वं, तेन नायं दोषः । एतेन-स्वविषयसमवेतत्वसंबन्धेन जातिचाक्षुषं प्रति हेतुत्वेऽपि विनश्यदवस्थसंनिकर्षण घटादिचाक्षुषोत्तरं परमाणौ पृथिवोत्वादिप्रत्यक्षापत्तिरित्यपास्तम् । ननु 'मम शरीरमि'त्यादिप्रतीत्यात्मनोऽतिरेकः सेत्स्यतीति चेत् ? न, उक्तलाघवबलेनेदृशप्रतीतेभ्रमत्वकल्पनात्, 'श्यामोऽहं गौरोऽहमित्यादिसामानाधिकरण्यानुभवाच्च । ननु तथापि भूतचतुष्कप्रकृतित्वेन शरीरस्य पृथिव्यादिभिन्नत्वात्पृथिव्यादिचतुष्टयमेव तत्त्वमिति प्रतिज्ञासन्यास इति चेत् ? न, स्वाश्रयसमवेतत्वसंबन्धेन गन्धाभावस्य गन्धप्रतिबन्धकत्वेन तस्य भूतचतुष्कप्रकृतित्वाऽयोगात्पार्थिवशरीरे जलादिशरीरस्यौपााधिकत्वात् ।
__ दिक्कालयोश्च मानाभावः, दिक्कृतकालिकविशेषणताभ्यां जन्यमूर्त्ताभ्यामेव तत्कार्यसंभवात् । संनिकृष्टविप्रकृष्टत्वाभ्यामेव पराऽपरव्यवहारोत्पत्तौ परत्वाऽपरत्वयोर्गुणत्वे मानाभावात् । आकाशोऽपि नातिरिच्यते, निमित्तपवनस्यैव शब्दसमवायिकारणत्वात् । अत एव कर्णसंयुक्तसमवायात्तद्ग्रहः, इति न समवायादेः प्रत्यासत्तित्वम् । मनोऽपि चाऽसमवेतं भूतम् । न च पृथिवीत्वादौ विनिगमकाभावादतिरेको युक्तः, पार्थिवादित्वेपि तत्तदात्माकृष्टत्वेन विशेषसंभवादिति दिग् । इत्थं च शरीराद्यतिरिक्तस्यात्मनः एवाऽसिद्धौ कस्य नाम परलोकः, कस्य वा मोक्षः! इत्याहुः।
[चार्वाकमतचर्वणम् ] तेऽतिपापीयांसः सर्वापलापित्वात् । तत्र यत्तावदुक्तं 'भूतचतुष्टयातिरिक्तमात्मादि वस्तु नास्त्येवानुपलब्धेरि'ति-तत्र केयमनुपलब्धिः ? (१) स्वभावानुपलब्धिर्वा, (२) व्यापकानुपलब्धिर्वा (३) कार्यानुपलब्धिर्वा, (५) कारणानुपलब्धिर्वा, (५) पूर्वचरानुपलब्धिर्धा, (६) उत्तरचरानुपलब्धिर्वा (७) सहचरानुपलब्धिर्वा ? ।
तत्र न तावदाद्या, . यतः स्वभावानुपलब्धिर्हि उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भो । भवनि चैतादृशो मुण्डभूतले घटादेरनुपलम्भो, न तु पिशाचादेः, तस्योपलब्धिलक्षणप्रातत्वाऽभावात् । न च सिद्धयसिद्धिभ्यां व्याघातः, भारोप्ये तद्रूपनिषेधात् । न चाऽदृश्यस्यापि दृश्यतयाऽरोप्य प्रतिषेधो युक्तः, आरोपयोग्यस्यैवाऽऽरोपसंभवात् । उपलम्भकारणसाकल्ये सति हि य उपलभ्यते स एव दोषवशात्क्वचित् कदाचिदारोप्यते, तादृशश्च घटादिरेव न तु पिशा