________________
स्थाहादरहस्ये
स्यैव विलयेन स्वाधिरूढशाखाच्छेदनकौशलशालित्वात्तस्य । 'सङ्ख्यावतामिति निर्धारणे षष्ठी । यदि तु सङ्ख्यावतां मध्ये मुख्यस्तदाऽनेकान्तं न प्रतिक्षिपेदेव ॥[दशमश्लोकः सम्पूर्णः] ___अथ लोकायतिकानां व्यवहारदुर्नयावलम्बिनां सकलतांत्रिकबाह्यानां किं संमत्याऽसंमत्या वा ? इति तेषामवग(ण)नामेवाऽऽविष्कुर्वन्ति 'विमति'रिति- .
विमतिः सम्मतिर्वाऽपि चार्वाकस्य न मृग्यते ।
परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥११॥ येषां परलोकात्ममोक्षेष्वेव मोहस्तैः सह विचारान्तरविमतिसंमती अपर्यालोचितमूलारोपणकप्रासादकल्पनसंकल्पकल्प इति भावः ।।
नास्तिकानां पूर्वपक्षः] तेहीत्थं संगिरन्ते-न खलु निखिलेऽपि भुवनगोले भूतचतुष्टयातिरिक्तं किमप्यात्मादिवस्तु विद्यते, अनुपलब्धेः ; किन्तु कायाकारपरिणतं भूतचतुष्टयमेव चैतन्यमाबिभर्ति । न च प्रत्येकमचेतनानां समुदायेऽपि कथं चैतन्यमिति वाच्यं, प्रत्येकममादकानामपि मीलितानां क्रमुकफलपत्रचूर्णादीनां मादकत्ववदुपपत्तेः । अथ प्रत्येकमपि तेषां मादकताशक्तिरस्त्येवाऽशकानां मीलितानामपि कार्याऽजनकत्वात् , न हि वालुकासहस्रायन्त्रनिष्पीडितादपि तैलोद्भव इति चेत् ? न, स्वभावेनैव व्यवस्थोपपत्तौ शक्का मानाऽभावात् ।
[नव्यचार्वाकस्य नवीना युक्तयः] नव्यचार्वाकास्तु-अवच्छेदकतया ज्ञानादीकं प्रति तादात्म्येन क्लुप्तकारणताकस्य शरीरस्यैव समवायेन ज्ञानादिकं प्रति हेतुत्वकल्पनमुचितम् । न चैवं शरीरात्मपदयोः पर्यायतापत्तिः, इष्टत्वात् । अत एव 'पृथिवीमय' इत्यादिश्रुतिः संगच्छते । न चैवं परात्मन इव तत्समवेतज्ञानादीनामपि चाक्षुषस्पार्शने स्यातामिति वाच्यं, रूपादिषु जातिविशेषमभ्युपगम्य रूपान्यतद्वत्त्वेन चाक्षुषं प्रति, स्पर्शान्यतद्वत्त्वेन च स्पार्शनं प्रति प्रतिबन्धकत्वकल्पनादित्थमेव रसादीनामचाक्षुषाऽस्पार्शनवनिर्वाहात् । अस्तु वा ज्ञानादीनां चक्षुराद्ययोग्यत्वमेव । न चैवं स्वज्ञानादीनामपि प्रत्यक्षं न स्यादिति वाच्यं, तेषामचाक्षुषत्वेऽपि मनसा प्रत्यक्षसम्भवात् । मनःसिद्धावेव किं मानमिति चेत् ? अनुमानमेव । न चानुमानोपगमेऽपसिद्धांतोऽनुमितित्वस्य मानसत्वव्याप्यत्वाभ्युपगमात्प्रत्यक्षातिरिक्तप्रमाणाभ्युपगम एवापसिद्धांतशंकावकाशात् । न च शरीरस्यात्मत्वे मृतकलेवरेऽपि ज्ञानोत्पत्तिः स्यादिति वाच्यं, ज्ञानजनकविजातीयमनःसंयोगाऽपगमात् ।
प्रत्यासत्तिलाघवोपदर्शनम् ] आत्मनः शरीराऽनतिरेके संयोगस्य पृथक्प्रत्यासत्तित्वाऽकल्पनलाघवमपि । अथ द्वयणुकपरमाणुरूपाचप्रत्यक्षाय चक्षुःसंयुक्तमहदुद्भूतरूपवत्समवायत्वादिना प्रत्यासत्तित्वे तु त्रुटिग्रहार्थं संयोगस्य प्रत्यासत्तित्वमावश्यकमेवेति चेत् ! न, द्रव्यतत्समवेतप्रत्यक्षे महत्त्वस्य