________________
लो० १०]
कपिलमत संवादनम्
दुपयोग इत्युच्यते इति न कोऽपि दोषः । अत एव ग्रहणपरिणामस्योपयोगपदप्रतिपाद्यताविशेषतस्तत्र तत्र संगच्छते ।
[' अर्थस्य शब्दाऽवाच्यत्वं' - बौद्धपक्ष - खंडनम् ]
ननु तथापि वस्त्वनभिलाप्यमेवेत्येकांतः कांतः, शब्दात् स्वलक्षणप्रतिपत्त्यभावात् शब्दार्थयोर्वास्तविक संबन्धाभावाद्विकल्पजननेनैव शब्दस्य कृतार्थत्वात् । अत एव सविषाणपदादपि वैकल्पिकार्थप्रतीतिर्निराबाधा । न हि शशविषाणादिपदम बोधकमेव व्युत्पन्नाव्युत्पन्नौ प्रति ततो बोधवैचित्र्यदर्शनात् । 'विषाणे शशीयत्वं नास्ति ' ' शशविषाणं नास्ती' तिप्रतीत्योर्वैलक्षण्याच्चेति चेत् ? न, शब्दाद्विकल्पप्रतिपत्तावपि प्रवृत्तिप्रतिनियमासंभवात् । अथ शब्दाद्विकल्पं प्रतिपथ ततो दृश्यविकल्पा(ल्प्या)र्थावेकीकृत्य नियमतः प्रवर्त्तत इति चेत् ? कोऽयमेकीकारः ! अभेदो
(१) सादृश्यं वा (२) मिथःसंसर्गे वा (३) ? न त्रितयमपीदं विकल्पादुपजायते, भिन्नानामसदृशानां मिथोऽसंसृष्टानां चाभेदसादृश्यमिथः संसर्गाणामुपायसहस्रेणापि कर्तुमशक्यत्वात्, अन्यथा जगद्वयवस्थाविप्लवात् । दृश्यविकल्पार्थयोस्तत्प्रतीतिरपि न विकल्पाधीना, दृश्यस्य विकल्पाऽस्पर्शित्वात् । संहतसकलविकल्पावस्थायामेव तत्प्रतिभासात् ।
किं चोत्पत्यनंतरापवर्गिणो वस्तुनः कथमेकीकरणं युज्यते ? विकल्पितयोरेवैकीकार इति चेत् ? तयोरपि कथं चिरस्थायिता ? शब्दार्थयोर्वास्तविक सम्बन्धं विना च कथं शब्दश्रवणादर्थस्मरणम् ? अत्र हिं एकसंबन्धिज्ञानादपरसंबंधिस्मरणमिति स्थितिः, हस्तिपकज्ञानाद्धस्तिस्मरणवत् । तादात्म्यतदुत्पत्तिभ्यामन्यः संबन्धो न वास्तविक इति तु स्वाभिमानविजृम्भितम् । संबद्धव्यवहारजनकतया संयोगादीनामपि पारमार्थिक संबन्धत्वादन्यथा विपर्ययस्याऽपि सुवचत्वात् ।
स्यादेतत् । एवं सति संकेत एव शब्दार्थयोः सम्बन्धः स्यान्न तु शक्तिः, गृहीतसंकेतादेव पदादर्थस्मरणादिति चेत् ? न, प्रकरणाद्यभिव्यक्तक्षयोपशमानां केषांचित्संकेतग्रहं विनापि पदादर्थप्रत्ययात् । संकेतो हि तपश्चरणदानप्रतिपक्षभावनावज्ज्ञानावरणक्षयोपशमाऽभिव्यञ्जकतयोपयुज्यते, न तु शब्दार्थसंबन्धतया । व्यवहारादपि वाच्यवाचकभाव एव शब्दार्थयोः सम्बन्धः । तदेवं शबलवस्त्वभ्युपम एव स्याद्वादिनां श्रेयानिति प्राचां पद्धतिः ||९|| [ नवमश्लोकः संपूर्णः ] अथ अनेकांतवादप्रामाणिकतां कापिलमतेनापि संवादयंति 'इच्छन्नि'तिइच्छन् प्रधानं सत्त्वाधैर्विरुद्धैर्गुम्फितं गुणैः ।
साङ्ख्यः सङ्ख्यावतां मुख्यो, नानेकान्तं प्रतिक्षिपेत् ॥ १० ॥
सत्त्वाद्यैः=सत्त्वरजस्तमोभिः विरुद्धैः = प्रीत्यप्रीतिविषादात्मकतया लाघवोपष्टम्भगौरवधर्मतया च विलक्षणस्वभावैः गुणैर्गुम्फितं = तत्साम्यावस्था त्वमापन्नं, प्रधानमङ्गीकुर्वन् सांख्यो यद्यनेकान्तं प्रतिक्षिपेत्तदा न सङ्ख्यावतां परोक्षा (का) गां मुख्यः, तत्प्रतिक्षेने स्वाभिधानस्या. र. ८