________________
स्याद्वादरहस्ये
1
स्यादेतत्— अमृत्स्वभावेभ्यो व्यावृत्तिरेव मृत्सामान्यं, न तु समानः परिणामः इति । मैवंatsaraभावेभ्य इव मृत्स्वभावेभ्योऽपि व्यावृत्तत्वात् संकीर्णोभयसामान्यस्वभावतापत्तेः । तथा च मृद् मृदिवाऽमृदपि स्यात् अमृदिव वा मृदपि न स्यात् । अथ मृधमृत्स्वभावकुटव्यावृत्तिरिव मृत्स्वभावकूटव्यावृत्तेरभावान्नोक्तदोष इति चेद् १ तथापि मृत्समानपरिणाम एवामृत्स्वभावकूटव्यावृत्तिरित्येव किं न रोचयेः ? तथा चात्यंताऽसंकीर्णस्वभाव सामान्यविशेषोभयात्मकं वस्तु स्वसंवेद्यसंवेदनसिद्धमपि कः कुधीरपहूनुवीत । संवेद्यते हि स्थासको सकुशलादिषु सर्वत्रानुमतो मृदन्वयः प्रतिविशेषं च पर्यायव्यावृत्तिरिति ।
५६
अथैवं सर्वत्राऽन्वितमृदः सकाशादुर्ध्वतामृदोप्यत्यंतभिन्नत्वाभावात्तस्या अप्यन्वयापत्तिस्तथा च स्थासादिमृत्स्वपि घटादिव्यवहारापत्तिरिति चेत् ? न, येन रूपेण समानता तेन रूपेणान्वयस्वीकारात् । मृत्सामान्यमेव मृदो विशेष इत्यपि न वाच्यं तावताऽमृदोऽवृत्तावपि मिथोमृद्वयावृत्त्यसिद्धेः । स्यादेतत्-वस्तुनः सामान्यविशेषोभयात्मकत्वे दर्शनं सामान्यमिव विशेषमपि गृह्णीयात्, ज्ञानं वा विशेषमिव सामान्यमपि गृह्णीयात् सामग्रीसत्त्वादिति चेत् ? गृह्णतः किं ग्रहणापादनं ? जीवस्वाभाव्यान्तु दर्शन विशेषान् ज्ञानं च सामान्यमुपसर्जनीकृत्य गृह्णातीति विशेषः । [उपसर्जनत्वनिरुक्तिः ]
अथ किमिदमुपसर्जनत्वम् ? न तावदनुल्लेखो, यतस्तत्प्रतियोग्युल्लेखः किं शब्दप्रयोगः, प्रवृत्तिः, अनुव्यवसायो वा स्यात् ? त्रिधापि दर्शने सामान्यस्याप्युपसर्जनत्वापत्तिः । न ह्यस्पष्टदर्शनगृहीतं सामान्यं केनचित्प्रयुज्यते व्यवह्रियतेऽनुव्यवसीयते वा, ईहादीनामेव प्रवर्त्तकत्वात् । नाप्यप्रकारत्वं, ज्ञाने सामान्यस्यापि प्रकारत्वेनाऽनुपसर्जनत्वापातात् । नापि वैशयं, तथाविघवैलक्षण्याऽदर्शनेन कल्पनामात्रविषयत्वात्तस्य । केचित्तु - उन्मिलित स्वग्राहक नयविषयत्वं मुख्यत्वं, तद्विपरीतत्वमुपसर्जनत्वम् । न च विशेषग्राहकनयोन्मिलनेनाऽपि कुतो न दर्शनोदय इति वाच्यं, जीवस्वाभाव्यादेव व्यवस्थोपपत्तेः । न चैवं प्रमाणज्ञानेऽपि युगपदुभयनयोन्मिलनेन प्रवृसे दर्शनलक्षणगमनं, मुख्यतः सामान्यमात्र ग्राहकत्वस्यैव तल्लक्षणत्वादित्याहुः । तच्चिन्त्यं, एवं सति केवलज्ञानदर्शनयोः सामान्यविशेषयोरुपसर्जनाऽनुपसर्जनत्वानुपपत्त्या तत्र ज्ञानदर्शनलक्षणाव्याप्तेः । न हि केवलिनां संवेदने क्रमैकतरप्रवृत्तिनियामके नयोन्मिलनानुमिलने संभवतः, अभिप्रायविशेषरूपस्य नयस्य छद्मस्थज्ञान एवोपयुक्तत्वात् ।
अत्राहुः- आभिमुख्येन ग्रहणं मुख्यत्वं तद्विपरीतत्वमुपसर्जनत्वम् । विषयप्रतिनियमस्तु स्वभावादेव, सामान्योपयुक्तो हि जीवः पश्यति, विशेषोपयुक्तस्तु संवित्त इति । यद्यप्युपलिप्सोराभोगकरणमुपयोगः इति केवलिनां तदसंभव:, तथापि चिंतानिरोधाभावेपि कर्मदहनसामान्याart तेषां निश्चलता ध्यानमित्युच्यते तथा तेषामाभोगकरणमुपलिप्सां विनाऽपि संवित्तिसामान्या