________________
प्रलो. १]
धर्मनिभापविमर्शः गौरवात् । अलीकस्यैव स्ववासनाहेतोः शाश्वतिकत्वेन तस्याः ऋमिकत्वाशंका पुनरनुत्थानोपहतैव । असदलीकं न वासनाहेतुरिति चेत् ! तदा सदा भावाभावान्यतराऽऽपत्तिः, 'नित्यं सत्त्वमसत्त्वं वा हेतोरन्याऽनपेक्षणात्' इति वचनात् ।
किं च सेयं वासना प्रमाणमप्रमाणं वा ? उभयथाप्यसतः सत्त्वापत्तिः । न हि प्रामाणिकमसत्,न वाऽसतः सत्त्वं विना तग्राहकस्याऽप्रमाणत्वम् । न च प्रमाऽजनकत्वमेवाऽप्रमाणत्वमिति न वासनाया भ्रमजनकत्वेनाऽसतः सत्त्वापत्तिरिति वाच्यं, प्रमाऽजनकत्वे सति ज्ञानजनकत्वेन तस्या भ्रमजनकत्वसिद्धेः । 'भ्रमो नान्यथाख्यातिः किंतु असत्क्ष्यातिरिति चेत् ? न, असंनिकृष्टस्याऽसाक्षात्कारादित्यन्यत्र विस्तरः । एतेन 'अत्यंताऽसत्यपि ज्ञानमर्थे शब्दः करोति हि । अबाधात्तु प्रमामत्र स्वतःप्रामाण्यनिश्चलामि' त्यपि निरस्तं, योग्यताज्ञानं विना तत्र शाब्दबोधानुदयात् । तदिदमुक्तं-'तत्र सचेतसां मूकतैवोचिते'ति । अत एवालीकस्य विधिनिषेधव्यवहाराऽभाजनत्वम् । 'शसशृङ्गं न सदि' त्यादिबुद्धिस्तु शृङ्गे शशीयत्वादेरेवाऽसत्त्वमवगाहते ।
एवं चाऽसत्कल्पनावादिनामसत्ख्यात्यनभ्युपगमो न श्रेयानिति प्रलापमात्रमेव, असत्कल्पनायामपि प्रसिद्धानामेव खंडानां मिथोऽन्यथासंसृष्टानां भानाभ्युपगमात् । 'धर्येव सन्, धर्मास्तु परिकल्पिता' इति चेत् ? तर्हि, 'धर्मा एव संतो, धर्मी तु परिकल्पित' इति विपरितमेव किं न रोचयेः ? कि चैवं क्षणस्थितिधर्मकत्वेऽपि निमज्जति वस्तुनो नीरूपाख्यत्वापत्या क्षणिकत्वसिद्धांतहानेः किं न बिभेषि ? ? स्यादेतत्-"धर्मधर्मिणामेव धर्मधर्मिभावो न तु कश्चिदतिरिक्त इति 'घटो नीलो', 'नीलघटावि'तिप्रतीतेरविशेषाऽऽपातात्तद्विशिष्टबुद्धावतिरिक्तसमवायभानमावश्यकमिति स एव धर्मधर्मिभावः, तथा च धर्मधर्मिणोर्भेद एव युज्यते इति । मैवं-'नीलघटसमवायाः' इति बुद्धेस्तथाप्यविशेषस्योक्तत्वाद्विवक्षामेदेनैव तद्भेदात् ।
__स्यादेतत्, “सामान्यविशेषयोरपि मिथः कथंचित्तादात्म्यान्मोदकाऽभिन्नसामान्याऽभिन्नविशेषात्मकं विषमपि मोदक एव स्यात् मोदको वा विषाभिन्नसामान्याऽभिन्नविशेषात्मा विषमेव स्यात् । तथा च प्रतिनियतप्रवृत्तिनियमोच्छेदप्रसंग इति" । मैवं-मोदकविषसाधारणैकसामान्याऽनभ्युपगमात् । एवं च मोदकविशेषा एव मोदकसामान्याऽभिन्ना इति न विषं विषतां जह्यान वा मोदकतामनुभवेत् । विषविशेषा एव च विषसामान्याऽभिन्ना इति न मोदका मोदकतां जाः विषात्मकतां वाऽनुभवेयुः । वस्तुनः समानः परिणामो हि सामान्यमसमानश्चविशेषः । न च विषमोदकयोः समानः परिणामोऽत्यंतभिन्ने तदभावात् । असमानस्तु भवत्येव तद्भिन्नमात्रानिरूप्यत्वात्तस्येति ।
नव्यानुयायिनस्तु-इष्टसाधनताज्ञानप्रवृत्त्योः समानप्रकारकत्वेनैव कार्यकारणभावान्न प्रागुक्तः प्रवृत्त्यनियमः । तेन द्रव्यत्वादिसामान्यस्य विषमोदकोमयसाधारण्येऽपि न क्षतिरित्याहुः।