________________
स्थाद्वादरहस्ये तथापि-ये नीलपीतरक्ताधारब्धघटादौ नीलपीतरक्तेभ्य एव नीलपीतोभयजरक्तपीतोभयजत्रितयजचित्राणामुत्पत्तिः, सर्वेषां सामग्रीसत्त्वादनुभवसिद्धत्वाच्च, तत्र त्रितयजचित्रं व्याप्यवृत्त्यन्यत्त्वव्याप्यवृत्ति, एकमेव वा तद्रूपमस्तु, जातेरव्याप्यवृत्तित्वोपगमेन तु किंचिंदवच्छेदेन नीलत्वपीतत्वादिकं विलक्षणचित्रत्वादिकं च व्यवह्रियते इति येऽनुमन्यन्ते तदभिप्रायेणेदम् । स्वयं हि ये एकत्र घटे व्याप्यवृत्त्येकं चित्रमव्याप्यवृत्ति चित्रांतरं चाम्युपगच्छन्ति तेषामनेकांतवादाऽनादरो न ज्यायानिति समवदातम् ।
ननु-तथापि भिन्नोपाधिकं विरुद्धधर्मद्वयमेकत्र समाविशतु, तथापि येनाकारेण भेदस्तेन भेद एव येन चाभेदस्तेनाभेद एवेत्येकांतोऽनेकांतवादिनामपि दुर्वार इति चेत् ? न, भेदाभेदयोरन्योन्यव्याप्तिभावेन 'तेन भेद एवे'त्यादेरर्थशून्यत्वात् । एकाकारेणाभेदस्यैवापराकारेण भेदरूपत्वात् । मेदावच्छेदकं यत्तन्नाभेदावच्छेदकामेति तु संमतमेवेति न दोषावहम्, अन्यथा तयोभिन्नोपाधिकत्वासंभवादित्यानेडितमेव । यत्त्ववच्छेदकभेदं विनैव भेदाभेदः स्याद्वादिनामभिमतो नान्यथा, परमतप्रवेशात्, तदुक्तमनुमानखंडे मणिकृता 'न चैवं भेदाभेदो अवच्छेदकभेदेन तत्सत्त्वाभ्युपगमादिति-तदज्ञानविलसितं, 'उपाधिभेदोपहितं विरुद्ध नार्थेष्वसत्त्वं, सदवाच्यते चेत्यादिना ग्रन्थकृताप्युपाधिभेदेनैव सत्त्वाऽसत्त्वादिसमावेशाभिधानात् । अत्र ह्युपाधयोऽवच्छेदका अंशप्रकारा इति व्याख्यातम् । नचैवं ऋजुमतं कथमनुमतमिति वाच्यं, परमतमनभ्युपगम्य समाधानमात्रेणैव ऋजुत्वमित्यभिप्रायात् । कार्यद्वारोभयरूपवस्त्वप्रतोतेस्तदसिद्धिरेकस्य करणाऽकरणविरोधादित्यपि मन्दं, पर्यायतया करोति न तु द्रव्यत्वेनेत्यत्रापि द्वैरूप्यावतारात् । पर्यायत्वेन कर्तृत्वमेव, द्रव्यत्वेनाऽकर्तृत्वमित्यसारं, स्वभावसांकर्यापाताद्विनिगमनाविरहाच्च ।
किं च स्वकार्यकर्तृत्व-परकार्याऽकर्तृत्वाभ्यामप्येकस्य करणाकरणद्वैरूप्यम्करोति न करोति वा जगति कारणं कार्यमप्य कारणहितार्थिनो भगवतः श्रुते युज्यते । करोति यदि सर्वथा ननु कपालमापालि तत्पटं जनयितुं प्रभुभवतु तंतुसौभाग्यभुः ॥१॥ न कुरुते करणं यदि सर्वथा, स्मरणमेव तदस्य न युज्यते । भजनयत्परकार्यमिह स्वयं, न जनयेदपि किंचन तद्यतः ॥२॥
[स्वभावभेदाभावेऽपि धर्मधर्मिभावः] अनास्वादितस्वभावभेदयोः कथं धर्मधभिभाव इति चेत् ? न, धर्मधर्मिणोमिथोमेदात् प्रतिनियतपाश्रितत्वेनैव केवलमभेदात् । 'धर्मधर्मिभावः काल्पनिक एव न तु वास्तव' इति चेत् ? न, कल्पनाया अपि विकल्पग्रासाद सत्ख्यातिनिरासाच्च । न हीन्द्रियवृत्त्यादिकं विनाऽसतो ज्ञानं संभवति । न च वासनयैवाऽसतो भानं, तादृशवासनायां मानाभावात् , भावे वा तस्याः शाश्वतिकत्वे सर्वदाऽखंडशशशृङ्गाथलीकभानापत्तेः । न च सद्भानसामग्र्या असद्भाने प्रतिबन्धकत्वं,
१- एतच्छूलोकविवरणगतायेन 'यद्यपि' इति पदेन सहाऽस्यान्वयः ।