________________
लो०९]
पृथिवीत्वे न द्रव्यत्वसामानाधिकरण्यमितिवद्गुणे द्रव्यत्वसामानाधिकरण्यावच्छेदकत्वाभावावगाहित्वेनैवोपपत्तौ तदव्याप्यवृत्तित्वस्याऽन्यत्र दुषित्वात् । सामानाधिकरण्येन नीलेतरवद्भेदो यदवच्छेदेन तदवच्छेदेन नीलोत्पत्तिरित्यध्याहुः । अव्याप्यवृत्तिरूपस्वीकार एव च 'मुखे पुच्छे च पांडुर' इत्यादाववच्छेदकत्वार्थिका सप्तमी संगच्छते । न चैव नीलकपालावच्छेदेन सन्निकर्षे पीतादिग्रहाssपत्तिः, अव्याप्यवृत्तिचाक्षुषं प्रति चक्षुः संयोगावच्छेदकावच्छिन्नसमवायसंबंधावच्छिन्नाधारतायाः सन्निकर्षत्वस्य संयोगादिस्थले क्लृप्तत्वादित्याहुः
चित्ररूपविवेचनम्
५३
अत्र यद्यपि चित्ररूपवादिना नीलादिकं प्रति नीलेतरादीनां प्रतिबन्धकत्वं नीलाभावादीनां चित्रं प्रति हेतुता च कल्प्या, अव्याप्यवृत्तिरूपवादिनाप्यवच्छेदकतया नीलादिकं प्रति समवायेन नीलेतरादीनां प्रतिबन्धकत्वं केवलनीलावयवेऽवच्छेदकतया नीलोत्पत्तिवारणाय प्रागुक्तद्रव्यघटित - संबन्धेन नीलाभावादीनामवच्छेदकतया नीलादिकं प्रति हेतुत्वं च कल्पनीयमिति तुल्यम् । यदि पुनरवच्छेदकतासंबंधेन नीलादिकमनियम्यमेव तदा तु चित्रं प्रत्येव नानाकारणकल्पने गौरवमिति । अव्याप्यवृत्तिरूपस्वीकारे नीलपीतवत्यग्निसंयोगान्नीलनाशात्तदवच्छेदेन रक्तं न स्यात्, रूपं प्रति रूपस्य प्रतिबन्धकत्वादित्याहुः । अपरे तु तत्र व्याप्यवृत्तिन्येव नीलापीतादीन्युत्पद्यते नीलादिकं प्रति नीळेतरादिप्रतिबन्धकत्व नीलाभावादिकारणत्वाऽकल्पनया लाघवात् । न च नोकपालाच्छेदेन चक्षुः संनिकर्षे पीतादेरुपलम्भापत्तिः, पीतावयवायवच्छिन्नचक्षुः संनिकर्षस्य पीतादिग्राहकत्वकल्पनात् ।
यत्वेतत्कपालावच्छिन्नसंयोगादिप्रत्यक्षानुरोधेनैतत्कपालानवच्छिन्नवृत्तिकत्वे सति यत्तत्पी - तान्यं तद्भिन्नं यदेतद्बटसमवेतं तस्यैतत्कपालविषयक साक्षात्कारं प्रत्येतत्कपालावच्छेदेनैतद्धट चक्षुः संयोगस्य हेतुत्वान्न नीलाद्यवयवावच्छेदेन चक्षुः संनिकर्षे पीतादि चाक्षुषमिति, तन्न, तथापि नीलावयवावच्छेदेन चक्षुः संनिकर्षे घटत्वादेखि पीतादेरपि पीतादिकपालाविषयक साक्षात्कारापत्तेः दुर्वारत्वात् । व्याप्यवृत्त्याधारत्वस्याप्यवच्छेदकाभ्युपगमेन द्रव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रत्येव चक्षुः संयोगावच्छेदकावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतायाः संनिकर्षत्वेनैतत्कपालावच्छिन्नघटसंयोगस्यान्यक पालावच्छेदेन चक्षुः संयोगतच्चाक्षुषानुदयनिर्वाहादनुपदो ककारणत्वकल्प नस्य नियुक्तिकत्वाच्च । 'मुखे पुच्छे च पांडुर' इत्यादौ तु मुखादिवृत्तिपांडुरत्वादिकमेवावयविनि प्रतीयत इत्याहुः । इति न केषामध्येषामेकरूपानेक रूपोभयसमावेशः संमतः, -
1
* सन्दर्भस्त्वेवं - एष्टव्या बहवः पुत्राः यद्येकोऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ १॥ अत्र वृषविशेषणीभूतनवस्येयं परिभाषा - लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ।
श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ २॥