SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ५२ स्यावादास्ये केचित्तु-समवायस्येवावच्छेदकताया अपि कारणनियम्यत्वादवच्छेदकतया नीलादीक प्रति समवायेन नीलादेः कारणत्वम् । नन्वेवमपि घटादावप्यवच्छेदकतया नीलाद्युत्पत्तिः स्यादिति चेत् ! अत्र केचित् अवच्छेदकतया नीलादीकं प्रति समवायेनाऽवयवनीलत्वादिना द्रव्यविशिष्टनीलत्वादिनैव वा हेतुत्वमित्याहुः । न च नीलविशिष्टद्रव्यत्वादिनापि तथात्वे विनिगमनाविरहो, नीलविशिष्टद्रव्यस्य पीतकपालेऽपि सत्त्वात् तत्राप्यवच्छेदकतया नीलापत्तेः, विशिष्टाधिकरणतायास्तत्राभावात् । अन्ये त्ववच्छेदकतया जन्यरूपत्वावच्छिन्नं प्रत्येव समवायेन द्रव्यस्य हेतुत्वमित्यूचुः । तदपि न, द्रव्यत्वेन वा हेतुत्वं मूतत्वादिना वेति तथापि विनिगमनाविरहात् । अपरे तु केवलनीलादिकपालेऽवच्छेदकतया तद्वारणाय स्वाश्रयवृत्तिद्रव्यसमवायसंबन्धेनाऽवश्यकल्प्यहेतुताकस्य नोलाद्यभावस्यैव तादृशघटादावभावात् नावच्छेदकतया नीलाद्युत्पत्तिः । वस्तुतस्त्ववच्छेदकतया जन्यरूपत्वावच्छिन्नं प्रति द्रव्यविशिष्टसमवायेनैव रूपस्य हेतुत्वात् न. घटादाववच्छेदकतया नीलाद्यापत्तिः । केचित्तु-केवलनोलकपालादिष्ववच्छेदकतया नीलादिवारणायावयवान्तरवृत्तिनीलेतररूपादेः स्वसमवायिसमवेतद्रव्यसमवाय संबंधेन हेतुत्वमभ्युपगच्छन्ति । तन्नेत्यन्ये, कपालान्तरावच्छेदेन पाकाद्रक्तरूपोत्पत्तिकाले कपालांतरविद्यामानानीलादव्याप्यवृत्तिनीलाऽनापत्तेः । रक्तोत्पत्त्यनंतरमेव तत्राप्यव्याप्यवृत्तिनीलोत्पत्तिरित्यपरे । नन्वेवमपि नानारूपवत्कपालाद्यारब्धे घटे तत्कपालावच्छेदेन नोलाद्यापत्तिरिति चेत्? नील कपालिकावच्छिन्नतदवच्छेदेनेष्टत्वमेव तस्याः। यत्त्ववच्छेदकतया नीलादिकं प्रति समवायेन नीलादीनां न कारणत्वं किन्तु नीलेतरकपालादोनामेव प्रतिबंधकत्वमिति न तन्नीलाद्यवच्छेदकं किंतु नीलकपालिकैव तादृशीति,तत्तुच्छं, कपालनीलाधवच्छेदकत्वाऽयोगात्, अवच्छेद कतासंबंधावच्छिन्नप्रतियोगिताकस्य नीलेतराभावविशिष्टनीलाद्यभावस्यावच्छेदकतया नीलादौ हेतुत्वे गौरवात् , व्याप्यवृत्तिनीलवत्कपालेऽवच्छेदकतया तदापत्तेश्च । अवच्छेदकतासम्बन्धावच्छिन्नप्रतियोगिताकनीलेतराभावविशिष्टनीलाधभावस्य नोलेतरसामानाधिकरण्याऽविशिष्टविशेषणतया तथात्वेऽप्यतिप्रसंगान्महागौरवाच्च । यत्त-नीलादीनामपि नीलेतररूपादिप्रतिबंधकतायां विरह इति-तन्न, नीलत्वादिना प्रतिबध्यतायां लाघवाद नीलेतरत्वादिना प्रतिबंधकत्वे तु तदवच्छिन्नाभावस्याऽखंडस्य कारणतायां गौरवाऽप्रतिसंधा(ना)त् । प्रतिबंधकतागौरवस्य पुनरनन्तरोपस्थिति कत्वेनाऽविरोधित्वात् । अवच्छेदकतया नीलादिकं प्रति समवायेन नीलादिकं हेतुः, अवच्छिन्ननीलादिकं प्रति च स्वाश्रयसमवेतत्वसंबंधेन नीलाधभावो हेतुरित्यप्याहुः । सामानाधिकरण्यसंबंधावच्छिन्नप्रतियोगिताकनीलेतराधभावस्यावच्छेदकतवा नीलादिकं प्रति कारणतेति कश्चित् । तन्नेत्यन्ये, सामानाधिकरण्यस्याऽव्याप्यवृत्तिया तत्संबंधावच्छिन्नप्रतियोगिताकामावस्याऽसंभवादिति । तदसत्, 'गुणे सत्तायां न द्रव्यत्वसामानाधिकरण्यमि'तिप्रतीतेर्गुणे
SR No.022623
Book TitleSyadvad Rahasya
Original Sutra AuthorN/A
AuthorYashovijay Mahopadhyay
PublisherBharatiya Prachyatattv Prakashan Samiti
Publication Year1976
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy