________________
श्लो० ९]
faravadur
अत एव त्रुटिचाक्षुषानुरोधेन परमाणुद्व्यणुकयोरपि सिद्धिरित्याहुः । तच्चिन्त्यम्, चित्रकपालिकास्थले तदसंभवात् । किं च घटाकाशसंयोगाद्य चाक्षुषत्वानुरोधेन चाक्षुषत्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्व संबन्धेन रूपाभावस्य प्रतिबन्धत्व कल्पनमेवोचितम् । स्वावच्छिन्नगुणाधिकरणतावत्प्रत्यक्षत्वसंबन्धेन पर्याप्तिमतः स्वावच्छिन्नाधेयतावद्गुणप्रत्यक्षत्वसंबन्धेन पर्याप्तिमत्त्वावच्छिन्नं प्रति हेतुत्वकल्पनेप्यव्यासज्यवृत्त्याकाशादिगुणाऽचाक्षुषत्वोपपत्तये रूपवत्त्वस्य प्रत्यासत्तिघटकत्वे गौरवात् । न च स्पर्शशब्दाद्यन्यतमभेदस्य चाक्षुषप्रयोजकत्वात् स्पर्शादेरिव शब्दादेरपि तत्त्वतत्त्वेन चाक्षुषाऽहेतुत्वादेव वा नाकाशादिगुणचाक्षुषापत्तिरिति वाच्यं, उदासीनप्रवेशाऽप्रवेशाभ्यां विनिगमनाविर णाखंड भेदस्या हेतुत्वमित्युक्तत्वात् । रूपाभावस्य चाक्षुषप्रतिबन्धकत्वे शब्दादीनां तत्त्वतत्त्वेन हेतुत्वाऽकल्पनलाघवाच्च । न च चाक्षुषाऽभावस्यैवास्तु द्रव्यान्यसच्चाक्षुषं प्रति प्रतिबन्धकत्वं, आश्रयाऽचाक्षुषत्वेनैव द्वयणुकायचाक्षुषत्वोपपत्तौ महत्त्वस्यापि प्रत्यासत्यघटकत्वे लाघवादिति वाच्यं, लौकिक विषयितावच्छिन्नचाक्षुषाऽभावापेक्षया समवायसम्बन्धावच्छिन्नरूपाभावस्य लघुत्वात् । चाक्षुषलौकिक विषयत्वावच्छिन्नप्रत्यक्षाभावादेरपि तथात्वे विनिगमकाभावोक्तिस्तु कस्यचिन्न शोभते, समनियताभावाभेदात् ।
किं च त्रुटावेव विश्रामे महत्त्वस्योभयथा प्रत्यासत्यघटकत्वेन विनिगमनाविरहादपि रूपाभावस्य प्रतिबन्धकत्वम् । रूपाद्युत्पत्तिक्षणे रूपचाक्षुषं तु पूर्व विषयाभावादेव नेत्युभयत्रतुल्यम् । इत्थं च तादृशघटस्य नीरूपत्वे तादृशघटवृत्तिसंयोगादिचाक्षुषं न स्यात् । एतेनोदभूतैकत्वस्याऽयोग्यव्यावृत्तधर्मविशेषस्यैव वा द्रव्यचाक्षुषकारणत्वेन रूपं विनापि पटादिचाक्षुषत्वोपपादनेन तादृशघटस्य नीरूपत्वसमर्थनं नवीनानां प्रत्याख्यातमेव । स्पार्शनं प्रति तु स्पार्शनाभावस्यैव प्रतिबन्धकत्वं, न तु स्पर्शाभावस्य त्रुटिसमवेताऽस्पार्शनानुरोधेन संयुक्तसमवाय प्रत्त्यासत्तिमध्ये प्रकृष्टमहत्त्वस्य घटकत्वे गौरवात् । एवं च तादृशघटस्य निःस्पर्शत्वे तु न क्षतिरति विस्तरस्त्वत्र त्यो मत्कृतचित्ररूपप्रकाशेऽवसेयः ।
ऋजवस्तु 'तादृशो घटो न नीरूपो, रूपवत्त्वप्रतीतेः सार्वजनीनाया भ्रमत्वकल्पनाऽयोगादि' त्याहुः । एकदेशिनस्तु - तत्राव्याप्यवृत्तीनि नानारूपाण्येव । न चावच्छेदकतया नीलाभावादिसामग्रीबलात्पीताद्यवयवावच्छेदेन नीलाद्यापत्तिः, अवच्छेदकतया जन्यरूपत्वावच्छिन्नं प्रत्येवावच्छेदकतया रूपत्वावच्छिन्नाभावस्य हेतुत्वात् । न चैवमपि नीलपीतावयवारब्धे पीतावयवावच्छेदेन पाके रक्तोत्पत्तिकाले नीलाद्यापत्तिः, कार्यतानवच्छेदकावच्छिन्नस्याऽनापाद्यत्वात् । यदि तु नीलपोतश्वेतत्रितयकपालारब्धे पीतश्वेतयोः क्रमेण नाशे श्वेतनाशकाले तत्र जन्यरूपत्वावच्छिन्नापत्तिः संभाव्यते, तदाप्यवच्छेदकतया जन्यरूपत्वावच्छिन्नं प्रत्येव समवायेन रूपस्य हेतुता कल्प्या, न तु नीलादौ नीलादेः, प्रयोजनाभावाद्गौरवाच्च ।