________________
५०
स्याद्वादरहस्ये
गितावच्छेदकताकात्यंताभावघटितायाः तावत्संबन्धपर्याप्तप्रतियोगितावच्छेदकतावच्छेदकता कान्योन्याभावघटिताया वा व्याप्तेरमेदेन कारणताया अभेदात् । अत एवाऽननुगताभिरपि संयोगादिप्रत्यासत्तिभिश्चाक्षुषत्वावच्छिन्नं प्रति चक्षुष्ट्वेन कारणतोक्तिः प्राचां संगच्छते । इत्थं च नानारूपवदवयवारब्धे नीलादिबाधाच्चित्ररूपसिद्धिर्निराबाधा । चित्रं प्रत्यपि प्रागुक्तदिशा नीलेतरपीतेतरत्वादिनैव हेतुता । नीळेतरत्वं च नीलतरेतरत्वादिकं बोध्यं तेन नीलतरनीलतमाभ्यामारब्धेऽपि तदुत्पत्तिर्निरपायेत्यादिकं न्यायवादार्थे प्रपचितमस्माभिः ।
[विजातीयचत्ररूषहेतुता ]
विजातीयचित्रं प्रति रूपविशिष्टरूपत्वेनैव हेतुत्वम् । वैशिष्ट्यं च स्वविजातीयत्वस्वसंवलितत्वोभयसंबंधेन, स्ववैजात्यं च चित्रत्वातिरिक्तं यत् स्ववृत्ति तद्भिन्नधर्मसमवायित्वम् । स्वसंवलितत्वं च स्वसमवायिसमवेतद्रव्यसमवायिवृत्तित्वम् । विजातीयचित्रं प्रति च विजातीयतेजः संयोगत्वेन हेतुतेत्यप्याहुः । चित्रत्वावच्छिन्नं प्रत्येव स्वविजातीयस्वसंवलितत्वोभयसंबन्धेन रूपसमवायिकारणविशिष्टरूपाऽसमवायिकारणत्वेन हेतुता । रूपासमवायिकारणत्वं च जनकताविशेषसंबन्धेन रूपवत्त्वमेवेत्यप्येके । मतद्वययमिदं स्फुटगौरवप्रस्तम् । यत्तु - नीलपीतोभयाभाव-पीतरक्तोभयाभावादीनां स्वसमवायिसमवेतत्व संबन्धावच्छिन्नप्रतियोगिताकानां समवायावच्छिन्नप्रतियोगिताकानां च विजातीयविजातीयपाकोभयाभावादीनां यावत्त्वावच्छिन्नप्रतियोगिताकाभाव एकश्चित्रत्वावच्छिन्नं प्रति हेतुरिति-तन्न, प्रतियोगिको टावुदासीनप्रवेशाऽप्रवेशाभ्यां विनिगमनाविरहात् । चित्रत्वावच्छिन्ने रूपत्वेनैव हेतुता, नीलपीतोभय जन्यतावच्छेदकचित्रत्वावान्तरजात्यवच्छिन्ने नीलपीतोभयत्वेनैव त्रितयारब्धे तत्रितयत्वेन हेतुता, नीलपीतोभयाद्यारब्धचित्रे च नीलपीतान्यतरादीतररूपं प्रतिबन्धकमिति न त्रितयारब्धचित्रवति द्वितयारब्धचित्रापत्तिः । गौरवं तु प्रामाणिकत्वादिष्टमित्यन्ये । अत्र नीलतरनीलतमोभयत्वादिना तदुभयजन्य चित्र प्रत्यपि हेतुता वाच्या तत्प्रति च नीलतरनीलतमान्यतरेतररूपत्वेन प्रतिबन्धकता, तेन न नीलपीतोभयारब्धचित्रवति तदापत्तिः । रूपजरूपं प्रत्येव विजातीयाग्निसंयोगस्य प्रतिबन्धकत्वाच्च यत्रैकावयवे नीलमपरत्र पीतं तदन्यत्र च श्वेतजनकाग्निसंयोगस्तदवयविनि द्वितयारब्धचित्राद्यापत्तिर्नेति बोध्यम् । वस्तुतो द्वितयजचित्रादौ स्वपर्याप्त्यधिकरणपर्याप्तवृत्तिकत्वसंबन्धेन द्वितयादेः कारणता, नाsतो नीलपीतोभयजादौ नीलपीतान्यतरादीत ररूपत्वेन प्रतिबन्धकता कल्पनगौरवम् । चित्रं प्रति चित्रे तर सामग्रीत्वेन प्रतिबन्धकत्वान्न नोलमात्रारब्धे चित्रापत्तिः, नीलपीतोभयकपालारब्धघटे नीलानुत्पत्तिनिर्वाहाय तु स्वाश्रयसंबन्धेन नीलं प्रति स्वव्यापकसमवायेनैव नीलादेर्हेतुत्वं वाच्यं, न तु नीलादौ नीलतरादेः प्रतिबन्धकत्वमिति । न च तथापि तत्र समवायेन नीलापत्तिः, स्वाश्रयसंबन्धेन नीलसामग्रयाः समवायेन नीलसामग्रोव्यापकत्वादित्यपरे ।
"
केचित्तु – नानारूपवदवयवारब्धो घटो नीरूप एव । न चैवमप्रत्यक्षः स्यात् द्रव्यतत्समवेतचाक्षुषसाधारण्ये चाक्षुषत्वावच्छिन्नं प्रत्येव स्वाश्रयसमवेत वृत्तित्व संबन्धेन रूपस्य कारणत्वात् ।