________________
लो० ९]
चित्ररूपविवेचनम् तस्य तथात्वं वाच्यमिति गौरवम् । यदित्ववयवे नीलजनकसंयोगेन नीलजननोत्तरमेवावयविनीलोत्पत्तिरित्यभ्युपगम्यते तदा नीलादौ नीलाभावादेरपि प्रतिबंधकत्वं युक्तिमत् ।
[पृथ्वी-चित्ररूपयोः कार्यकारणभावः] चित्रत्वावच्छिन्नं प्रति च पृथवीत्वेनैव हेतुत्वम् । न च नीलमात्रारब्धेऽपि तदापत्तिः, रूपनचित्रे नीलेतरपीतेतरादेरपि हेतुत्वात् । केचित्तु-नीलाभावादिषट्कस्यैव तद्धेतुत्वम् । न च नीलपीतोभयकपालारब्धे घटे पाकनाशितावयवपीतस्वचित्रेऽवयवे व्याप्यवृत्तिनीलोत्पत्तिकाले तदापत्तिः, कार्यसहभावेन तस्य हेतुत्वात् । अस्तु वा नीलनीलजनकतेजःसंयोगान्यतरत्वावच्छिन्नाऽभावादेरेव तथात्वं, तेन न नीलपीतश्वेतत्रितयकपालारब्धे पीतश्वेतयोः क्रमेण नाशे श्वेतनाशकालेऽपि तदापत्तिरित्याहुः । रूपमात्र नाऽतिरिक्त एव वा स हेतुः, पाकबलेन वैजात्यकल्पनात्, तेन नोभयज उभयोः पृथक्कारणत्वकल्पनम् । पाकजचित्रे वा मानाभावः, पाकादवयवे नानारूपोत्पत्त्यनंतरमेवावयविनि चित्रस्वीकारे लाघवादित्येके । तच्चिन्त्य, चित्रजनकत्वेनाभिमतस्यैकस्य पाकस्यावयवनीलपीतादिजनकत्वे नीलजनकतावच्छेदकपीतजनकतावच्छेदकजात्योः सांकर्यात् । उभयादिजनकतावच्छेदकजातेस्तत्र नानापाकानां वा कल्पने गौरवादित्यपरे । अवयवेषु नानारूपतत्प्रागभावप्रध्वंसादिकल्पने गौरवादित्यर्थः ।
चित्ररूपे रूपवत्त्वेनैव हेतुता, नीलमात्रारब्धे तु प्रागभावाभावादेव न चित्रोत्पत्तिः । अस्तु वा चित्रं प्रति चित्रेतररूपाभावस्य चित्रेतरत्प्रति च चित्राभावस्य कार्यसहभावेन हेतुताऽतो नातिप्रसंग इति तु समभद्रसार्वभौमाः। अत्र रूपन्नीरूपोभयाषयवारब्धाबयविनि चित्रानुत्पत्तिस्तु स्वाश्रयसमवेतत्वसंबंधेन रूपाभावाभावरूपजन्यरूपत्वावच्छिन्नसामग्यभावादेवेति बोध्यम् । अग्निसंयोगजचित्रे रूपजनकाग्निसंयोगोऽवच्छेदकत्वसंबंधावच्छिन्नप्रतियोमिताकनीलजनकाग्निसंयोगाभावादिषट्कं स्वाश्रयसमवेतत्वसबंधेन रूपाभावश्च हेतुः । रूपजचित्रे नीलादिजनकविजातीयसंयोगाभावानां बहूनां हेतुताकल्पनापेक्षयाऽग्निसंयोगजचित्रे रूपत्वावच्छिन्नाभावस्यैकस्य तथात्वे लाघवादित्यपि कश्चित् ।
केचित्तु-नीलेतररूपाऽसमवायिकारणत्वपीतेतररूपासमवायिकारणत्वादिनैव चित्रं प्रति हेतुतेति पाकरूपयोर्न पार्थक्येन कारणतेत्याहुः । तच्चिन्त्यं-असमवायिकारणत्वस्याऽननुगतत्वाद गुरुत्वाच्च । नीलादिकं प्रति नीलेतररूपादेः प्रतिबन्धकतावच्छेदकसंबंधः स्वाऽसमवायिकारणसमवायिसमवेतत्वमेव । न चेतरत्वस्यापि संबंधमध्ये निवेशाऽनिवेशाभ्यां बिनिगमनाविरहः, नीलेतररूपत्वादिना स्वाश्रयसमवेतत्वसंबंधेन प्रतिबन्धकतावादिनोपि तुल्यत्वात् । जन्यरूपत्वावच्छिन्नं प्रति च रूपवत्वेनैवाऽसमवायिकारणत्वं, न तु नीलादो नीलादेः, प्रयोजनोभावात् । न च प्रापक्षोक्तदोषाऽनतिवृत्तिः, संवन्धाननुगमस्याऽदोषत्वात् संबंधमानात्वेऽपि तावत्संबंधपर्याप्त प्रतियो
स्या. र. ७