________________
स्याद्वादरहस्ये
अत्र दृष्टांतमाहुः – 'विरुद्धे'ति । विरुद्धानां परस्परकरंबितस्वभावानां वर्णानां नीलपीतादीनां योगः-समावेशो, हि- यतो, दृष्टः प्रमाणसिद्धो, मेचकवस्तुषु - नानारूपवदवयवारब्धावयविषु । नीलपीतादीनां परस्परकरंबितस्वभावं बिना 'एकश्चित्रो घट' इति विलक्षणप्रतीत्यनुपपत्तेः । अथैतत्प्रतीत्यनुरोधाच्चित्रमतिरिक्तमेवास्त्विति चेत् ? न, नीलत्वादिनापि तत्प्रतीतेः । परंपरयाऽवयवनीलादिकमेव तत्प्रतीतेर्विषय इति चेत् तर्ह्यवयवानामवावयवितया परिणमनात्सिद्धमवयविन्यपि नीलादीकं, उद्भुत नीलविशिष्टोद्भूतपीतादीना चित्रत्वव्यवहाराच्च नोदद्भुत नीलमात्रवति तदापत्तिः । सामान्यतस्तु चित्रपदाद्रूपविशिष्टरूपत्वेनैव बोधस्तेन नाऽननुगमः । अथैवं चित्रो घटो रूपविशिष्टरूपवानिति सहप्रयोगो न स्यादिति चेत् ? न, विवरणादिरूपतया तदुपपत्तेः । अथाने कांते परेषामपि संमतिमुपदिदर्शयिषवः प्रथमतस्ताथागत संमतिमा विष्कुर्वन्ति
'विज्ञाने 'ति ।
४८
विज्ञानस्यैकमाकारं नाना कारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥८॥
'विज्ञानस्य' = संविदः एकमाकारं स्वरूपं नानाकार करम्बितम् = चित्रपटाद्यनेकाकारमिश्रितम्, इच्छन्=अभ्युपगच्छन् तथागतो - बौद्धो नानेकान्तवादं प्रतिक्षिपेत् - निराकुर्यात् । तस्यानेकांतवादनिराकरणं न बलवदनिष्टाननुबन्धीत्यर्थः । यदि प्रतिक्षिपेत्तदा प्राज्ञः = प्रकर्षेणाज्ञो भ्रान्त एव । यदि तु प्राज्ञः पंडितोऽभ्रान्तः इति यावत्तदा न प्रतिक्षिपेदेव । स हि परमाणौ मानाभावात्तत्सिध्यधीनस्थूलावयवित्वस्याप्यसिद्धेः प्रतिभासत्वान्यथानुपपत्त्या विषयं विनाऽपि वासनामात्रेण धियां विशेषाच्च ज्ञानाऽद्वैतमेव स्वीकुरुते । तच्च ज्ञानं ग्राहकतयैकस्वभावमपि ग्राह्यतयाऽनेकीभवतः स्वांशानगृह्णदनेकमपीति कथं न तस्यानेकांतवादिकक्षापंजरे प्रवेशः ! अथानेकांते योगवैशिषिकावपि संमानयंति चित्रमिति - चित्रमेकमनेकञ्च रूपं प्रामाणिकं वदन् ।
योगो वैशेषिको वाऽपि नानेकान्तं प्रतिक्षिपेत् ॥९॥ [चित्ररूपे विविधमतप्रदर्शनम् ]
यद्यपि - चित्ररूपाभ्युपगंतारौ सांप्रदायिकौ नैयायिकवैशिषिकौ चित्रे घटे न रूपांतरमभ्युपगच्छति । नीलादिप्रतीतेरवयव नीलादिनैवोपपत्तेः । ' नीलादिसामग्रीसत्त्वात्तत्र नीलादिकमपि कुतो नोत्पद्यत इति चेत् ? न, स्वसमवायिसमवेतत्व संबंधेन नीलेतररूपादेः प्रतिबन्धकत्वात् । स्वाश्रयसमवेतत्व संबंधेन नीलाभावादेस्तथात्वे तु यत्रैकावयवे नीलं अपरत्र च नीलजनकाग्निसंयोगतत्रावयविनि व्याप्यवृत्ति नीलं न स्यादिति नीलनीलजनकतेजः संयोगान्यतरत्वावच्छिन्नाभावस्य तथात्वं वाच्यम् । एवमपि संयोगस्याव्याप्यवृत्तित्वेन तदोषतादवस्थ्यात्प्रतियोगिव्यधिकरणस्य