________________
ग्लो०७]
उत्तरार्द्धव्याख्या इत्याह 'विरुद्धेति । तथा चायं प्रयोगः-"नित्यानित्यत्वादीकं नैकत्राऽवृत्ति, एकवृत्तित्वेन प्रमीयमाणत्वात् , नीलपीतादिवत्' । 'विरुद्धत्वं-परस्परानधिकरणवृत्तिजातीयत्वमिति यथाश्रुतमेव सम्यग् इति तु न युक्तं, स्वमते नित्यानित्यत्वादावेव तदभावात् । एकवर्णस्यापि निश्चयतः पंचवर्णत्वाच्च । अन्यथा पूर्वशुक्लस्य पाकादिना पश्चात्श्यामत्वानुपपत्तेः, लाघवाच्छ्याममात्रं प्रत्येव श्यामस्य हेतुत्वात्पाकाऽजन्यत्वादेस्तत्कार्यतावच्छेदकप्रवेशे गौरवात् , सदसत्कार्यवादस्य व्यवस्थापितत्वाच्च ।
अथवा 'द्वयं नित्यत्वानित्यत्वादिकं, विशेषेण परस्परकरम्बितस्वभावेन रुद्रं=मिलितं, नाऽसत्, 'एकत्र प्रमाणप्रसिद्धितः' =एकत्वे प्रमाणप्रसिद्धरित्यर्थः । अयं भावः-नित्यानित्यत्वं हि नरसिंहत्वादिवज्जात्यन्तरं, समाविष्टप्रतीतिजननात् । न हि केवलनरत्व-सिंहत्वाभ्यामेकनरसिंहप्रतीतिरिव केवलनित्यत्वानित्यत्वाभ्यां संमिलितप्रतीतिरुपपादयितुं शक्यते । अथ नरसिंहत्वमेकव्यक्तिवृत्ति न जात्यंतरं, नरत्वादिकमपि च सांकयेभिया न जातिरूपमभ्युपेयत इति चेत् ? न, उपाधिसांकर्यस्येव जातिसांकर्यस्याप्यदोषत्वात् , नरत्वसमाविष्टसिंहत्वस्यैव तत्त्वात् । 'जातिसांकर्यस्याऽदोषत्वे शिंशपात्वादेरन्यत्र संभावनया 'वृक्षः शिंशपाया' इत्याद्यनुमानमप्युच्छियेत इति चेत् ! न, उपाधिसांकर्येऽप्येतदोषस्य तुल्यत्वात्, तर्कादिना संशयनिवृत्तेरुभयत्र संभवात् । अथ घटत्वपटत्वादेर्नियतविरोधदर्शनेन परस्परात्यंताभावसमानाधिकरणजातित्वस्य विरोधितावच्छेदकत्वकल्पनान्न तदवच्छिन्नजात्योः समावेशसंभव इति चेत् ! न, परस्परत्वस्य नानात्वेन तन्नियमस्य विशिष्य विश्रामात् । नरत्वात्यन्ताभावसमानाधिकरणसिंहत्वादेविरोधितानवच्छेदकत्वात् । अथ जात्यंतररूपतेव व्यक्त्यंतररूपतैवास्य कुतो न संगीर्यत इति चेत् ! स्वतंत्रपरिभाषाया अपर्यनुयोज्यत्वात् ।
[सामान्यविशेषाऽविरोधप्रदर्शनम्] एवं च सामान्यविशेषात्मकत्वस्यापि तथात्वं साधु संगच्छते । एकैकनयार्पणया प्रतीयमाने सदृशविसदृशपरिणती हि केवलानुवृत्तिव्यावृत्तिधियावर्पयन्त्यो केवलसामान्यविशेषरूपे प्रमाणार्पणया प्रतीयमानं वस्तु पुनर्युगपदुभयधियं जनयत्कथंचिदनुगमव्यावृत्तिमजात्यंतरमेवेत्याहुः । अथैवं सामान्य वस्तु न स्यादिति चेत् ? न वस्तु नाप्यवस्तु किंतु वस्त्वेकदेश इत्येव सिद्धांतः। अथ मिलिताभ्यां सामान्यविशेषाभ्यामेव कथंचिदनुवृत्तिव्यावृत्तिव्यवहारस्यैकदा संभवात्तयोरेव जात्यंतररूपताऽस्तु इति चेत् ! प्रमाणार्पणयैकत्वेन पर्यवसितयोराधारतया प्रयीतमानयोस्तयोरेव समुदायित्वेन तथात्वमुत्पश्यामः । अंशांशिनोर्विवक्षामेदेनैव मेदात् परमार्थाऽभेदेंऽशांशिभावाऽसंभवात् । यथा हि कणानामेव समुदितानां राशित्वं, असमुदितानां तु तदेकदेशत्वं तथाऽत्रापि भावनीयमिति दिग् ।