________________
स्थाद्वादरहस्ये क्रमेण घटादिपदप्रयोगः, इत्येतादृशपरिपाट्याः केवलिनामभावान्न ते शब्दप्रयोक्तारः, किंतु विश्रसात एव मूनोंनिरित्वरा ध्वनयस्तत्तच्छद्रत्वेन परिणम्यार्थविशेष बोधयन्ति । नचैवमुपदेशादि तस्य नियतकालीनं न स्यादिति वाच्यं, वैस्रसिकस्यापि तस्य स्वभावतो नियतकाल एव भावाद, घनगर्जितादिवत् । उक्तं च "ठाणणिसेज्जविहारा । धम्मुवदेसो य णियदिणा तेसिं । अरहंताणं काले मायाचारो व्व इत्थीणं" [प्र० सा० १-४४] । इत्याहुः।
दिगम्बरमतदूषणम्] तन्न, वर्णमात्रं प्रत्येव पुरुषप्रयत्नस्य कारणत्वात्तं विना तदनुपत्तेः । न च रागविशिष्टवणे प्रत्येव तस्य हेतुताऽनंतप्रवृत्तिकार्यतावच्छेदककोटौ रागविशिष्टत्वदानापेक्षया रागविशिष्टप्रवृत्ति प्रत्येवेच्छाया हेतुत्वकल्पने लाघवात् । न च तत्तन्मोहविशिष्टत्वावच्छिनं प्रति तत्तन्मोहत्वेन हेतुतास्त्विति वाच्यं, तथापि तेषां प्रयत्नसत्त्वे शब्दप्रयोगस्य निरपवादात् । भगवतां मोहाभिव्यक्तचैतन्यविशेषरूपाया इच्छाया असत्त्वेऽपि तदनभिव्यक्तचैतन्यविशेषरूपानुजिघृक्षादिसत्त्वमविरुद्धम् । अत एव "तो भासइ सव्वन्नू भवियजणविबोहणढाए" इत्याद्यार्ष स्वरसतः संगच्छते । न चैवं मोक्षेप्यनुजिघृक्षापत्तिः, जिननामकर्मोदयादिसाचिव्यादेव तत्प्रवृत्तेरित्यप्याहुः । इत्यधिक मत्कृताऽध्यात्ममतपरीक्षायाम् ।
एवं च नित्यानित्यत्वादिधर्माणां वस्तुतो विरोधाभावेऽपि यदि कथंचिद्विरोधः परेणाभ्युपेयतेऽभ्युपेयतां तर्हि बाद, तथापि तेषामेकत्र समावेशे न किंचिद्वाधकं पश्यामः । कथंचिद्विरुद्धत्वेनाभ्युपेतानामपि नीलपीतादीनामेकत्र समावेशस्य दृष्टत्वादित्याहुः 'विरुद्धेति । मेचकवस्तुषु= मिश्रवस्तुषु विरुद्धवर्णानां नीलपीतादीनां 'योगः =एकत्र समावेशो, 'हि'=यतो, 'दृष्टः'सकलजनानुभवसिद्धः । प्रतियंति हि सर्वोऽपि लोकश्चित्रमपि घटं नोलत्वपीतत्वदिना । नच तत्रावयवनीलादिमत्तैव परंपरया प्रतीतेविषयः, एवं सति योग्यरूपादीनां त्रुटिमात्रगतत्वापत्तेः । चित्रत्वव्यवहारस्तु नीलविशिष्टपीतादिनैकवृत्तिनीलपोतोभयादिना वा, विशिष्टाविशिष्टभेदं तु स्याद्वादिनो वयं न प्रतिक्षिपामः, रूपविभाजकोपाधीनां पंचत्वानतिरेक एव तात्पर्यात् । अथ तत्रापि नैकावच्छेदेन नानारूपसत्त्वं, किन्तु नीलपीतकपालाद्यवच्छेदकभेदेनेति चेत् ? सत्यमित एवोपाधिभेदादेव नित्याऽनित्यत्वादय एकत्र समाविशन्तीत्युक्तम् ।
[उत्तरार्द्धस्य विविधाः व्याख्याः] अथवा 'विरुद्धं' विरुद्धत्वेनाभिमतं, 'द्वयं' नित्यानित्यत्वादिकं, 'नैकत्राऽसत' नैकत्राऽवृत्ति, कुतः ? 'प्रमाणप्रसिद्धितः' एकवृत्तितया प्रमाणेन प्रमीयमाणवादीत्यर्थः । एकवृत्तित्वेन प्रमीयमाणस्यापि विरुद्धत्वाभिमानात् समावेशानभ्युपगमे नीलपीतादीनामपि स न स्याद्
१. स्थाननिषद्याविहरा धर्मोपदेशश्च नियत्या तेषाम् । अर्हतां काले मायाचार इव स्त्रीणाम् ॥ २. तस्माद्भाषते सर्वज्ञो भव्यजनविबोधनार्थम् ।