________________
ग्लो०७]
अभिलाप्यत्वस्वरूपम्
किं तावता, तथापि घटत्वादेः पटपदबोध्यतावच्छेदकत्वस्य निरपायत्वात् । नापि गृहीततत्तदर्थनिरूपितसंकेतकपदबोध्यतावच्छेदकरूपवत्त्वं तत् , पटपदस्यापि घटे संकेतग्रहसंभवात्तदोषानतिवृत्तेः । नापि गृहीततत्तदर्थनिरूपितनियन्त्रितसंकेतकपदबोध्यतावच्छेदकरूपवत्त्वं, घटे हि घटपदस्यैव कोशादिना संकेतो नियम्यते न तु पटपदस्येति न प्रागुक्त दोष इति-वाच्यं, श्रुताऽनिबद्धेषु प्रज्ञापनीयेषु तादृशपदसंकेतग्रहाऽसंभवात् । न च तेषामेवासिद्धिः, “पन्नवणिज्जाणं पुण अणंतभागो सुअनिबद्धो"त्ति [बृहत्कल्पवृत्तिवचनप्रामाण्यात् ।
__ अत्र वदन्ति-तत्तदर्थस्वरूपपरिणामपरिणतपदबोध्यतावच्छेदकरूपवत्त्वं तत् , श्रुतज्ञानेन तन्नित्रितमतिज्ञानेन वा तत्तद्रूपेण तत्तदर्थान् प्रतिपादयत्पदं हि तत्तदर्थपरिणामभाग् भवति अन्यथा प्रवृत्त्यादिप्रतिनियमानुपपत्तेः । एतेन 'विकल्पयोनयः शब्दा, विकल्पा शब्दयोनयः । कार्यकारणता तेषां, नार्थ शब्दाः स्पृशन्त्यपि' ॥१॥ इति निरस्तं, कथंचित्तादात्म्येनैव शब्देनार्थप्रतिपादनात् । तदुकं परमर्षिभि-'खुरअग्गिमोअगुच्चारणमि, जम्हा उ वयणसवणाणं । णवि छेओ णवि दाहो ण प्रणं तेण भिण्णं तु ॥१॥ जमा य मोअगुच्चारणंमि तत्येव पच्चमओ होइ । ण य होइ सअण्णत्थो । तेण अभिण्णं तदत्थाओ ॥२॥ त्ति । न चैवमेकस्मादपि पदात् सर्वत्र प्रवृत्तिः स्यात्सर्ववाचकस्य सर्वतादात्म्यादिति वाच्यं, यत्रैव हि यत्पदस्य संकेतो गृह्यते तत्रैव तत्तादात्म्यपरिणतिरिति नियमात् । न च तत्तत्संकेतग्रहस्य तत्तदर्थबोधं प्रत्येव हेतुताऽस्तु कि तत्तादात्म्यपरिणतिहेतुताकल्पनेनेति वाच्यं, शब्दाऽननुविद्धस्यार्थस्याभानादित्यन्यत्र विस्तरः ।
___इत्थं चानभिलाप्यानामनभिलाप्यत्वेनाऽनभिलाप्यपदप्रतिपाद्यत्वेऽपि नाभिलाप्यत्वं, प्रातिस्विकरूपेण पदाऽप्रातिपाद्यत्वात् । तत्तदर्थपरिणततत्तत्पदप्रयोक्तैव च पुरुषस्त्तत्तदर्थप्रतिपादकत्वेन व्यवहियते । अत एव न भगवतां तत्तत्पदप्रयोक्तृणामपि श्रुतज्ञानाऽविषयीभृतार्थप्रतिपादकत्वम् । इदमेवाभिप्रेत्याभ्यधायी " केवलविन्नेयत्थे सुअणाणेणं जिणो पयासेइ । सुमनाणकेवली वि हु तेणेवत्थे पयासेइ" त्ति ॥ श्रुतज्ञानेन-वाग्योगेनेत्यर्थः, अन्यथा भगवतः श्रुतज्ञानाऽसंभवाद्यथाश्रुतार्थानुपपत्तेः, तत्र क्षायिकश्रुतज्ञानादिसत्त्वपक्षस्यानभ्युपगमादन्यथोपयोगद्वयमात्राभिधानविरोधात् । तथा च भगवान् सर्वमर्थ संविदानोऽपि वाग्योगस्वाभाव्यात् श्रुतज्ञानविषयीभूतमेवार्थ प्रतिपादयति नान्यदिति प्रतिपत्तव्यम् ।
दिगम्बरास्तु-परकीयघटादिज्ञानस्य स्वेष्टसाधनताज्ञानात्तत्र प्रयोक्तुरिच्छा, तत इष्टघटादिज्ञानसाधनतया घटादिपदे तत्साघनतया च कंठताल्वाद्यभिघातादाविच्छा, ततः प्रवृत्यादि
१. प्रज्ञापनीयानां पुनरनंतभागः श्रुतनिबद्धः । २. क्षुरानिमोदकोच्चारणे यस्मात्त वदनश्रवणानां । नापि छेदो नापि दाहो न पूरणं तेन भिन्नं तु ॥१॥
यस्माच्च मोदकोच्चारणे तत्रैव प्रत्ययो भवति । न च भवति स अन्यार्थः तेन अमिन्नं तदर्थात् ॥२॥ . ३. केवलविज्ञेयार्थान् श्रतज्ञानेन जिनः प्रकाशयति । श्रुतज्ञानकेवली अपि खलु तेनैवार्थान् प्रकाशयति ।।