________________
स्याद्वादरहस्ये
मिव यावद्वयक्तिवृत्तित्वं जातेरेकदा तु न व्यवहियते । किं च पटादौ नष्टघटभेद इव जातावतीतानागतव्यक्तिसमवेतत्वं नासंभवदुक्तिकमिति चेत् ? न, समवायस्यैवाऽविष्वग्भावातिरिक्तस्याऽसिद्धेः । एतेन अनेकवृत्तित्वं स्वाश्रयान्योन्याभावसामानाधिकरण्यमि'ति वर्धमानवचनमप्यपास्तं, विशेषेऽतिव्याप्तितादवस्थ्यवारणाय सामानाधिकरण्यस्य समवायगर्भत्वावश्यकत्वात् ।
[विशेषपदार्थेऽनुपपत्तिः] विशेषपदार्थस्वीकारोऽपि तेषां भेदकधर्मान्तराऽभाववतां परमाण्वादीनां नित्यद्रव्याणां परस्परयोगिभेदप्रत्यक्षान्यथानुपपत्तेः, सोप्यनुपपन्नः, तद्गुणेष्वपि तत्स्वीकारापत्तेः । अथ तत्र शुक्लतरत्वाद्यवांतरजातयः स्वीक्रियते, परमाणौ त्वंत्यकार्यावृत्तित्वादवांतरजातयः स्वीकत्तं न शक्यंत इति चेत् ? तथाप्यवांतरजातीयेष्वपि रूपादौ परस्परव्यावृत्तिः किमधीना ! स्वाश्रयाश्रितत्वसंबंधेन विशेषाधीनैवेति चेत्तहि स विशेषो गुणनिष्ट एव कल्प्यतां, परमाण्वादिषु परस्परव्यावृत्तिस्तु स्वाश्रयसमवायित्वसम्बन्धेन विशेषाधीनेत्यत्र किं विनिगमकम् ! 'गुणानां बहुत्वात्तत्रानन्तविशेषकल्पनायां गौरवं बाधकमिति चेत् ? तथापि प्रत्येकं विनिगमनाविरहः कुत्र लीनः ? किं च तादृशविशेषाणामपि व्यावृत्तिः कुतः ? स्वत एवेति चेत्तर्हि तदाश्रयाणामपि स्वत एव सास्तु । वैधर्म्यव्याप्ता सा कथं तद्विनेति चेत् ? अंततस्तत्तद्वयक्तित्वादीनामपि तत्त्वसंभवात्प्रतिद्रव्यमनंताऽगुरुलघुपर्यायाणां सिद्धांतसिद्धत्वाच्च । एतेन-अयमनारब्धद्रव्यः परमाणुः एतत्परमाणुनिष्टजातिगुणकर्मभिन्नधर्मसमवायो परमाणुत्वादन्यपरमाणुवदित्यनुमानमपि-निरस्त, तर्कविरहेऽनुमानसहस्रस्याऽकिंचित्करत्वात् , द्रव्यसमवायित्वस्योपाधित्वाच्च । किं चैवमप्याकाशादौ न विशेषसिद्धिः । शब्दादेरेव तत्र व्यावर्तकत्वाच्च सिद्धयसिद्धिव्याघातेन तु विशेषस्येव द्रव्यस्यैव व्यावृत्तिस्वभावत्वं न्याय्यमिति दिए ।
अभिलाप्यत्वाऽनभिलाप्यत्वे अपि न विरुद्धे । दृष्टं हि घटस्य यथा घटपदापेक्षयाsभिलाप्यत्वं तथा पटपदापेक्षयाऽनभिलाप्यत्वमपीति । नन्वभिलाप्यभावापेक्षयाऽनंतगुणिता अनभिलाप्या भावा भवद्भिरुपेयंते, यदुक्तं '[बृहत्कल्पवृत्तौ]-"पन्नवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं" ति । तेष्वेवेदमुभयमनुपपन्नमिति चेत् ? न, तेषामनभिलाप्यपदेनैवाभिलाप्यत्वात् ।
[ अभिलाप्यत्वपदार्थपरीक्षा ] ननु तर्हि किमिदृशानभिलाप्यव्यावृत्तमभिलाप्यत्वं ? न तावत्पदशक्तिविषयत्वं, अतिप्रसंगात् । नापि पदजन्यबोधविषयत्वं, तदविषये कचिद् घटादावभावात् । नापि तद्बोध्यतावच्छे. दकरूपवत्त्वं, घटस्यापि पटपदाभिलाप्यत्वापत्तेः, एकस्यापि पदस्य सर्वार्थवाचकत्वेन पटपदाभिलाप्यतावच्छेदकप्रमेयत्ववत्त्वस्य घटे सत्त्वात् । अथ पटपदादितः प्रमेयत्वेनाऽबोधान्न तदवच्छिन्ने शक्तिः, शक्तिज्ञानपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकत्वेनैव कार्यकारणभावादिति चेत् ?
१. 'प्रज्ञापनीया भावा अनंतभागस्त्वनभिलाप्यानाम्। (पूर्वार्द्धमेतत् । विशेषावश्यकेऽपि लोक० १११)