________________
श्लो०७]
स्याद्वारे विरोधपरिहारः
[ जैनमते सादृश्यनिर्वचनम् ] अत्र वदंति-सादृश्यं न तभिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं, किंतु तवृत्तिधर्मेकधर्मवत्त्वम् ।। एकत्वं च संग्रहनयार्पणार्पितबुद्धिविशेषविषयत्वं, तेन नैतद्धटत्वादेः सामान्यत्वं, संग्रहस्य विस्तरावधिकत्वात् । नपि पटत्वादेर्घटसादृश्य, तत्तदितरसाधारणधर्मेष्वेव संग्रहसंभवात् । न च स्वस्मिन् स्वसादृश्यापत्ति; इष्टत्वात्कथमन्यथाऽस्या इवास्या इत्यादाविवशब्दप्रयोगः साधीयान् । न चैवमनन्वयस्यालंकारान्तरत्वं न स्यादिति वाच्यं, स्वस्यैवोपमानोपमेयत्वविवक्षया तत्रालंकारांतरव्यपदेशात् । अथास्या इवास्या इत्यादावपि वैधर्म्यरूपमेदप्रतिसंधान एव सादृश्यव्यवहारो नान्यथा, अनुगतव्यवहारस्तु भेदानुपरक्ताखंडधर्ममात्रेणेति सादृश्यात्सामान्यमतिरिच्यत इति चेत् ? कोशपानप्रत्यायनीयमेतद्वैधाऽप्रतिसंधानेऽपि तत्रेवाद्यर्थबोधानपवादात् । 'तदप्रतिसंधानेऽनन्वय एव नोपमे ति चेत् ? न, सादृश्यस्य भेदगर्भितत्वे इवादिपदात्तत्प्रतिसंधानस्यैवावश्यंभावात् । अयोग्यताभ्रमादितस्तदप्रतिसंधानेऽनन्वय इति चेत् ! तर्हि यत्र नायोग्यताभ्रमादिकं तत्र क्वचिद्वैधाप्रतिसंधानेऽपीवादिपदार्थबोध इति कथं तस्येवाद्यर्थत्वम् !
इदमत्रावधेयम् । 'पटो घटसदृशः, पटो द्रव्यमि'तिप्रतीत्यो(लक्षण्यं विषयवैलक्षण्याधीनं, विषयं विनैव धियां विशेषे साकारवादापातात् । तथा च सावच्छिन्ननिरवच्छिन्नप्रकारताभ्यामेव तयोर्वैलक्षण्यं वाच्यम् , न तु तदनुरोधेन सादृश्यमेव तद्भिन्नत्वगर्भ वाच्यमिति ।
नव्य[म]त(ता)नुयायिनस्तु सादृश्यमतिरिक्तमेव बहुषु धर्मेषु तत्त्वकल्पने गौरवात् । न च तद्भिन्नत्वे सति तद्गतधर्मवत्त्वस्य तद्वयंजकत्वकल्पने विपरीतगौरवं, एवं सत्यखंडपदार्थमात्रविलयापत्तेः । स्मर्यमाणारोपादिकारणताधवच्छेदकत्वेनानुगतस्यैव तस्य सिद्धौ तद्गौरवस्य फलमुखत्वाच्च । घटादिसादृश्यं च पटादौ द्रव्यत्वाद्यवच्छेदेन न तु गुणत्वाद्यवच्छेदेनेति 'पटो द्रव्यत्वेन घटसदृशो न तु गुणत्वेने'त्यादिप्रतीते नुपपत्तिरित्याहुः । तच्चिन्त्यम्, 'घटसदृशः पट' इति निर्णयोत्तरं घटवृत्तिधर्मवान्नवेति संशयानुदयात् , अतिरिक्ततन्निश्चयस्य तत्प्रतिबंधकत्वकल्पने गौरवात् । न च तवापि घटभिन्नत्वे सति तद्वृत्तिधर्मवत्तारूपतन्निश्चयस्य घटवृत्तिधर्मवत्त्वसंशयाच्यावृत्ततया पृथक् प्रतिबंधकत्वकल्पने ध्रुवं साम्यमिति वाच्यं, पटो घटभिन्नत्वे सति घटवृत्तिधर्मवानितिशाब्दबोधोत्तरं तदनुत्पत्त्या तत्प्रतिबंधकत्वकल्पनस्यावश्यकत्वादिति दिग् ।
___सामान्यस्य पराभिमते नित्यत्वानेकसमवेतत्वे अपि कथं समगंसाताम् ? अत्र मृत्पिण्डे घटत्वमासीदिति प्रतीत्या तस्यानित्यत्वसिद्धेः । अतीतानागतव्यक्तिवृत्तित्वस्यैव दुरुपपादत्वेन यावद्वयक्तिवृत्तित्वरूपस्यानेकसमवेतत्वस्य दुर्वचत्वाच्चेति प्रांचः । अथ यथा भवन्मते एकस्य शब्दस्य सर्वार्थवाचकत्वं अतीतानागतव्यक्तिनिरूपितत्वस्य कादाचित्कत्वेऽपि तन्निरूपितवाचकताया एकत्वेन निर्वहति, तथा ममापि तत्तद्व्यक्तिनिरूपितत्वस्य कादाचित्कत्वेऽपि तन्निरूपितसमान्यस्यैकतया यावद्वयक्तिसमवेतत्वं जातेनिर्वक्ष्यति । भवतामेकस्य शब्दस्य याषदर्थवाचकत्व