________________
स्याद्वादरहस्ये
विशेषे सादृश्यास्तित्वेनैवानेकद्रव्येष्वनुगतधी तु स्वरूपास्तित्वेनेति स्वभावस्यैव विजृम्भितमित्याहुः। वस्तुतः स्वरूपास्तित्वं प्रतिव्यक्त्यनेकमेव, सादृश्यास्तित्वं पुनरेकमपीति भिन्नद्रव्यानुवर्तकमिति बोध्यम् ।
[योगमते सादृश्यव्याख्यानम् ] ___ अत्र योगाः संगिरन्ते । ननु सादृश्यं तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम् । स्वस्मिन् स्वसादृश्यवारणाय 'तभिन्नत्वे सती'ति । न च गगनं गगनाकारमित्यादावव्याप्तिः । उपमितिक्रियाऽनिष्पत्त्याऽनन्वयस्याऽलक्ष्यत्वात् । अत एवोपमेयोपमाया अतादृश्या लक्ष्यत्वादेव न तत्रातिव्याप्तिः । मिथस्तयोरेवोपमानोपमेयत्वविवक्षामात्रादस्यालंकारांतरव्यपदेशात् । यत्तु प्राचा-तद्भिन्नत्वे सति तद्गतभूयोऽसाधारणधर्मवत्त्वं सादृश्यम् , पटादो घटसादृश्यवारणाय 'मसाधारणे'ति, यत्किचिंदसाधारणधर्मवति तद्वारणाय 'भूय' इत्युक्तं-तन्न, पटादेरपि कथंचित् घटसादृश्यव्यवहारात् ; तद्वाचकानां इवादिपदानां शक्तिस्तु भेदे वृत्तित्वे धर्मे च खंडश एवेति लाघवाच्चंद्रादिपदसमभिव्यवहाराच्च चंद्रादिभिन्नत्वलाभः, अनवच्छिन्नविशेषणताया भेदसंसर्गत्वाच्च न कपिसंयोगवति कपिसंयोगवत्सादृश्यापत्तिः । अथैवं 'पटो न घटसदृश' इतिधीन स्याद्, घटवृत्तिधर्मसामान्याभावस्य पटेऽसंभवात् । अत्रोपमानपदार्थतावच्छेदकनिष्टाश्रयत्वसंसर्गेण वृत्तित्वविशिष्टधर्माभावबोधान्नायं दोष इति चेन्न, एवं सति 'घटः पटसदृश' इति बुद्धयनापत्तेरिति चेत् ? न, 'पटो न घटसदृश' इति बुद्धयनापत्तेरिष्टत्वादनिष्टत्वे वा धर्मपदं घटत्वादिपर बोध्यम् । 'एवमपि घटभिन्नत्वविशिष्टघटत्वाऽप्रसिद्धेः कथं तदभावबोध' इति चेत् ? न ह्यत्र विशिष्टस्याभावबोधः किन्तु घटभिन्नत्वघटवृत्तिधर्माभावयोरेकत्र द्वयमितिन्यायेनेति 'घटभिन्नत्वविशिष्टघटवृत्तिधर्मस्य घटत्वीयसंबंधेनाभावबोधान्नात्रानुपपत्तिरित्यप्याहुः।
एतत्कल्पे च सामानाधिकरण्यसंबंधेनेवाद्यर्थस्य भेदस्य स्वार्थे धर्म एवान्वयो बोध्यः । समीचीनश्चायमेव पक्षः, पूर्वत्र 'घटो न घटसदृश' इति बोधाऽनापत्तेः । ननु घटत्वादावपि पटत्वात्यंताभावादिरूपघटभेदवैशिष्टयाद् घटे घटसादृश्यं कथं नेति चेत् ? तादृशघटभेदस्य घटसत्त्वेऽपि घटभेदत्वावच्छिन्नाधिकरणताया अभावाद् अन्यथा 'घटो न घट' इति प्रतीत्यापत्तेरिति गृहाण । अथ तद्भिन्नत्वमात्रमेव सादृश्यमस्तु प्रमेयत्वादिना सर्वत्र सर्वसादृश्याद् व्यों विशेष्यभाग इति चेत् ? न, तदभिन्नत्वमात्रस्य सादृश्यव्यवहारानौपयिकत्वाद्विशिष्टाधिकरणताया भिन्नत्वेन वैयर्थ्याभावाच्च । न ह्यत्रविशिष्टाधिकरणताघटिता व्याप्तिर्विशेष्यभागं विना ग्रहीतुं शक्यत इति । एवं च पटादौ घटसादृश्यस्यापि घटाभिन्नत्वविशिष्टद्रव्यत्वाचखंडधर्मरूपतया द्रव्यत्वमात्रस्यैव सामान्यत्वमुचितं, विशिष्टस्य घट एवाऽननुवृत्तेः । अथैवं पशुत्वादिना सखंडधर्मेण सादृश्यं न स्यादिति चेत् ? न, तस्यापि परम्परयाऽखंडत्वादिति ।