________________
लो० ७]
स्याद्वादे विरोधपरिहारः
च्यवादिति चेत् ? न, प्रतिव्यक्ति तुल्यातुल्यपरिणतिरूपधर्मयोरेव स्वभावतोऽनुवृत्तिव्यावृत्तिनियामकत्वात् । धर्मी पुनः कथंचिदनुवृत्तिव्यावृत्त्युभयस्वभाव इति स्पष्टीभविष्यति व्याख्यान्तरे पुरस्तात् । अथैवमप्यूर्ध्वतासामान्ये मानाभावोऽङ्गदकुंडलादौ कांचनत्वरूपतिर्यक्सामान्येनैव 'कांचनं कांचनमित्यनुगतप्रतीतेर्निवाहादिति चेत् ? न, 'यदेव कांचनमङ्गदीभूतं तदेव कुंडली भूतिमि ' - त्यादिप्रतीतीनामेकाकारत्वस्योर्ध्वता सामान्यं विनाऽनुपपत्तेः, विसदृशपरिणतिषु तिर्यक्सामान्यानवकाशाच्च । किं च प्रतीतावनुगतत्वं = एक विषयनिष्टापर विषय भेदानवच्छेदकावगाहित्वं, तन्निर्वाइकत्वं च तिर्यकूसामान्यस्येवोर्च्चतासामान्यस्याप्यक्षतमिति दिक् । यद्यपीदृशोर्ध्वता सामान्यत्वं चिरस्थायिनां गुणपर्यायाणामपि संभवति, तथापि पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वता सामान्यमित्यत्र द्रव्यपदं धर्मिपरमिति न कोपि दोषः ।
[ दिगम्बरमते स्वरूपास्तित्वव्याख्यानम् ]
दिगम्बरास्तु - एकद्रव्येषु घटादिषु स्वरूपास्तित्वेनाऽनुगतव्यवहारः । स्वरूपास्तित्वं च स्वगुणपर्यायैरुत्पादव्ययध्रुवत्वैश्च द्रव्यस्य स्वभाव एव । तदुक्तं "सैन्भावो हि सहावो, गुणेहिं सगपज्जएहिं चित्तेहिं । दव्वस्स सव्वकालं उप्पादव्वयधुवत्ते हिं" [प्र.सा. २ - ४ ]ति । अयमर्थःद्रव्यादिचतुष्टयेन द्रव्यात्पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेण गुणानां पर्यायाणां च स्वरूपमुपादाय प्रवर्त्तमानप्रवृत्तियुक्तस्य द्रव्यास्तित्वेन निष्पादितनिष्पत्तियुक्तैर्गुणैः पर्यायैश्च यदस्तित्वं द्रव्यस्य, स स्वभावः । तथा द्रव्यादिचतुष्टयेन गुणेभ्यः पर्यायेभ्यश्च पृथगनुपलभ्यमानस्य कर्त्रा - दिरूपेण द्रव्यस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तैर्गुणैः पर्यायैश्च निष्पादितनिष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया तैर्निष्पादितं यदस्तित्वं स स्वभावः । एवं द्रव्यादिचतुष्टयेन द्रव्यात्पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेणोत्पादव्ययधौव्याणां स्वरूपमुपादाय प्रवर्त्तमानप्रवृत्तियुक्तस्य द्रव्यास्तित्वेन निष्पादितनिष्पत्तियुक्तैरुत्पादव्ययधौव्यैर्यदस्तित्वं द्रव्यस्य स स्वभावः । तथा द्रव्यादिचतुष्टयेनोत्पादव्ययध्रौव्येभ्यः पृथगनुपलभ्यमानस्य कर्त्रादिरूपेण द्रव्यस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तैरुत्पादव्ययध्रौव्यैर्निष्पादित निष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया तैर्निष्पादितं यदस्तित्वं स स्वभाव इति । तच्च स्वरूपास्तित्वमिति गीयते । परस्परकरम्बितशक्त्या निष्पाद्यनिष्पत्तिमद्भाववतामस्तित्वं स्वरूपास्तित्वमिति परमार्थः । अनेकद्रव्येष्वनुगतव्यवहारस्तु सादृश्यास्तित्वेन । तदुक्तं - " इह विविधलक्खणाणं, लक्खणमेगं सदित्ति सव्वगदं । उवदिसदा स्खलु धम्मं, जिणवरवसहेण पण्णत्तं" ।।” [प्र.सा. २- ५ ] ति । अथ सादृश्यास्तित्वानामपि प्रतिव्यक्तिस्वरूपभेदात् स्वरूपास्तित्वानामिव नानेकद्रव्यानुवर्त्तकत्वं स्यादिति चेत् ? अत्र केचित् - सत्यपि प्रतिव्यक्ति स्वरूपभेदा
१. सद्भावो हि स्वभावो, गुणैः सह पर्ययैश्वित्रैः । द्रव्यस्य सर्वकालमुत्पादव्ययध्रुवत्वैः ॥ २. इह विविधलक्षणानां लक्षगमेकं सदिति सर्वगतम् । उपदिशता खल धर्मं जिनवरवृषमेण प्रज्ञप्तम् । स्या. र. ६