________________
४०
स्याद्वाद
[सत्त्वासत्त्वविरोधपरिहारः ]
ननु भवतु प्रागुक्तपथा नित्यानित्यत्वभेदाभेदयोर कत्रवृत्तित्वं सत्त्वासत्त्वादीनां तु नैवमिति चेत् ? न, सत्त्वमिह न सत्ताजातिमत्त्वं, जात्यादिष्वपि तद्वयवहारात् । नापि तया सहकार्थवृत्तित्वं तदपेक्षया वृत्तित्दमात्रस्यैव तत्त्वौचित्यात्, 'अभावः सन्' इत्यव्यवहाराच्च । अत एव न प्रामाणिकत्वं वर्त्तमानकालसम्बधित्वं वा तत्, अतीतघटेऽपि सत्त्वव्यवहाराच्च । किन्तु विधिमुखप्रत्ययवेद्यत्वं सत्त्वं, निषेधमुखप्रत्ययवेद्यत्वं चासत्त्वं इति । तदुभयमपि घटादौ स्वपरद्रव्य चतुष्टयावच्छेदेन प्रत्यक्षत एवं प्रतोयते । प्रतीयन्ति हि पामरा अपि 'घट: कपाले सन्न तु तंतुविति ।
-
अथ -- सत्ता जातिरेव प्रत्यक्षवेद्या योग्यत्वान्न तु विधिमुखप्रत्ययवेद्यत्वं, अयोग्यघटितत्वेनायोग्यत्वादिति चेत् ? न, योग्यताविशेषेण तादृशस्यापि कचित्कस्यचिद् योग्यत्वात् । एवं सामान्यविशेषात्मकत्वमपि । स्वभावादेव हि घटोऽनुवृत्तिधियं जनयति, न तदर्थमतिरिक्त सामान्यकल्पनमुचितम् । यतस्तदप्येकमेव सत् पटादौ कि नानुवृत्तिधियं जनयेत् ? धर्मिताविशेषेण तत्र तन्नास्तीति चेत् ? धर्मिताविशेषेणैव तर्हि सामान्यस्यानुगतवीनियामकलं मन्वानस्तादात्म्येनैव तस्य तथात्वं किं नाभ्युपेष, तवान्योन्याभावगर्भ त्र्याप्तिप्रवेशेन कारणतायां लाघवं किं न प्रतिसंघत्से ? अथ व्यक्तितादात्म्ये सामान्यमनेकं सत् सामान्यरूपतामेव जह्यादिति चेत् तद्युपाधयोऽपि किं तन्न जद्युः ! तेषामपि परंपरया जातिरूपतयैकत्वमेवेति चेत् : तर्ह्यत्राप्यपेक्षा बुद्धिविशेषविषयत्वरूपं संग्रहनयार्पणया संभवदेकत्वं कः प्रतिक्षिपति । एकत्वसंख्यावत्त्वं तु जातौ तवापि नास्ति । अनेकस्य कथमेकत्वमिति चेत् ? स्वभावादेवेति ब्रूमः । [न्यायनयाभिमतजा तेरसिद्धता ]
अथानुगतकार्यस्यानुगतकारण जन्यत्वनियमाद्वत्वावच्छिन्नबुद्धौ घटत्वस्यानुगतस्यैव हेतुत्वौचित्यमिति चेत् ? न, लाघवेन व्यंजकत्वाभिमतानामुपाधीनामेव तत्त्वस्वीकारौचित्यात् । अन्यथा प्रवृत्त्यादिजनकतावच्छेदकत्वेन कारणत्वादीनामप्यतिरेककल्पनापत्तेः । अथ व्यंजकमपि परंपरया सास्नात्वादिकमेवेति नोपाधिभिर्जात्यन्यथासिद्धिरिति चेत् ? तथाप्यनुगतधीनियामकतया सिध्यतः सामान्यस्याभावादिसाधारणस्यैव स्वोकतुमुचितत्वात् । अन्यथा कारणतावच्छेदकत्वादिनाप्यखंडोपाधेरेव स्वीकारेणोपाधिरेव परम्परासंबद्धो नातिरित्यस्यापि सुवचत्वात् । ' उपाधेः कारणाद्यवच्छेदकत्वे नानाविशेषणतानां कारणतावच्छेदकतावच्छेदकसंबंधे गौरवाज्जातेस्तथात्वे तु समवास्यैकस्यैव तत्त्वे लाघवान्नाखंडोपाधिनापि जातिविलयापत्तिरिति चेत् न, विशेषणताया अपि लाघवात्समवायवदेकस्या एव तवाभ्युपगन्तुं युक्तत्वात् नानात्वेऽपि विशेषणतात्वेन तासामनुगमसंभवाच । कि च परम्परासम्बन्धेन जात्यप्रतिसंधानेऽप्युपाधिभिरनुवृत्तिधी जननदर्शनात् स्वभावत एव घटादीनामनुवृत्तिधीनियामकत्वमुचितम् । अथ एवमैतद्घटत्वेनापि घटः किं नानुवर्त्तेत, स्वभावाऽप्र
,