________________
लो०५]
स्यावाद विरोधपरिहारः
[ श्लोकव्याख्यादिग्दर्शनम् ] अत्र एकत्र एकस्मिन् वस्तुनि द्वयं न विरुद्धमिति न व्याख्येयं, विरुद्धपदस्यैवेकाधिकरणाऽवृत्त्यर्थकत्वेनैकत्रेत्यस्य पुनरनन्वयाऽऽपत्तेः, विरुद्ध एकवृत्तित्वस्य बाधादविरुद्धे तु तस्याविरुद्धत्वपर्यवसितस्याऽपि तेन रूपेणाऽसिषाधयिषितत्वादविरुद्धत्वप्रकारिकाया एव सिषाधयिषायाः सत्त्वात् । किन्तु-द्वयं न विरुद्ध =न परस्परानधिकरणाधिकरणम् । तत्र हेतुगर्भ विशेषणमाहुः 'एकत्रे'ति, एकाश्रयवृत्तित्वं तदर्थः । न चायं हेतुरसिद्धः, एकत्रैव घटादौ नित्यानित्यादिप्रतीतेः सार्वजनीनत्वात् । ननु नेयं प्रमा, तत्र विरोधग्राहकप्रमाणपरंपरासत्त्वेन विषयबाधात्, न च भ्रमावस्तुसिद्धिरित्याशंकायामभिदधति असदिति, अत्र विरोध इति शेषः । सत् पदं चं भावपरम् । तथा च विरोधे प्रमाणसिद्धरसत्त्वादेकाश्रयवृत्तित्वं निराबाधमिति हार्दम् । न हि अलानिलयोरिव तयोर्विरोधः साक्षादनुभूयते, रूपरसयोरिव प्रत्युतैकवृत्तित्वस्यैवानुभविकत्वात् । न वा छायातपयोरिव परस्परपरिहारेण वर्तमानत्वं, एकदैवानुभवात् । नापि घटतदभावयोरिवैकज्ञानानंतरमज्ञायमानत्वं, नित्यत्वादिज्ञाने सत्यप्यनित्यत्वादेर्शानात् । स्वभावतो विरोधाभिधानं तु स्ववासनामात्रविज़म्भितम् । ___ अथ 'प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वनियमात् कथमसत्त्वे पंचम्यन्वय इति' चेत् ? न, तवापि 'तेषां मोहः पापीयान् नामुढस्येतरोत्त्पत्ते'रितिसूत्रे (न्यायस०४-१-६) अमूढस्येतरोत्पत्त्यभावादित्यर्थकरणेन निपाताद्यतिरिक्तस्थल एवैतन्नियमस्वोकारात् । वस्तुतः प्रकृतित्वं नैकमिति विशिष्यैतद्वयुत्पत्तिस्वीकारेऽत्र नेयं व्युत्पत्तिः किन्तु भिन्नैवेत्यपि बोध्यम् । अथ-उक्तयाऽनया दिशा नान्वयो दृष्टचर इति चेत् ? तात्पर्यसत्त्वे किमदर्शनमात्रेण ! अन्यथा नामढस्येतरोत्पत्तेरित्यत्राप्येतत्पर्यनुयोगापातात् । ननु द्वयं न विरुद्धमित्यत्र सिद्धसाधनं, रूपरसादिद्वय(या)विरोधे परस्याप्यविवादात् । द्वयसामान्ये विरुद्धभेदः पुनरसंभवो गोत्वाश्वत्वयोरिव तदभावादिति
चेत् ? न, अत्र द्वयपदस्य नित्यानित्यत्वादियुग्मतात्पर्यकत्वात् । . नन्वसत्प्रमाणप्रसिद्धित इत्यत्रासच्च तत्प्रमाणं चेति न समासोऽयोग्यत्वात् , 'प्रमाणप्रसिद्वेरसदिति समासे तु असत्पदस्यपूर्वोपादानानुपपत्तिरिति चेत् ? अत्र केचित्-सतोऽभावोऽसदिति तत्पुरुषादसत्त्वमित्यर्थः, तत्र च पंचम्यर्थान्वय; सत्त्वे च प्रमाणप्रसिद्धरन्वयो व्युत्पत्तिवैचित्र्यात् । विभक्त्यंतरावरुद्धप्रातिपदिकार्थे विभक्त्यंतरार्थान्वयः कथमिति चेत् ! तुल्यमिदमन्यत्र । अपरे तु 'म' इति प्रतिषेधार्थको निपातः । 'अ-मा-नो-ना प्रतिषेधे' इत्यनुशासनात् । तथा च सत्प्रमाणप्रसिद्धरभावादित्यर्थः । परे तु सत्पदं भावपरं, विरोधस्येति शेषाच विरोधस्याऽसत्त्वे प्रमाणप्रसिद्धरित्यर्थः । तथाहि नित्यानित्यत्वे न विरुद्ध, भिन्नावच्छेदेनैकत्र विशेषदर्शिना प्रती यमानत्वात्संयोगतदभाववत् । विरोधग्राहकमनुमानादिकं त्वप्रयोजकत्वाद् दुर्बलमिति भावः ।