________________
स्याद्वादरहस्ये
[सर्वज्ञसिद्धौ प्रमाणम् ] ननु सर्वमिदं सर्वज्ञसिद्धावेव शोभते, तत्रैव च किं मानं ! इति चेत् ? श्रुणु । तुल्यायामप्यभ्ययनादिसामग्यां समानाभ्यासशालिनोयोरपि बुद्धौ तारतम्यदर्शनात् विचित्रज्ञानं प्रति विचित्रज्ञानावरणकर्मक्षयोपशमस्य प्रतिबंधकामावविधया कारणता कल्प्यते । न चाऽदृष्टविशेषस्यैव तथात्वमस्तु किमनेनेति वाच्यं, सति प्रतिबंधकेऽदृष्टसहस्रस्याऽकिंचित्करत्वात् , अदृष्टवैजात्यस्यानन्यसिद्धत्वादेश्च कल्पने गौरवात् , पुण्यपापरूपे तत्र सांकर्येण वैजात्यसिद्धेश्च । एवं च ज्ञानावरणस्य क्षयोपि क्षयोपशमेन लिङ्गेन क्वचिदनुमेयः । न चाऽप्रयोजकत्वं, मूलाच्छेदे कार्योच्छेदावश्यम्भावात् । क्षयश्चात्र स्वसमानाधिकरणतज्जातीयपर्यायप्रागभावासमानकालीनस्तत्पर्यायध्वंसो, न तु सर्वथाऽभावः, तस्य क्वचिदपि स्याद्वादिभिरनभ्युपगमात् । तथा च यत्र सर्वज्ञानावरणविलयः स एव भगवान् सर्वज्ञः सिध्यति ।।
ननु ज्ञानस्य कथं सर्वविषयत्वं अतीतानागतयोः स्वरूपाभावेनोभयस्वरूपविषयताऽभावादिति चेत् ? न, आलेल्याऽऽकाराणमिवाऽवर्तमानस्यापि वस्तुनो ज्ञेयाकाराणां ज्ञाने संभवात् । अथाऽऽलेख्ये न पुरुषाकारः, करचरणादिरूपस्य तस्य पुरुषे एव भावात्, तत्र 'पुरुष' इति धोस्तु सादृश्यज्ञानदोषादिनिबन्धनाद्रमरूपैव । तथा च ज्ञानेऽपि न ज्ञेयाकार इति चेत् ? न, न हि वयं ज्ञेय तदात्मानमाकारं ज्ञाने ब्रूमो येन साकारवादपक्षनिक्षिप्तं दुषणं दुरुद्धरं स्यात्, किन्तु ज्ञानतदात्मानं, आलेख्येऽप स्वतदात्मैव पुरुषाद्याकारो भासते न तु पुरुषादितदात्मा । मत एवेदमालेल्यं पुरुषाकारवन्न तु करचरणादिमदितिप्रतीतिनिर्वहतीति दिगम्बराः । वस्तुतो ज्ञानस्य सर्वविषयत्वं स्वभाव एव प्रदीपादेरिव सर्वप्रकाशकत्वं, तस्य च ज्ञेयाकारशब्दावाध्यत्वेऽपि न क्षतिरिति वदन्ति [श्लो० ५ संपूर्णः] ॥
ॐ नमः परमानन्दकलाकलितकेलये ।
श्रीशंखेश्वरपार्थाय मत्प्रत्यूहनिवारिणे ॥१॥ पूर्वसूनितावष्टम्भाय दृष्टांतमाहु-'गुडो ही ति
गुडो हि कफहेतुः स्यात् , नागरं पित्तकारणम् ।
द्वयात्मनि न दोषोऽस्ति, गुडनागरभेषजे ॥६॥ निगदसिद्धोऽयं श्लोकः [श्लो० ६ संपूर्णः ] ॥
अथ नित्यानित्यत्व-भेदाभेद-सत्त्वासत्त्व-सामान्यविशेषात्मकत्वा-भिलाप्यानभिलाप्यस्वाविधर्माणां स्वयं विरोधशंकामुदिर्षवोऽभिदधति 'द्वयमि'ति
द्वयं विरुद्ध नैकत्राऽसत् प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ॥७॥