________________
श्लो०५]
ईश्वर कर्तृत्वनिरसनम्
चाक्षरस्य प्रशासने गार्गी द्यावापृथिवी विधृते विष्ठत' इति चेत् न, तत्प्रतिबन्धकतावच्छेदकीभूतधारणानुकूलत्वस्य तत्कृताविव तज्ज्ञानादावपि संभवेन विनिगमनाविरहात् । तादृशकृतेर्घटादावपि सत्त्वेन घटादिपतनस्याप्यनापत्तेश्च । घटादिभेदविशिष्टविशेष्यतासंबन्धेन प्रतिबन्धकतयाऽनतिप्रसंगे तु लाघवाद्वटादिभेदस्यैव तत्वोचित्यात् वस्तुतः स्वभावाश्रयणस्यैव योग्यत्वात् च ।
३७
एतेन -' द्यावापृथिव्योर्धृतिः कस्यचित् प्रयत्नजन्या धृतित्वादस्मदादिजन्यघटादिधृतिवत् ' इत्यनुमानादोश्वरसिद्धिरित्यपि निरस्तम्, पतनप्रतिबंधक विलक्षण संयोगाख्यधृतेर्घावापृथिव्योरिवेश्वरप्रयत्नवशाद घटादावप्युत्पत्त्यापत्तेः । अदृष्टविशेषवशात्तत्रैव धृतिर्नान्यत्रेति चेत् ? तदृष्टविशेष एव तत्प्रतिबन्धकत्वेनाऽऽद्रियतां किमतिरिक्त कृतिकल्पनया, किंवा धृतेः पतनप्रतिबंधकत्वकल्पनया ? अथ धृतेः पतनप्रतिबन्धकत्वमन्यत्रक्लृप्तं नादृष्टस्य, धृतित्वावच्छिन्नं प्रति च कृतित्वेन हेतुत्वमवधृतमिति जगत्पतनप्रतिबन्धकधृतिजनकैककृतिसिद्धिरिति चेत् न, एवं सति शरीरस्यापि धृतित्वावच्छिन्नं प्रति हेतुतावधारणात्तादृशशरीरस्यापि सिध्यापत्तेः । अथ - अस्तु परमाणुनामेवेश्वरप्रयत्नाधोनचेष्टावतां सर्वेषामेव वेश्वरशरीरत्वमिति चेत् ? न, अनेकेषु तेषु शरीरत्वकल्पनया महागौरवात्, क्लृप्तपरमाण्वादिषु एव शरीरत्वकल्पनयोपपत्तावतिरिक्तशरीरकल्पने जीवात्मस्वेव नित्यकृत्यादि कल्पनया निर्वाहेऽतिरिक्तेश्वरा सिद्धेर्वज्रलेपायमानत्वाच्च ।
'सर्गादौ व्यवहारप्रयोजकतयेश्वरसिद्धिः, प्रतिसर्गमनंतानां मन्वादीनां कल्पने गौरवादित्यपि मन्दम्, सर्गादेरेवासिद्धेः । ' एतान्युपादानान्येतद्घटस्येति प्रत्यक्षं घटजनकमन्वेषणीयं तच्चेश्वरं विना नेतोश्वरसिद्धिरप्रत्यूहे 'ति पुनरतिमन्दं, एवं सत्यनीदृशस्य कुम्भकारोपादानप्रत्यक्षस्य घटहेतुतानापत्तेः । किञ्चेश्वरस्य सर्वज्ञत्वेऽपि मानाभावः, उपादानप्रत्यक्षस्य कार्यमात्रं प्रति हेतुतया तज्ज्ञाने द्रव्यविषयकत्वमात्रस्यैव सिद्धेः । न च 'यः सर्वज्ञः स सर्वविदित्यादिश्रुतिरेव तस्य सर्वज्ञत्वे मानं, युक्तिविरहे श्रुतिसहस्रस्याऽकिंचित्करत्वात् । न च इन्द्रियादिजन्यताभावेन तज्ज्ञा नियतविषयताभावे सिद्धे तस्य सर्वज्ञत्वं सेत्स्यतीति वाच्यं इन्द्रियादिजन्यताभावेऽपि लाघवादिना तत्र नियतविषयताया एव सिद्धेः । यादृच्छिकनियमकल्पनाया अप्रयोजकत्वात् । तज्ज्ञानस्य गुणाद्यविषयकत्वे लाघवं द्रव्यत्वेन जन्यसत्त्वेन पृथक्कारणताsकल्पनात् । 'गुणादावुपादानप्रत्यक्षविरहेणैव जन्यसदनुत्पत्ते'रित्यप्येके । तच्चिन्त्यं, तथापि कुलालाद्युपादानप्रत्यक्षस्य गुणादौ सत्त्वेन द्रव्यत्वेन जन्यसत्त्वेन कार्यकारणभावस्यावश्यकत्वात् । द्रव्यनिष्ठ लौकिक विषयताया प्रत्यक्षत्वेन हेतुतयैवानतिप्रसंगे तु तज्ज्ञानस्य गुणादिविषयकतायामप्य (तः) लाघवाप्रच्यवात् । अधिकमन्यत्र बोध्यम् ।
'यथे'त्यस्योत्तरवाक्योपात्तत्वेन तथेत्यस्य शा ( शब्दस्य नापेक्षा, “ साधुचन्द्रमसि पुष्करैः कृतं मिलितं यदभिरामताधिके" इत्यादौ तथादर्शनात् ।