________________
स्याद्वादरहस्ये
भावादित्यपरे । संयोगत्वावच्छेदेन द्रव्यस्य हेतुताग्रहादजसंयोग इव ज्ञानत्वाद्यवच्छेदेनात्मादिहेतुताग्रहान्नित्यज्ञानादिकमपि न सिध्यतीत्यपि कश्चित् ।
३६
वस्तुतः कृतेरपि चेष्टादिद्वारा विलक्षणसंयोगं प्रत्येव हेतुता न तु घटमात्र प्रत्यपि, मानाभावात् । न चैवं कुंभकारादेः स्वकृतिसाध्यताज्ञानं विना घटादी प्रवृत्तिः कथमिति वाच्यं, स्वकृतिप्रयोज्यताज्ञानस्यैव तत्र प्रवर्त्तकत्वात् । 'स्वप्रयोज्यविजातीय संयोगसंबंधेन घटादौ कुम्भकारादिकृतेर्हेतुत्वेऽपि बाधकाभावादिति चेत् ? न, दंडावयस्याप्येवं घटं प्रति हेतुतापत्तेः । तत्रावश्यक्लृप्तेव्याद्यन्यथासिद्धेर्न हेतुत्वमिति यदि, तदात्रापि तुल्यम् । अथैवं दंडस्यापि घटं प्रति हेतुता न स्यात्, खंडघटादौ व्यभिचारादिति चेत् ? न तज्जन्यतावच्छेदकस्य घटत्वस्य स्वर्णघटादेखि खंडघटादेरपि व्यावृत्तत्वात् । कपाल जन्यतावच्छेदकस्यैव दंड जन्यतावच्छेदकत्व - मुचितमिति चेत् ? बाधकसच्चे किमौचित्यचिन्तासंतापेन ?
वस्तुतो दंडादेः प्रयोजकत्वेऽपि न क्षतिरनात्यंतिकत्वात् । घटादौ निश्चयतः स्वद्रव्यस्यैव हेतुत्वात् । अत एव द्विकपालघटादेरपि कपालान्तरसंयोगेन त्रिकपालघटोत्पत्तिः, न हि तत्र तदान कुम्भकारादयो व्याप्रियमाणा दृश्यंते । अथ नेदं युक्तं, घटं प्रति घटजनकविजातीयसंयोगं प्रति च कपालत्वेनैव हेतुत्वादिति चेत् ? न, कथंचित्कपालत्वस्यापि तत्र स्वीकारात् । अत एव 'कपालमयो घट' इति प्रतीतिः । न हीयमयस्पिडस्तेजोमय इतिवदुपपत्स्यते, साक्षात्संबन्धे बाघकाभावात् । चरमतन्तुप्रवेशपर्यन्तमेव पटानुत्पत्तौ पूर्वपूर्वक्रियाया वैयर्थ्यप्रसंगेनारभ्यारंभवादस्यैव युक्तत्वात् । ‘एवं सति 'पटे पट' इति प्रतीतिः स्यादिति चेत् ? तर्हि पटत्वावच्छिन्नाधेयतानिरूपकतावच्छेदकत्वं तंतुत्व एवं कल्पयतस्तव का हानि: : अत्र चार्थे 'कयमाणे कडे' इति सिद्धांतसारोऽपि प्रमाणमिति ध्येयम् । एतेन - खंडघटादावेव कुम्भकारादिकृतेरभावात् खंडघटाद्युत्पादकत्वेनैवेश्वरसिद्धिरिति—दीधितीकृन्मतमपास्तम् । एवं सति घटत्वावच्छिन्नं प्रति कुम्भकारत्वादिनापि हेतुत्वविलयापत्तेः । विजातीय कृतिमत्त्वेन तथात्वे पुनरीश्वरासिद्धेः । अथ कृतिमत्त्वेनैव घटत्वाद्यवच्छिन्नं प्रति हेतुत्वं, स्वकृतिविशेष्यत्वं च कारणतावच्छेदक संबंध:, तत्र दंडादेरपि स्वप्रयोज्यविजातीयसंयोगसंबधेन हेतुत्वाच्च नातिप्रसंग इति चेत् ? न, आत्मत्वादिनापि तथात्वे स्वप्रत्यक्षविशेष्यत्वादेश्व संबंधत्वे विनिगमनाविरहात् । विजातीयकृतिमत्त्वेनैव व्यापकधर्मेण कार्यमात्रे सकर्तृकत्वनियमस्या प्रामाणिकत्वेन लाघवात्कृतित्वेनैव वा हेतुत्वौचित्याच्च । जन्यसत्त्वावच्छिन्नं प्रति कृतित्वेन हेतुत्वेप्यभावकर्तृत्वासिद्धेश्वरे जगत्कर्तृत्वं नियुक्तिकम् । कार्यत्वं तुन कार्यतावच्छेदकं, कार्यतावच्छेदक संबंधस्यैकस्याऽसत्त्वात्, कालिकादिसंबन्धेन तथात्वे तु मानाभाव इत्यप्याहुः । अथ-यावापृथिव्योर्गुरुत्वादिपतनसामग्रयां सत्यामपि यदीयधारणानुकूल प्रयत्नेन पतनप्रतिबन्धः स एव भगवान् भवानीपतिः सिध्यति, तथा च श्रुतिरपि 'एतस्य