________________
ईरश्वरकर्तृत्वनिरसनम्
"
प्रतियोगितावच्छेदकस्वावच्छिन्नाधिकरणताकत्वं, "यावत्कालवृत्तिभिन्नत्वं वा न तदवच्छिन्नजनकतावच्छेदकं कर्तृत्वमेकं घटादौ कुम्भकारादीनां ताद्रूप्येण हेतुतावश्यकत्वे सामान्यतः कर्तृत्वेन तथात्वे मानाभावात् । * 'यद्विशेषयोरि' त्यादिन्यायस्याप्रामाणिकत्वात् । अथ समवायेन जन्यसत्त्वावच्छिन्नं प्रति विशेष्यतयोपादानप्रत्यक्षस्य हेतुत्वादस्तु द्वयणुकादिजनकप्रत्यक्षाश्रयतयेश्वरसिद्धिरिति चेत् १ नान्यस्योपादानप्रत्यक्ष सत्यप्यन्यस्य कार्यानुत्पत्ते चैत्रीयोपादाप्रत्यक्षत्वादिना हेतुत्वे द्वयणुकादावुपादानप्रत्यक्षस्याहेतुत्वात् ।
लो० ५]
३५
अस्तु वा लाघवादुपादानप्रत्यक्षस्य स्वजन्यकृतिविशेष्यत्व संबंधेनैव हेतुत्वम् । न च चैत्रकृतेरप्यंततः कालोपाधितयापि मैत्रोपादानप्रत्यक्षजन्यतयाऽतिप्रसंगः, सामानाधिकरण्यप्रत्यासत्त्या जन्यताया विवक्षणात् । तथा चेश्वरप्रत्यक्षस्यानेन संबंधेन न हेतुत्वमिति नोक्तयुक्त्येश्वरसिद्धिः । अपि चोपादानप्रत्यक्षत्वेन न हेतुत्वं, तदनुमित्यादिनापि योगिनां मनोवहनाड्यादौ प्रवृत्तिश्रवणात् । तथा 'चेश्वरप्रत्यक्षमप्यसिद्धमेव बोध्यम् । न च तस्यानुमित्यादिरूपत्वे परामर्शादिजन्यतावच्छेदककौटौ जन्यत्वनिवेशे गौरवांमति तद्भेदे सिद्धे पारिशेष्यात्प्रत्यक्षत्वसिद्धिः, एवमपींद्रियादिजन्यतावच्छेदककोटौ जन्यत्वप्रवेशे गौरवस्य तुल्यत्वात् ।
fie सकलकार्यजनक नित्यैकप्रत्यक्ष सिद्धावपि नेश्वरसिद्धि:, गुणस्य साश्रयकत्वव्याप्तौ मानाभावात्, भावे वा जीवात्मन एव तदाश्रया भवन्तु किं शिल्पिविशिष्टकल्पनाकष्टेन ! अथ जीवात्मनां तदाश्रयत्वे शुक्त्यादौ रजतादिभ्रमः कदापि न स्यात्, तत्र रजताभाववत्ताधियः सदा सत्त्वादिति चेत् ? न प्रतिबन्धकतावच्छेककोटाववश्य निवेशनीयस्य चैत्रीयत्वादेरेव तत्राभावादवच्छेदकतया चैत्रादिविशिष्टत्वं हि तत् न च तन्नित्यज्ञाने संभवतीति । न च जीवात्मवृत्तित्वेऽनेकात्मसंबंधकल्पना गौरवादेकेश्वर संबंध कल्पनैव लघीयसीति वाच्यं, त्वया तत्र जीवात्मनां स्वसंयुक्तसंयुक्तसमवायसंबन्धः कल्पनीयो, मया तु समवायमात्रमिति प्रत्युत लाघवात् । अथैवमेतस्य 'नित्यमेकमनेकसमवेतं सामान्यमिति सामान्यलक्षणप्राप्तौ गुणत्वन्याघात इति चेत् ? किमिदं लक्षणं तव वेदो- येन तदुच्छेदे खेदः ? यत्तु - ' चैत्रस्य मैत्रस्य वा तदाश्रयत्वमित्यादिविनिगमनाविरहादेकस्येश्वरस्यैव तदाश्रयत्वं युक्तमिति' - तन्न, सकलजीवात्मवृत्तित्वेऽपि बाधकाभावात् । अथैवमस्मदादीनां तत्प्रत्यक्षं कुतो न भवतीति चेत् ? लौकिकविषयताभावात् । 'निर्विकल्पवत् द्वित्वजनकतावच्छेदिका लौकिकविषयिता तत्र बाढमस्त्येवे' ति चेत् ? किं तावता ? .. इन्द्रियसंनिकर्षादिजन्यतावच्छेदिकाया एव तस्याः प्रत्यक्षतायां तन्त्रत्वादित्येके । ' ताद्रव्येण तद्विषयस्याऽहेतुत्वान्न तत्प्रत्यक्षमित्यन्ये । विषयतया प्रत्यक्षमात्रकारणभूतगुरुत्वाद्यन्यतमभेदा
* 'यद्विशेषयोः कार्यकारणभाव: स तत्सामान्ययोरपि' इति न्यायस्य ।