________________
स्याद्वादरहस्ये
वीत्वेन न तत्समवायिकारणत्वं, स्वसमवायिसमवेतत्वसंबंधेनावयवनीलादिमति रूपादौ नीलानुत्पत्तिस्तु जन्यसन्मात्रसमवायिकारणतावच्छेदकीभूतद्रव्यत्वाभावादेवेति तवैकदेशिनापि स्वीकाराच्च ।
- एवं च 'नात्रालोकः किंत्वंधकार' इति व्यवहारोपि समर्थितः । नह्ययं 'नात्र घटः किंतु तदभावः' इतिवत्समर्थयितुं शक्यते, 'नात्रालोकः किंत्वंधकारतदभावावि'तिव्यवहारान्तरस्यापि दर्शनात् । यत्त्वंधकारस्यालोकाभावत्वेऽन्धकारे नाऽऽलोक इति प्रयोगो न स्यादिति केनचिदुक्तं-तत्तु मोघम् , घटाभावे घटो नास्तीतिवत्तदुपपत्तेः । एवं सत्यंधकारेऽन्धकार इति प्रयोगापत्तिस्तु स्यादेव । नयधंकारत्वमालोकाभावत्वादिदानीमतिरिक्तमायुष्मतः संगिरन्ते । अथैतादृशसमभिव्याहारस्य शाब्दबोधाऽजनकत्वान्नेयमापत्तिर्जायमानप्रतीतेः प्रमात्वं त्वभिमतमेवेति चेत् ! तथा प्यधकारे नान्धकार' इति प्रतीतेभ्रंमत्वं स्यात् । अभावचाक्षुषमात्रं प्रत्यालोकाधिकरणसन्निकर्षस्य हेतुत्वादालोकं विना वीक्ष्यमाणस्य तमसो नाऽभावत्वमिति बचनीयं तु न वचनीय, आलोकसत्त्वे प्रतियोगिसत्त्वविरोधिन्या आलोकाभावग्राहकानुपलव्धेरेवाभावात् । आलोकाधिकरणसन्निकर्षस्य प्रत्युत तद्ग्रहपरिपन्थित्वात् । -. ननु तमसो द्रव्यत्वे प्रौढालोकमध्ये सर्वतो घनतरावरणे सति तमो न स्यात्तेजोऽवयवेन तत्र तमोवयवानां प्रागनवस्थानात्, सर्वतस्तेजःसंकुले चान्यतोप्यागमनसंभवादिति चेत् ! मैवं वादीः, घनतरावरणसाचिव्येन तेजःपुद्गलानामेव तत्र तमस्त्वेन परिणमनात् । नहि नियतारम्भवादिनो वयं येन तेजोवयवैस्तिमिरार भो न शक्यते वक्तुम् । 'नीलरूपं तमः' इति कंदलीकारवचनं तु नादरणीय, निराश्रयस्य रूपस्याऽसंभवात् । तादृशनियताश्रयस्य चानुपलभ्यमानत्वात् । तस्मात्तमसो द्रव्यत्वमेव सकलप्रमाणसिद्धं न्याय्यमित्यधिकमनया दिशा स्वधियाऽभ्यूहनीयम् ।
[तमोद्रव्यत्ववादः समाप्तः] ॥ . 'यथात्थ भगवन्नि'त्युक्त्या च भगवद्वचनेऽप्रामाण्यशंकाकलङ्कलेशाऽसंपर्कसूचना स्वस्याऽसाधारणी भक्तिराविश्चक्रे तत्रभवद्भिः । रागद्वेषाद्यविद्याबन्धकीसंपर्ककलकितानां परेषां वचसि प्रामाण्याभ्युपगमो हि महामोहविजूंभितम् । रागद्वेषाभावं विनाऽवितथवचनस्य कार्यस्याऽसंभवात् ।
[भवानीपतो मानाभावप्रदर्शनमा ननु वेदक रेव पुरुषधौरेयस्य वचः प्रमाणं, तस्यैव सर्वज्ञत्वात् । मैव-तत्प्रणेतरि भवदभिमते भवानीपतावेव मानाऽभावात् । न च "कार्य सकर्तृक कार्यत्वादि" त्यनुमानमेव तत्र मानं, शरीरजन्यत्वरूपसंदिग्धोपाधिग्रस्तत्वाद् । अथ नायमत्र दोषः, कार्यत्वावच्छिन्न प्रति कर्तृत्वेन कारणत्वनिश्चयाल्लाघवर्कावतारदशायां तत्प्रयुक्तव्यभिचारसंशयाऽप्रतिबन्धकत्वादिति चेत् । कार्यत्वं हि प्रेध्वंसप्रतियोगित्वं, प्रागभावप्रतियोगित्वं, अनवच्छिन्नविशेषणतासंसर्गेण कालवृत्त्यत्यंताभावप्रतियोगित्वं, स्वानधिकरणीभूतकालवृत्त्यत्यन्ताभावप्रतियोगित्वं, कालवृत्त्यन्योन्याभाव