________________
३३
श्लो० ५]
तमोद्रव्यत्ववादः
एतेन - 'द्रव्यत्वं कार्याऽकार्यवृत्ति न कार्यतावच्छेदकं जन्यद्रव्यत्वस्य जन्यमात्रवृत्तित्वेऽपि तदवच्छिन्नजनकतावच्छेदकजातेरनंगोकारो जलत्वादिना सांकर्यादिति वर्धमानोक्तिः - अपास्ता । मूर्त्तत्वेनैव द्रव्यारंभकत्वम्, न च मनसोपि मूर्त्तत्वात्तदा रंभकत्वापत्तिर्मनोन्यमूर्त्तत्वेनैव तथात्वादित्येके । मूर्त्तत्वेनैव तथात्वं, मनसि द्रव्यानुत्पत्तिस्तु विजातीयसंयोग रूप हेत्वंतराभावादित्यपरे । यत्तु -'द्रव्यारं भकतावच्छेदकतया पृथिव्यादिचतुर्खेव भूतत्वाख्यो जातिविशेषः कल्प्यते स एव च भूतपदशक्यतावच्छेदकः, आकाशे भृतत्वव्यवहारस्तु भाक्त इति तमोवयवानां न द्रव्यारंभकत्वमिति मतं'- तदपमतम्, तनःसाधारणस्यापि तस्य कल्पयितुं शक्यत्वात् । मनसोSनतिरिक्तत्वनये भृत-मूर्त्तपदयोः पर्यायत्वापत्तेश्च । आकाशे वेदादिप्रयुक्तभूतपदस्य मुख्यस्वाय वहिरिन्द्रियग्राह्यविशेषगुणजातोयगुणवत्त्वस्य गुरोरपिभूतपदशक्यतावच्छेदकत्वादन्यथा पशुपदादेरपि गोत्वादिविशिष्ट एव शक्त्यापत्तेः ।
स्वतन्त्रास्तु — एकत्वनिष्ट एव द्रव्यारंभकतावच्छेदकजातिविशेषः कल्प्यते स चान्त्यावयव्येकत्वव्यतिरिक्त एवेति न तत्तदंत्यावयवित्वेनानं तप्रतिबध्यप्रतिबंधकभावकल्पनागौरव मित्याहुः, तन्न, तादृशजातेर्जन्यैकत्वत्वेन समं सांकर्यादित्यपरे । यदि तु - ' जन्यैकत्वत्वं तादृशजातिव्याप्यं भिन्नमेवाभ्युपेयते, न च तादृशजातेरेव नानात्वेन तद्वयाप्यत्वे विनिगमकाभावो, यततज्जार्नानात्वे व्यभिचारभिया तदवच्छिन्नजन्यतावच्छेदिकापि नाना जातिः कल्प्या, सापि च जलत्वादिना संकीर्यमाणा जलत्वादिव्याप्या नाना स्वीकार्येति बहुतरजातिकल्पनागौरवम्, एकत्वनिष्टजातेस्तद्वयाप्यत्वे त्वेकत्वजन्यतावच्छेदक जातिद्वयमेव स्वीक्रियते इति लाघवम् इति - ' विभाव्यते तदा स्वतंन्त्रमतमपि सम्यगिति तु नव्याः । एतन्मते विजातीयसंयोगस्यापि जन्यद्रव्यं प्रति पृथक्कारणताऽकल्पनाल्लाघवम् । जन्यभावमात्रस्य समवायिकारणकत्व नियमस्त्वसिद्धः, सिद्धौ वा तत्र द्रव्यत्वेनैव तथात्वमस्विति न तदनुरोधेन द्रव्यनिष्टजातिविशेषकल्पनमिति विभाव्यम् ।
[तमसः पृथिवीत्वापत्तिनिरासः ]
इत्थं च तमसो भावत्वेऽनुमानमप्याहुः - 'तमो भावरूपं, निकरलहरी प्रमुखशब्दैर्व्यपदिश्यमानत्वादालोकवदि त्यादि । ननु-तमसो नीलरूपवत्त्वे पृथिवीत्वमेव स्यान्नातिरेक इति चेत् ? न, रूपपरावृत्तिप्रयोजक पृथिवीत्वाभावस्य तेजसीव तमस्यपि तवापि दुरपह्नवत्वात् । नन्वेवं नीलसमवायिकारणतावच्छेदकपृथिवीत्वाभाववति तमसि नीलमाकस्किं स्यादिति चेत् ? न, उभयसाधारणजातिविशेषस्यैव नीलसमवायिकारणतावच्छेदकत्वात् । विजातीयानुष्णाशीतस्पर्शस्येव विजातीयनीलस्यैव पृथिवीत्वं जनकतावच्छेदकमिव्यप्याहुः । अवयवनीलादिनैवा वयविनीलोपपत्तौ पृथि
५