Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 106
________________ ग्लो०७] अभिलाप्यत्वस्वरूपम् किं तावता, तथापि घटत्वादेः पटपदबोध्यतावच्छेदकत्वस्य निरपायत्वात् । नापि गृहीततत्तदर्थनिरूपितसंकेतकपदबोध्यतावच्छेदकरूपवत्त्वं तत् , पटपदस्यापि घटे संकेतग्रहसंभवात्तदोषानतिवृत्तेः । नापि गृहीततत्तदर्थनिरूपितनियन्त्रितसंकेतकपदबोध्यतावच्छेदकरूपवत्त्वं, घटे हि घटपदस्यैव कोशादिना संकेतो नियम्यते न तु पटपदस्येति न प्रागुक्त दोष इति-वाच्यं, श्रुताऽनिबद्धेषु प्रज्ञापनीयेषु तादृशपदसंकेतग्रहाऽसंभवात् । न च तेषामेवासिद्धिः, “पन्नवणिज्जाणं पुण अणंतभागो सुअनिबद्धो"त्ति [बृहत्कल्पवृत्तिवचनप्रामाण्यात् । __ अत्र वदन्ति-तत्तदर्थस्वरूपपरिणामपरिणतपदबोध्यतावच्छेदकरूपवत्त्वं तत् , श्रुतज्ञानेन तन्नित्रितमतिज्ञानेन वा तत्तद्रूपेण तत्तदर्थान् प्रतिपादयत्पदं हि तत्तदर्थपरिणामभाग् भवति अन्यथा प्रवृत्त्यादिप्रतिनियमानुपपत्तेः । एतेन 'विकल्पयोनयः शब्दा, विकल्पा शब्दयोनयः । कार्यकारणता तेषां, नार्थ शब्दाः स्पृशन्त्यपि' ॥१॥ इति निरस्तं, कथंचित्तादात्म्येनैव शब्देनार्थप्रतिपादनात् । तदुकं परमर्षिभि-'खुरअग्गिमोअगुच्चारणमि, जम्हा उ वयणसवणाणं । णवि छेओ णवि दाहो ण प्रणं तेण भिण्णं तु ॥१॥ जमा य मोअगुच्चारणंमि तत्येव पच्चमओ होइ । ण य होइ सअण्णत्थो । तेण अभिण्णं तदत्थाओ ॥२॥ त्ति । न चैवमेकस्मादपि पदात् सर्वत्र प्रवृत्तिः स्यात्सर्ववाचकस्य सर्वतादात्म्यादिति वाच्यं, यत्रैव हि यत्पदस्य संकेतो गृह्यते तत्रैव तत्तादात्म्यपरिणतिरिति नियमात् । न च तत्तत्संकेतग्रहस्य तत्तदर्थबोधं प्रत्येव हेतुताऽस्तु कि तत्तादात्म्यपरिणतिहेतुताकल्पनेनेति वाच्यं, शब्दाऽननुविद्धस्यार्थस्याभानादित्यन्यत्र विस्तरः । ___इत्थं चानभिलाप्यानामनभिलाप्यत्वेनाऽनभिलाप्यपदप्रतिपाद्यत्वेऽपि नाभिलाप्यत्वं, प्रातिस्विकरूपेण पदाऽप्रातिपाद्यत्वात् । तत्तदर्थपरिणततत्तत्पदप्रयोक्तैव च पुरुषस्त्तत्तदर्थप्रतिपादकत्वेन व्यवहियते । अत एव न भगवतां तत्तत्पदप्रयोक्तृणामपि श्रुतज्ञानाऽविषयीभृतार्थप्रतिपादकत्वम् । इदमेवाभिप्रेत्याभ्यधायी " केवलविन्नेयत्थे सुअणाणेणं जिणो पयासेइ । सुमनाणकेवली वि हु तेणेवत्थे पयासेइ" त्ति ॥ श्रुतज्ञानेन-वाग्योगेनेत्यर्थः, अन्यथा भगवतः श्रुतज्ञानाऽसंभवाद्यथाश्रुतार्थानुपपत्तेः, तत्र क्षायिकश्रुतज्ञानादिसत्त्वपक्षस्यानभ्युपगमादन्यथोपयोगद्वयमात्राभिधानविरोधात् । तथा च भगवान् सर्वमर्थ संविदानोऽपि वाग्योगस्वाभाव्यात् श्रुतज्ञानविषयीभूतमेवार्थ प्रतिपादयति नान्यदिति प्रतिपत्तव्यम् । दिगम्बरास्तु-परकीयघटादिज्ञानस्य स्वेष्टसाधनताज्ञानात्तत्र प्रयोक्तुरिच्छा, तत इष्टघटादिज्ञानसाधनतया घटादिपदे तत्साघनतया च कंठताल्वाद्यभिघातादाविच्छा, ततः प्रवृत्यादि १. प्रज्ञापनीयानां पुनरनंतभागः श्रुतनिबद्धः । २. क्षुरानिमोदकोच्चारणे यस्मात्त वदनश्रवणानां । नापि छेदो नापि दाहो न पूरणं तेन भिन्नं तु ॥१॥ यस्माच्च मोदकोच्चारणे तत्रैव प्रत्ययो भवति । न च भवति स अन्यार्थः तेन अमिन्नं तदर्थात् ॥२॥ . ३. केवलविज्ञेयार्थान् श्रतज्ञानेन जिनः प्रकाशयति । श्रुतज्ञानकेवली अपि खलु तेनैवार्थान् प्रकाशयति ।।

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182