Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
५२
स्यावादास्ये केचित्तु-समवायस्येवावच्छेदकताया अपि कारणनियम्यत्वादवच्छेदकतया नीलादीक प्रति समवायेन नीलादेः कारणत्वम् । नन्वेवमपि घटादावप्यवच्छेदकतया नीलाद्युत्पत्तिः स्यादिति चेत् ! अत्र केचित् अवच्छेदकतया नीलादीकं प्रति समवायेनाऽवयवनीलत्वादिना द्रव्यविशिष्टनीलत्वादिनैव वा हेतुत्वमित्याहुः । न च नीलविशिष्टद्रव्यत्वादिनापि तथात्वे विनिगमनाविरहो, नीलविशिष्टद्रव्यस्य पीतकपालेऽपि सत्त्वात् तत्राप्यवच्छेदकतया नीलापत्तेः, विशिष्टाधिकरणतायास्तत्राभावात् । अन्ये त्ववच्छेदकतया जन्यरूपत्वावच्छिन्नं प्रत्येव समवायेन द्रव्यस्य हेतुत्वमित्यूचुः । तदपि न, द्रव्यत्वेन वा हेतुत्वं मूतत्वादिना वेति तथापि विनिगमनाविरहात् । अपरे तु केवलनीलादिकपालेऽवच्छेदकतया तद्वारणाय स्वाश्रयवृत्तिद्रव्यसमवायसंबन्धेनाऽवश्यकल्प्यहेतुताकस्य नोलाद्यभावस्यैव तादृशघटादावभावात् नावच्छेदकतया नीलाद्युत्पत्तिः । वस्तुतस्त्ववच्छेदकतया जन्यरूपत्वावच्छिन्नं प्रति द्रव्यविशिष्टसमवायेनैव रूपस्य हेतुत्वात् न. घटादाववच्छेदकतया नीलाद्यापत्तिः ।
केचित्तु-केवलनोलकपालादिष्ववच्छेदकतया नीलादिवारणायावयवान्तरवृत्तिनीलेतररूपादेः स्वसमवायिसमवेतद्रव्यसमवाय संबंधेन हेतुत्वमभ्युपगच्छन्ति । तन्नेत्यन्ये, कपालान्तरावच्छेदेन पाकाद्रक्तरूपोत्पत्तिकाले कपालांतरविद्यामानानीलादव्याप्यवृत्तिनीलाऽनापत्तेः । रक्तोत्पत्त्यनंतरमेव तत्राप्यव्याप्यवृत्तिनीलोत्पत्तिरित्यपरे । नन्वेवमपि नानारूपवत्कपालाद्यारब्धे घटे तत्कपालावच्छेदेन नोलाद्यापत्तिरिति चेत्? नील कपालिकावच्छिन्नतदवच्छेदेनेष्टत्वमेव तस्याः। यत्त्ववच्छेदकतया नीलादिकं प्रति समवायेन नीलादीनां न कारणत्वं किन्तु नीलेतरकपालादोनामेव प्रतिबंधकत्वमिति न तन्नीलाद्यवच्छेदकं किंतु नीलकपालिकैव तादृशीति,तत्तुच्छं, कपालनीलाधवच्छेदकत्वाऽयोगात्, अवच्छेद कतासंबंधावच्छिन्नप्रतियोगिताकस्य नीलेतराभावविशिष्टनीलाद्यभावस्यावच्छेदकतया नीलादौ हेतुत्वे गौरवात् , व्याप्यवृत्तिनीलवत्कपालेऽवच्छेदकतया तदापत्तेश्च । अवच्छेदकतासम्बन्धावच्छिन्नप्रतियोगिताकनीलेतराभावविशिष्टनीलाधभावस्य नोलेतरसामानाधिकरण्याऽविशिष्टविशेषणतया तथात्वेऽप्यतिप्रसंगान्महागौरवाच्च । यत्त-नीलादीनामपि नीलेतररूपादिप्रतिबंधकतायां विरह इति-तन्न, नीलत्वादिना प्रतिबध्यतायां लाघवाद नीलेतरत्वादिना प्रतिबंधकत्वे तु तदवच्छिन्नाभावस्याऽखंडस्य कारणतायां गौरवाऽप्रतिसंधा(ना)त् । प्रतिबंधकतागौरवस्य पुनरनन्तरोपस्थिति कत्वेनाऽविरोधित्वात् । अवच्छेदकतया नीलादिकं प्रति समवायेन नीलादिकं हेतुः, अवच्छिन्ननीलादिकं प्रति च स्वाश्रयसमवेतत्वसंबंधेन नीलाधभावो हेतुरित्यप्याहुः ।
सामानाधिकरण्यसंबंधावच्छिन्नप्रतियोगिताकनीलेतराधभावस्यावच्छेदकतवा नीलादिकं प्रति कारणतेति कश्चित् । तन्नेत्यन्ये, सामानाधिकरण्यस्याऽव्याप्यवृत्तिया तत्संबंधावच्छिन्नप्रतियोगिताकामावस्याऽसंभवादिति । तदसत्, 'गुणे सत्तायां न द्रव्यत्वसामानाधिकरण्यमि'तिप्रतीतेर्गुणे

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182