Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 115
________________ स्थाद्वादरहस्ये तथापि-ये नीलपीतरक्ताधारब्धघटादौ नीलपीतरक्तेभ्य एव नीलपीतोभयजरक्तपीतोभयजत्रितयजचित्राणामुत्पत्तिः, सर्वेषां सामग्रीसत्त्वादनुभवसिद्धत्वाच्च, तत्र त्रितयजचित्रं व्याप्यवृत्त्यन्यत्त्वव्याप्यवृत्ति, एकमेव वा तद्रूपमस्तु, जातेरव्याप्यवृत्तित्वोपगमेन तु किंचिंदवच्छेदेन नीलत्वपीतत्वादिकं विलक्षणचित्रत्वादिकं च व्यवह्रियते इति येऽनुमन्यन्ते तदभिप्रायेणेदम् । स्वयं हि ये एकत्र घटे व्याप्यवृत्त्येकं चित्रमव्याप्यवृत्ति चित्रांतरं चाम्युपगच्छन्ति तेषामनेकांतवादाऽनादरो न ज्यायानिति समवदातम् । ननु-तथापि भिन्नोपाधिकं विरुद्धधर्मद्वयमेकत्र समाविशतु, तथापि येनाकारेण भेदस्तेन भेद एव येन चाभेदस्तेनाभेद एवेत्येकांतोऽनेकांतवादिनामपि दुर्वार इति चेत् ? न, भेदाभेदयोरन्योन्यव्याप्तिभावेन 'तेन भेद एवे'त्यादेरर्थशून्यत्वात् । एकाकारेणाभेदस्यैवापराकारेण भेदरूपत्वात् । मेदावच्छेदकं यत्तन्नाभेदावच्छेदकामेति तु संमतमेवेति न दोषावहम्, अन्यथा तयोभिन्नोपाधिकत्वासंभवादित्यानेडितमेव । यत्त्ववच्छेदकभेदं विनैव भेदाभेदः स्याद्वादिनामभिमतो नान्यथा, परमतप्रवेशात्, तदुक्तमनुमानखंडे मणिकृता 'न चैवं भेदाभेदो अवच्छेदकभेदेन तत्सत्त्वाभ्युपगमादिति-तदज्ञानविलसितं, 'उपाधिभेदोपहितं विरुद्ध नार्थेष्वसत्त्वं, सदवाच्यते चेत्यादिना ग्रन्थकृताप्युपाधिभेदेनैव सत्त्वाऽसत्त्वादिसमावेशाभिधानात् । अत्र ह्युपाधयोऽवच्छेदका अंशप्रकारा इति व्याख्यातम् । नचैवं ऋजुमतं कथमनुमतमिति वाच्यं, परमतमनभ्युपगम्य समाधानमात्रेणैव ऋजुत्वमित्यभिप्रायात् । कार्यद्वारोभयरूपवस्त्वप्रतोतेस्तदसिद्धिरेकस्य करणाऽकरणविरोधादित्यपि मन्दं, पर्यायतया करोति न तु द्रव्यत्वेनेत्यत्रापि द्वैरूप्यावतारात् । पर्यायत्वेन कर्तृत्वमेव, द्रव्यत्वेनाऽकर्तृत्वमित्यसारं, स्वभावसांकर्यापाताद्विनिगमनाविरहाच्च । किं च स्वकार्यकर्तृत्व-परकार्याऽकर्तृत्वाभ्यामप्येकस्य करणाकरणद्वैरूप्यम्करोति न करोति वा जगति कारणं कार्यमप्य कारणहितार्थिनो भगवतः श्रुते युज्यते । करोति यदि सर्वथा ननु कपालमापालि तत्पटं जनयितुं प्रभुभवतु तंतुसौभाग्यभुः ॥१॥ न कुरुते करणं यदि सर्वथा, स्मरणमेव तदस्य न युज्यते । भजनयत्परकार्यमिह स्वयं, न जनयेदपि किंचन तद्यतः ॥२॥ [स्वभावभेदाभावेऽपि धर्मधर्मिभावः] अनास्वादितस्वभावभेदयोः कथं धर्मधभिभाव इति चेत् ? न, धर्मधर्मिणोमिथोमेदात् प्रतिनियतपाश्रितत्वेनैव केवलमभेदात् । 'धर्मधर्मिभावः काल्पनिक एव न तु वास्तव' इति चेत् ? न, कल्पनाया अपि विकल्पग्रासाद सत्ख्यातिनिरासाच्च । न हीन्द्रियवृत्त्यादिकं विनाऽसतो ज्ञानं संभवति । न च वासनयैवाऽसतो भानं, तादृशवासनायां मानाभावात् , भावे वा तस्याः शाश्वतिकत्वे सर्वदाऽखंडशशशृङ्गाथलीकभानापत्तेः । न च सद्भानसामग्र्या असद्भाने प्रतिबन्धकत्वं, १- एतच्छूलोकविवरणगतायेन 'यद्यपि' इति पदेन सहाऽस्यान्वयः ।

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182