Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 114
________________ लो०९] पृथिवीत्वे न द्रव्यत्वसामानाधिकरण्यमितिवद्गुणे द्रव्यत्वसामानाधिकरण्यावच्छेदकत्वाभावावगाहित्वेनैवोपपत्तौ तदव्याप्यवृत्तित्वस्याऽन्यत्र दुषित्वात् । सामानाधिकरण्येन नीलेतरवद्भेदो यदवच्छेदेन तदवच्छेदेन नीलोत्पत्तिरित्यध्याहुः । अव्याप्यवृत्तिरूपस्वीकार एव च 'मुखे पुच्छे च पांडुर' इत्यादाववच्छेदकत्वार्थिका सप्तमी संगच्छते । न चैव नीलकपालावच्छेदेन सन्निकर्षे पीतादिग्रहाssपत्तिः, अव्याप्यवृत्तिचाक्षुषं प्रति चक्षुः संयोगावच्छेदकावच्छिन्नसमवायसंबंधावच्छिन्नाधारतायाः सन्निकर्षत्वस्य संयोगादिस्थले क्लृप्तत्वादित्याहुः चित्ररूपविवेचनम् ५३ अत्र यद्यपि चित्ररूपवादिना नीलादिकं प्रति नीलेतरादीनां प्रतिबन्धकत्वं नीलाभावादीनां चित्रं प्रति हेतुता च कल्प्या, अव्याप्यवृत्तिरूपवादिनाप्यवच्छेदकतया नीलादिकं प्रति समवायेन नीलेतरादीनां प्रतिबन्धकत्वं केवलनीलावयवेऽवच्छेदकतया नीलोत्पत्तिवारणाय प्रागुक्तद्रव्यघटित - संबन्धेन नीलाभावादीनामवच्छेदकतया नीलादिकं प्रति हेतुत्वं च कल्पनीयमिति तुल्यम् । यदि पुनरवच्छेदकतासंबंधेन नीलादिकमनियम्यमेव तदा तु चित्रं प्रत्येव नानाकारणकल्पने गौरवमिति । अव्याप्यवृत्तिरूपस्वीकारे नीलपीतवत्यग्निसंयोगान्नीलनाशात्तदवच्छेदेन रक्तं न स्यात्, रूपं प्रति रूपस्य प्रतिबन्धकत्वादित्याहुः । अपरे तु तत्र व्याप्यवृत्तिन्येव नीलापीतादीन्युत्पद्यते नीलादिकं प्रति नीळेतरादिप्रतिबन्धकत्व नीलाभावादिकारणत्वाऽकल्पनया लाघवात् । न च नोकपालाच्छेदेन चक्षुः संनिकर्षे पीतादेरुपलम्भापत्तिः, पीतावयवायवच्छिन्नचक्षुः संनिकर्षस्य पीतादिग्राहकत्वकल्पनात् । यत्वेतत्कपालावच्छिन्नसंयोगादिप्रत्यक्षानुरोधेनैतत्कपालानवच्छिन्नवृत्तिकत्वे सति यत्तत्पी - तान्यं तद्भिन्नं यदेतद्बटसमवेतं तस्यैतत्कपालविषयक साक्षात्कारं प्रत्येतत्कपालावच्छेदेनैतद्धट चक्षुः संयोगस्य हेतुत्वान्न नीलाद्यवयवावच्छेदेन चक्षुः संनिकर्षे पीतादि चाक्षुषमिति, तन्न, तथापि नीलावयवावच्छेदेन चक्षुः संनिकर्षे घटत्वादेखि पीतादेरपि पीतादिकपालाविषयक साक्षात्कारापत्तेः दुर्वारत्वात् । व्याप्यवृत्त्याधारत्वस्याप्यवच्छेदकाभ्युपगमेन द्रव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रत्येव चक्षुः संयोगावच्छेदकावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतायाः संनिकर्षत्वेनैतत्कपालावच्छिन्नघटसंयोगस्यान्यक पालावच्छेदेन चक्षुः संयोगतच्चाक्षुषानुदयनिर्वाहादनुपदो ककारणत्वकल्प नस्य नियुक्तिकत्वाच्च । 'मुखे पुच्छे च पांडुर' इत्यादौ तु मुखादिवृत्तिपांडुरत्वादिकमेवावयविनि प्रतीयत इत्याहुः । इति न केषामध्येषामेकरूपानेक रूपोभयसमावेशः संमतः, - 1 * सन्दर्भस्त्वेवं - एष्टव्या बहवः पुत्राः यद्येकोऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ १॥ अत्र वृषविशेषणीभूतनवस्येयं परिभाषा - लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ २॥

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182