Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 123
________________ स्याद्वादरहस्यै अथ सुमूर्षाद्यनंतरोपजायमानभिन्नज्ञाने जातिविशेषं स्वीकृत्य तदवच्छेदेन चाक्षुषादिसामग्रचाः प्रतिबंधकत्वेऽनुमित्यादेः परोक्षवृत्तित्वमेवास्त्विति चेत् न, तदवच्छेदेन स्मृत्यन्यज्ञानसामग्रया एव प्रतिबंधकत्वात्तज्जातिविशेषस्य स्मृतित्वव्याप्यस्यैव युक्तत्वात् । तज्जाविवदन्यज्ञानसामग्रीत्वादिना प्रतिबंधकत्वेऽपि विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकतया सिद्धस्य प्रत्यक्षस्यैवानुमितौ युक्तत्वात् । विशेषणतावच्छेदकाभावप्रकारकत्वे सति विशेषणतावच्छेदकप्रकारकत्वेन विशिष्टवैशिष्टयविषयित्वावच्छिन्नं प्रत्येव तथात्वे तत्संशयेऽप्यनुबुद्धसंस्काराद्विशिष्टवैशिष्ट्प्रत्यक्षापत्तेरिति चेत् ? अत्र केचित्, अनुमितेर्मानसत्वव्याप्यत्वे चाक्षुषादिसामग्रयां सत्यां भिन्नविषयकानुमितिर्न स्याद्भोगान्यसानसं प्रति चाक्षुषादिसामग्रचाः प्रतिबन्धकत्वात् । नच चक्षुर्मनोयोगादिविगमोत्तरमेवानुमित्यभ्युपगमः, त्वङ्मनोयोगादिविगमस्य कल्पयितुमशक्यत्वादिति । तच्चिन्त्यमित्यपरे, अनुमितित्वस्य भोगत्वव्याप्यत्वाभ्युपगमेन तदोषाननुवृत्तेः । न च वहून्यादेः कथं भोगविषयत्वं चन्दनादिवदुपपत्तेः । अन्ये तु तदानीं वह्निमानस स्वीकारे लिङ्गादोनामपि मानसाएत्तिः । न चाचार्यमत इव तत्र तद्भानमात्र इष्टापत्तिरेवमप्युच्छृंखलोपस्थितानां घटादीनां तत्र भानापत्तेः । न च तद्धर्मिक तत्संसर्गकतत्तद्धर्मावच्छिन्नव्याप्यवत्ताज्ञानाऽत्मकविशेषसामग्रीविरहान्न तदापत्तिरिति वाच्यं, सामान्यसामग्रीवशात्तदापत्तेः । न च घटमानसत्वस्य परामर्शादिप्रतिबध्यतावच्छेदकतया न तदापत्तिः, पटमानसत्वादेरप्युच्छृंखलोपस्थितघटादिभानवारणाय तत्प्रतिबध्यतावच्छेदकत्वेऽनन्तप्रतिबध्यप्रतिबन्धक भावकल्पनापत्तेः । अथ भोगपरामर्शजन्यभिन्नज्ञाने जातिविशेषं स्वीकृत्य तदवच्छिन्नमानसं प्रति तज्जातोयान्यज्ञानसामग्याः प्रतिबन्धकत्वान्न तदानीं वह्नीतरज्ञानापत्तिरिति चेत् ? न मानसत्वस्यैव परामर्शघटित सामग्रीप्रतिबध्यतावच्छेदकत्वौचित्यात् । न चैवमनुमितिसामन्यां सत्यां भोगोऽपि कथं भवेदिति वाच्यं, भोगान्यज्ञानप्रतिबन्ध कतावच्छेदकतया समानीतजातिविशेषवतां सुखदुःखानामुत्तेजकत्वात् । नचतादृशसुखदुःखकालेऽप्यनुमितिसामग्रीभूतपरामर्शादौ समवायेन तदभावादनुमित्यापत्तिः, सामानाधिकरण्यकालिकोभयसंबन्धावच्छिन्नतदभावस्य निवेशात् इति सिद्धान्तयन्ति । ६२ तत्रेदं चिन्त्यं --- अनुमितिसामग्रचा मानसं प्रति प्रतिबन्धकत्वस्य तत्तदिच्छारूपोत्तेजकभेदेन विशिष्य विश्रान्त्याऽनुमितेर्मानसत्व एव वहचादिमानसं प्रत्यप्रतिबन्धकत्वकल्पनया लाघवम् । तत्तदिच्छोपजायमानभिन्ने प्रतिबध्यतावच्छेदकजातिस्वीकारस्तु परामर्शजन्यभिन्नेऽपि भजमान इति नवयाद्यनुमितिसामग्रीकाले उच्छृंखलोपस्थितघटादिभानवारणाय मानसत्वस्य तत्प्रतिबध्यतावच्छेदकत्वकल्पनौचित्येनानुमितेरप्रत्यक्षत्वाभिधानं युक्तमिति । न च तज्जात्यवच्छिन्नं प्रत्यनुगतकारणकल्पनापत्तिः, कार्यमाश्रवृत्तिजातेः कार्यतावच्छेदकत्वनियमे मानाभावात् । किंच विजातीयसुखदुःखानां नोत्तेजकत्वं सुखत्वादिना सांकर्येण तद्वैनात्याऽसिद्धेः । १. उदयनाऽऽचार्यमते

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182