Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 120
________________ प्रलो. ११] नास्तिकमत-निराकरणम् समवायसामानाधिकरण्याभ्यां पृथक् कारणत्वात् । न च परमाणौ पृथिवीत्वादिप्रत्यक्षापत्तिवारणायोद्भूतरूपमहत्वयोः प्रत्यासत्तिमध्ये निवेशनमेवोचितमिति वाच्यं, परमाणौ पृथिवोत्वादिप्रत्यक्षस्याऽनापाद्यत्वात्, घटादौ तस्य तु जायमानत्वादेव । न च परमाणुघटितसंनिकर्षात् पृथिवीत्वादिप्रत्यक्षापत्तिः अयोग्यवृत्तिधर्माऽयोग्यसंनिकर्षाद्यभावकूटस्य सामान्यत एव प्रत्यक्षहेतुत्वात् । अस्तु वा स्वविशिष्टस्वविषयसमवायित्वसंबन्धेन जातिचाक्षुषं प्रति विषयतासम्बन्धेनाश्रयचाक्षुषस्य हेतुत्वं, तेन नायं दोषः । एतेन-स्वविषयसमवेतत्वसंबन्धेन जातिचाक्षुषं प्रति हेतुत्वेऽपि विनश्यदवस्थसंनिकर्षण घटादिचाक्षुषोत्तरं परमाणौ पृथिवोत्वादिप्रत्यक्षापत्तिरित्यपास्तम् । ननु 'मम शरीरमि'त्यादिप्रतीत्यात्मनोऽतिरेकः सेत्स्यतीति चेत् ? न, उक्तलाघवबलेनेदृशप्रतीतेभ्रमत्वकल्पनात्, 'श्यामोऽहं गौरोऽहमित्यादिसामानाधिकरण्यानुभवाच्च । ननु तथापि भूतचतुष्कप्रकृतित्वेन शरीरस्य पृथिव्यादिभिन्नत्वात्पृथिव्यादिचतुष्टयमेव तत्त्वमिति प्रतिज्ञासन्यास इति चेत् ? न, स्वाश्रयसमवेतत्वसंबन्धेन गन्धाभावस्य गन्धप्रतिबन्धकत्वेन तस्य भूतचतुष्कप्रकृतित्वाऽयोगात्पार्थिवशरीरे जलादिशरीरस्यौपााधिकत्वात् । __ दिक्कालयोश्च मानाभावः, दिक्कृतकालिकविशेषणताभ्यां जन्यमूर्त्ताभ्यामेव तत्कार्यसंभवात् । संनिकृष्टविप्रकृष्टत्वाभ्यामेव पराऽपरव्यवहारोत्पत्तौ परत्वाऽपरत्वयोर्गुणत्वे मानाभावात् । आकाशोऽपि नातिरिच्यते, निमित्तपवनस्यैव शब्दसमवायिकारणत्वात् । अत एव कर्णसंयुक्तसमवायात्तद्ग्रहः, इति न समवायादेः प्रत्यासत्तित्वम् । मनोऽपि चाऽसमवेतं भूतम् । न च पृथिवीत्वादौ विनिगमकाभावादतिरेको युक्तः, पार्थिवादित्वेपि तत्तदात्माकृष्टत्वेन विशेषसंभवादिति दिग् । इत्थं च शरीराद्यतिरिक्तस्यात्मनः एवाऽसिद्धौ कस्य नाम परलोकः, कस्य वा मोक्षः! इत्याहुः। [चार्वाकमतचर्वणम् ] तेऽतिपापीयांसः सर्वापलापित्वात् । तत्र यत्तावदुक्तं 'भूतचतुष्टयातिरिक्तमात्मादि वस्तु नास्त्येवानुपलब्धेरि'ति-तत्र केयमनुपलब्धिः ? (१) स्वभावानुपलब्धिर्वा, (२) व्यापकानुपलब्धिर्वा (३) कार्यानुपलब्धिर्वा, (५) कारणानुपलब्धिर्वा, (५) पूर्वचरानुपलब्धिर्धा, (६) उत्तरचरानुपलब्धिर्वा (७) सहचरानुपलब्धिर्वा ? । तत्र न तावदाद्या, . यतः स्वभावानुपलब्धिर्हि उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भो । भवनि चैतादृशो मुण्डभूतले घटादेरनुपलम्भो, न तु पिशाचादेः, तस्योपलब्धिलक्षणप्रातत्वाऽभावात् । न च सिद्धयसिद्धिभ्यां व्याघातः, भारोप्ये तद्रूपनिषेधात् । न चाऽदृश्यस्यापि दृश्यतयाऽरोप्य प्रतिषेधो युक्तः, आरोपयोग्यस्यैवाऽऽरोपसंभवात् । उपलम्भकारणसाकल्ये सति हि य उपलभ्यते स एव दोषवशात्क्वचित् कदाचिदारोप्यते, तादृशश्च घटादिरेव न तु पिशा

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182