Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 111
________________ ५० स्याद्वादरहस्ये गितावच्छेदकताकात्यंताभावघटितायाः तावत्संबन्धपर्याप्तप्रतियोगितावच्छेदकतावच्छेदकता कान्योन्याभावघटिताया वा व्याप्तेरमेदेन कारणताया अभेदात् । अत एवाऽननुगताभिरपि संयोगादिप्रत्यासत्तिभिश्चाक्षुषत्वावच्छिन्नं प्रति चक्षुष्ट्वेन कारणतोक्तिः प्राचां संगच्छते । इत्थं च नानारूपवदवयवारब्धे नीलादिबाधाच्चित्ररूपसिद्धिर्निराबाधा । चित्रं प्रत्यपि प्रागुक्तदिशा नीलेतरपीतेतरत्वादिनैव हेतुता । नीळेतरत्वं च नीलतरेतरत्वादिकं बोध्यं तेन नीलतरनीलतमाभ्यामारब्धेऽपि तदुत्पत्तिर्निरपायेत्यादिकं न्यायवादार्थे प्रपचितमस्माभिः । [विजातीयचत्ररूषहेतुता ] विजातीयचित्रं प्रति रूपविशिष्टरूपत्वेनैव हेतुत्वम् । वैशिष्ट्यं च स्वविजातीयत्वस्वसंवलितत्वोभयसंबंधेन, स्ववैजात्यं च चित्रत्वातिरिक्तं यत् स्ववृत्ति तद्भिन्नधर्मसमवायित्वम् । स्वसंवलितत्वं च स्वसमवायिसमवेतद्रव्यसमवायिवृत्तित्वम् । विजातीयचित्रं प्रति च विजातीयतेजः संयोगत्वेन हेतुतेत्यप्याहुः । चित्रत्वावच्छिन्नं प्रत्येव स्वविजातीयस्वसंवलितत्वोभयसंबन्धेन रूपसमवायिकारणविशिष्टरूपाऽसमवायिकारणत्वेन हेतुता । रूपासमवायिकारणत्वं च जनकताविशेषसंबन्धेन रूपवत्त्वमेवेत्यप्येके । मतद्वययमिदं स्फुटगौरवप्रस्तम् । यत्तु - नीलपीतोभयाभाव-पीतरक्तोभयाभावादीनां स्वसमवायिसमवेतत्व संबन्धावच्छिन्नप्रतियोगिताकानां समवायावच्छिन्नप्रतियोगिताकानां च विजातीयविजातीयपाकोभयाभावादीनां यावत्त्वावच्छिन्नप्रतियोगिताकाभाव एकश्चित्रत्वावच्छिन्नं प्रति हेतुरिति-तन्न, प्रतियोगिको टावुदासीनप्रवेशाऽप्रवेशाभ्यां विनिगमनाविरहात् । चित्रत्वावच्छिन्ने रूपत्वेनैव हेतुता, नीलपीतोभय जन्यतावच्छेदकचित्रत्वावान्तरजात्यवच्छिन्ने नीलपीतोभयत्वेनैव त्रितयारब्धे तत्रितयत्वेन हेतुता, नीलपीतोभयाद्यारब्धचित्रे च नीलपीतान्यतरादीतररूपं प्रतिबन्धकमिति न त्रितयारब्धचित्रवति द्वितयारब्धचित्रापत्तिः । गौरवं तु प्रामाणिकत्वादिष्टमित्यन्ये । अत्र नीलतरनीलतमोभयत्वादिना तदुभयजन्य चित्र प्रत्यपि हेतुता वाच्या तत्प्रति च नीलतरनीलतमान्यतरेतररूपत्वेन प्रतिबन्धकता, तेन न नीलपीतोभयारब्धचित्रवति तदापत्तिः । रूपजरूपं प्रत्येव विजातीयाग्निसंयोगस्य प्रतिबन्धकत्वाच्च यत्रैकावयवे नीलमपरत्र पीतं तदन्यत्र च श्वेतजनकाग्निसंयोगस्तदवयविनि द्वितयारब्धचित्राद्यापत्तिर्नेति बोध्यम् । वस्तुतो द्वितयजचित्रादौ स्वपर्याप्त्यधिकरणपर्याप्तवृत्तिकत्वसंबन्धेन द्वितयादेः कारणता, नाsतो नीलपीतोभयजादौ नीलपीतान्यतरादीत ररूपत्वेन प्रतिबन्धकता कल्पनगौरवम् । चित्रं प्रति चित्रे तर सामग्रीत्वेन प्रतिबन्धकत्वान्न नोलमात्रारब्धे चित्रापत्तिः, नीलपीतोभयकपालारब्धघटे नीलानुत्पत्तिनिर्वाहाय तु स्वाश्रयसंबन्धेन नीलं प्रति स्वव्यापकसमवायेनैव नीलादेर्हेतुत्वं वाच्यं, न तु नीलादौ नीलतरादेः प्रतिबन्धकत्वमिति । न च तथापि तत्र समवायेन नीलापत्तिः, स्वाश्रयसंबन्धेन नीलसामग्रयाः समवायेन नीलसामग्रोव्यापकत्वादित्यपरे । " केचित्तु – नानारूपवदवयवारब्धो घटो नीरूप एव । न चैवमप्रत्यक्षः स्यात् द्रव्यतत्समवेतचाक्षुषसाधारण्ये चाक्षुषत्वावच्छिन्नं प्रत्येव स्वाश्रयसमवेत वृत्तित्व संबन्धेन रूपस्य कारणत्वात् ।

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182