Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 104
________________ श्लो०७] स्याद्वारे विरोधपरिहारः [ जैनमते सादृश्यनिर्वचनम् ] अत्र वदंति-सादृश्यं न तभिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं, किंतु तवृत्तिधर्मेकधर्मवत्त्वम् ।। एकत्वं च संग्रहनयार्पणार्पितबुद्धिविशेषविषयत्वं, तेन नैतद्धटत्वादेः सामान्यत्वं, संग्रहस्य विस्तरावधिकत्वात् । नपि पटत्वादेर्घटसादृश्य, तत्तदितरसाधारणधर्मेष्वेव संग्रहसंभवात् । न च स्वस्मिन् स्वसादृश्यापत्ति; इष्टत्वात्कथमन्यथाऽस्या इवास्या इत्यादाविवशब्दप्रयोगः साधीयान् । न चैवमनन्वयस्यालंकारान्तरत्वं न स्यादिति वाच्यं, स्वस्यैवोपमानोपमेयत्वविवक्षया तत्रालंकारांतरव्यपदेशात् । अथास्या इवास्या इत्यादावपि वैधर्म्यरूपमेदप्रतिसंधान एव सादृश्यव्यवहारो नान्यथा, अनुगतव्यवहारस्तु भेदानुपरक्ताखंडधर्ममात्रेणेति सादृश्यात्सामान्यमतिरिच्यत इति चेत् ? कोशपानप्रत्यायनीयमेतद्वैधाऽप्रतिसंधानेऽपि तत्रेवाद्यर्थबोधानपवादात् । 'तदप्रतिसंधानेऽनन्वय एव नोपमे ति चेत् ? न, सादृश्यस्य भेदगर्भितत्वे इवादिपदात्तत्प्रतिसंधानस्यैवावश्यंभावात् । अयोग्यताभ्रमादितस्तदप्रतिसंधानेऽनन्वय इति चेत् ! तर्हि यत्र नायोग्यताभ्रमादिकं तत्र क्वचिद्वैधाप्रतिसंधानेऽपीवादिपदार्थबोध इति कथं तस्येवाद्यर्थत्वम् ! इदमत्रावधेयम् । 'पटो घटसदृशः, पटो द्रव्यमि'तिप्रतीत्यो(लक्षण्यं विषयवैलक्षण्याधीनं, विषयं विनैव धियां विशेषे साकारवादापातात् । तथा च सावच्छिन्ननिरवच्छिन्नप्रकारताभ्यामेव तयोर्वैलक्षण्यं वाच्यम् , न तु तदनुरोधेन सादृश्यमेव तद्भिन्नत्वगर्भ वाच्यमिति । नव्य[म]त(ता)नुयायिनस्तु सादृश्यमतिरिक्तमेव बहुषु धर्मेषु तत्त्वकल्पने गौरवात् । न च तद्भिन्नत्वे सति तद्गतधर्मवत्त्वस्य तद्वयंजकत्वकल्पने विपरीतगौरवं, एवं सत्यखंडपदार्थमात्रविलयापत्तेः । स्मर्यमाणारोपादिकारणताधवच्छेदकत्वेनानुगतस्यैव तस्य सिद्धौ तद्गौरवस्य फलमुखत्वाच्च । घटादिसादृश्यं च पटादौ द्रव्यत्वाद्यवच्छेदेन न तु गुणत्वाद्यवच्छेदेनेति 'पटो द्रव्यत्वेन घटसदृशो न तु गुणत्वेने'त्यादिप्रतीते नुपपत्तिरित्याहुः । तच्चिन्त्यम्, 'घटसदृशः पट' इति निर्णयोत्तरं घटवृत्तिधर्मवान्नवेति संशयानुदयात् , अतिरिक्ततन्निश्चयस्य तत्प्रतिबंधकत्वकल्पने गौरवात् । न च तवापि घटभिन्नत्वे सति तद्वृत्तिधर्मवत्तारूपतन्निश्चयस्य घटवृत्तिधर्मवत्त्वसंशयाच्यावृत्ततया पृथक् प्रतिबंधकत्वकल्पने ध्रुवं साम्यमिति वाच्यं, पटो घटभिन्नत्वे सति घटवृत्तिधर्मवानितिशाब्दबोधोत्तरं तदनुत्पत्त्या तत्प्रतिबंधकत्वकल्पनस्यावश्यकत्वादिति दिग् । ___सामान्यस्य पराभिमते नित्यत्वानेकसमवेतत्वे अपि कथं समगंसाताम् ? अत्र मृत्पिण्डे घटत्वमासीदिति प्रतीत्या तस्यानित्यत्वसिद्धेः । अतीतानागतव्यक्तिवृत्तित्वस्यैव दुरुपपादत्वेन यावद्वयक्तिवृत्तित्वरूपस्यानेकसमवेतत्वस्य दुर्वचत्वाच्चेति प्रांचः । अथ यथा भवन्मते एकस्य शब्दस्य सर्वार्थवाचकत्वं अतीतानागतव्यक्तिनिरूपितत्वस्य कादाचित्कत्वेऽपि तन्निरूपितवाचकताया एकत्वेन निर्वहति, तथा ममापि तत्तद्व्यक्तिनिरूपितत्वस्य कादाचित्कत्वेऽपि तन्निरूपितसमान्यस्यैकतया यावद्वयक्तिसमवेतत्वं जातेनिर्वक्ष्यति । भवतामेकस्य शब्दस्य याषदर्थवाचकत्व

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182