Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 103
________________ स्याद्वादरहस्ये विशेषे सादृश्यास्तित्वेनैवानेकद्रव्येष्वनुगतधी तु स्वरूपास्तित्वेनेति स्वभावस्यैव विजृम्भितमित्याहुः। वस्तुतः स्वरूपास्तित्वं प्रतिव्यक्त्यनेकमेव, सादृश्यास्तित्वं पुनरेकमपीति भिन्नद्रव्यानुवर्तकमिति बोध्यम् । [योगमते सादृश्यव्याख्यानम् ] ___ अत्र योगाः संगिरन्ते । ननु सादृश्यं तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम् । स्वस्मिन् स्वसादृश्यवारणाय 'तभिन्नत्वे सती'ति । न च गगनं गगनाकारमित्यादावव्याप्तिः । उपमितिक्रियाऽनिष्पत्त्याऽनन्वयस्याऽलक्ष्यत्वात् । अत एवोपमेयोपमाया अतादृश्या लक्ष्यत्वादेव न तत्रातिव्याप्तिः । मिथस्तयोरेवोपमानोपमेयत्वविवक्षामात्रादस्यालंकारांतरव्यपदेशात् । यत्तु प्राचा-तद्भिन्नत्वे सति तद्गतभूयोऽसाधारणधर्मवत्त्वं सादृश्यम् , पटादो घटसादृश्यवारणाय 'मसाधारणे'ति, यत्किचिंदसाधारणधर्मवति तद्वारणाय 'भूय' इत्युक्तं-तन्न, पटादेरपि कथंचित् घटसादृश्यव्यवहारात् ; तद्वाचकानां इवादिपदानां शक्तिस्तु भेदे वृत्तित्वे धर्मे च खंडश एवेति लाघवाच्चंद्रादिपदसमभिव्यवहाराच्च चंद्रादिभिन्नत्वलाभः, अनवच्छिन्नविशेषणताया भेदसंसर्गत्वाच्च न कपिसंयोगवति कपिसंयोगवत्सादृश्यापत्तिः । अथैवं 'पटो न घटसदृश' इतिधीन स्याद्, घटवृत्तिधर्मसामान्याभावस्य पटेऽसंभवात् । अत्रोपमानपदार्थतावच्छेदकनिष्टाश्रयत्वसंसर्गेण वृत्तित्वविशिष्टधर्माभावबोधान्नायं दोष इति चेन्न, एवं सति 'घटः पटसदृश' इति बुद्धयनापत्तेरिति चेत् ? न, 'पटो न घटसदृश' इति बुद्धयनापत्तेरिष्टत्वादनिष्टत्वे वा धर्मपदं घटत्वादिपर बोध्यम् । 'एवमपि घटभिन्नत्वविशिष्टघटत्वाऽप्रसिद्धेः कथं तदभावबोध' इति चेत् ? न ह्यत्र विशिष्टस्याभावबोधः किन्तु घटभिन्नत्वघटवृत्तिधर्माभावयोरेकत्र द्वयमितिन्यायेनेति 'घटभिन्नत्वविशिष्टघटवृत्तिधर्मस्य घटत्वीयसंबंधेनाभावबोधान्नात्रानुपपत्तिरित्यप्याहुः। एतत्कल्पे च सामानाधिकरण्यसंबंधेनेवाद्यर्थस्य भेदस्य स्वार्थे धर्म एवान्वयो बोध्यः । समीचीनश्चायमेव पक्षः, पूर्वत्र 'घटो न घटसदृश' इति बोधाऽनापत्तेः । ननु घटत्वादावपि पटत्वात्यंताभावादिरूपघटभेदवैशिष्टयाद् घटे घटसादृश्यं कथं नेति चेत् ? तादृशघटभेदस्य घटसत्त्वेऽपि घटभेदत्वावच्छिन्नाधिकरणताया अभावाद् अन्यथा 'घटो न घट' इति प्रतीत्यापत्तेरिति गृहाण । अथ तद्भिन्नत्वमात्रमेव सादृश्यमस्तु प्रमेयत्वादिना सर्वत्र सर्वसादृश्याद् व्यों विशेष्यभाग इति चेत् ? न, तदभिन्नत्वमात्रस्य सादृश्यव्यवहारानौपयिकत्वाद्विशिष्टाधिकरणताया भिन्नत्वेन वैयर्थ्याभावाच्च । न ह्यत्रविशिष्टाधिकरणताघटिता व्याप्तिर्विशेष्यभागं विना ग्रहीतुं शक्यत इति । एवं च पटादौ घटसादृश्यस्यापि घटाभिन्नत्वविशिष्टद्रव्यत्वाचखंडधर्मरूपतया द्रव्यत्वमात्रस्यैव सामान्यत्वमुचितं, विशिष्टस्य घट एवाऽननुवृत्तेः । अथैवं पशुत्वादिना सखंडधर्मेण सादृश्यं न स्यादिति चेत् ? न, तस्यापि परम्परयाऽखंडत्वादिति ।

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182