Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 102
________________ लो० ७] स्याद्वादे विरोधपरिहारः च्यवादिति चेत् ? न, प्रतिव्यक्ति तुल्यातुल्यपरिणतिरूपधर्मयोरेव स्वभावतोऽनुवृत्तिव्यावृत्तिनियामकत्वात् । धर्मी पुनः कथंचिदनुवृत्तिव्यावृत्त्युभयस्वभाव इति स्पष्टीभविष्यति व्याख्यान्तरे पुरस्तात् । अथैवमप्यूर्ध्वतासामान्ये मानाभावोऽङ्गदकुंडलादौ कांचनत्वरूपतिर्यक्सामान्येनैव 'कांचनं कांचनमित्यनुगतप्रतीतेर्निवाहादिति चेत् ? न, 'यदेव कांचनमङ्गदीभूतं तदेव कुंडली भूतिमि ' - त्यादिप्रतीतीनामेकाकारत्वस्योर्ध्वता सामान्यं विनाऽनुपपत्तेः, विसदृशपरिणतिषु तिर्यक्सामान्यानवकाशाच्च । किं च प्रतीतावनुगतत्वं = एक विषयनिष्टापर विषय भेदानवच्छेदकावगाहित्वं, तन्निर्वाइकत्वं च तिर्यकूसामान्यस्येवोर्च्चतासामान्यस्याप्यक्षतमिति दिक् । यद्यपीदृशोर्ध्वता सामान्यत्वं चिरस्थायिनां गुणपर्यायाणामपि संभवति, तथापि पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वता सामान्यमित्यत्र द्रव्यपदं धर्मिपरमिति न कोपि दोषः । [ दिगम्बरमते स्वरूपास्तित्वव्याख्यानम् ] दिगम्बरास्तु - एकद्रव्येषु घटादिषु स्वरूपास्तित्वेनाऽनुगतव्यवहारः । स्वरूपास्तित्वं च स्वगुणपर्यायैरुत्पादव्ययध्रुवत्वैश्च द्रव्यस्य स्वभाव एव । तदुक्तं "सैन्भावो हि सहावो, गुणेहिं सगपज्जएहिं चित्तेहिं । दव्वस्स सव्वकालं उप्पादव्वयधुवत्ते हिं" [प्र.सा. २ - ४ ]ति । अयमर्थःद्रव्यादिचतुष्टयेन द्रव्यात्पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेण गुणानां पर्यायाणां च स्वरूपमुपादाय प्रवर्त्तमानप्रवृत्तियुक्तस्य द्रव्यास्तित्वेन निष्पादितनिष्पत्तियुक्तैर्गुणैः पर्यायैश्च यदस्तित्वं द्रव्यस्य, स स्वभावः । तथा द्रव्यादिचतुष्टयेन गुणेभ्यः पर्यायेभ्यश्च पृथगनुपलभ्यमानस्य कर्त्रा - दिरूपेण द्रव्यस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तैर्गुणैः पर्यायैश्च निष्पादितनिष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया तैर्निष्पादितं यदस्तित्वं स स्वभावः । एवं द्रव्यादिचतुष्टयेन द्रव्यात्पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेणोत्पादव्ययधौव्याणां स्वरूपमुपादाय प्रवर्त्तमानप्रवृत्तियुक्तस्य द्रव्यास्तित्वेन निष्पादितनिष्पत्तियुक्तैरुत्पादव्ययधौव्यैर्यदस्तित्वं द्रव्यस्य स स्वभावः । तथा द्रव्यादिचतुष्टयेनोत्पादव्ययध्रौव्येभ्यः पृथगनुपलभ्यमानस्य कर्त्रादिरूपेण द्रव्यस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तैरुत्पादव्ययध्रौव्यैर्निष्पादित निष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया तैर्निष्पादितं यदस्तित्वं स स्वभाव इति । तच्च स्वरूपास्तित्वमिति गीयते । परस्परकरम्बितशक्त्या निष्पाद्यनिष्पत्तिमद्भाववतामस्तित्वं स्वरूपास्तित्वमिति परमार्थः । अनेकद्रव्येष्वनुगतव्यवहारस्तु सादृश्यास्तित्वेन । तदुक्तं - " इह विविधलक्खणाणं, लक्खणमेगं सदित्ति सव्वगदं । उवदिसदा स्खलु धम्मं, जिणवरवसहेण पण्णत्तं" ।।” [प्र.सा. २- ५ ] ति । अथ सादृश्यास्तित्वानामपि प्रतिव्यक्तिस्वरूपभेदात् स्वरूपास्तित्वानामिव नानेकद्रव्यानुवर्त्तकत्वं स्यादिति चेत् ? अत्र केचित् - सत्यपि प्रतिव्यक्ति स्वरूपभेदा १. सद्भावो हि स्वभावो, गुणैः सह पर्ययैश्वित्रैः । द्रव्यस्य सर्वकालमुत्पादव्ययध्रुवत्वैः ॥ २. इह विविधलक्षणानां लक्षगमेकं सदिति सर्वगतम् । उपदिशता खल धर्मं जिनवरवृषमेण प्रज्ञप्तम् । स्या. र. ६

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182