Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 105
________________ स्याद्वादरहस्ये मिव यावद्वयक्तिवृत्तित्वं जातेरेकदा तु न व्यवहियते । किं च पटादौ नष्टघटभेद इव जातावतीतानागतव्यक्तिसमवेतत्वं नासंभवदुक्तिकमिति चेत् ? न, समवायस्यैवाऽविष्वग्भावातिरिक्तस्याऽसिद्धेः । एतेन अनेकवृत्तित्वं स्वाश्रयान्योन्याभावसामानाधिकरण्यमि'ति वर्धमानवचनमप्यपास्तं, विशेषेऽतिव्याप्तितादवस्थ्यवारणाय सामानाधिकरण्यस्य समवायगर्भत्वावश्यकत्वात् । [विशेषपदार्थेऽनुपपत्तिः] विशेषपदार्थस्वीकारोऽपि तेषां भेदकधर्मान्तराऽभाववतां परमाण्वादीनां नित्यद्रव्याणां परस्परयोगिभेदप्रत्यक्षान्यथानुपपत्तेः, सोप्यनुपपन्नः, तद्गुणेष्वपि तत्स्वीकारापत्तेः । अथ तत्र शुक्लतरत्वाद्यवांतरजातयः स्वीक्रियते, परमाणौ त्वंत्यकार्यावृत्तित्वादवांतरजातयः स्वीकत्तं न शक्यंत इति चेत् ? तथाप्यवांतरजातीयेष्वपि रूपादौ परस्परव्यावृत्तिः किमधीना ! स्वाश्रयाश्रितत्वसंबंधेन विशेषाधीनैवेति चेत्तहि स विशेषो गुणनिष्ट एव कल्प्यतां, परमाण्वादिषु परस्परव्यावृत्तिस्तु स्वाश्रयसमवायित्वसम्बन्धेन विशेषाधीनेत्यत्र किं विनिगमकम् ! 'गुणानां बहुत्वात्तत्रानन्तविशेषकल्पनायां गौरवं बाधकमिति चेत् ? तथापि प्रत्येकं विनिगमनाविरहः कुत्र लीनः ? किं च तादृशविशेषाणामपि व्यावृत्तिः कुतः ? स्वत एवेति चेत्तर्हि तदाश्रयाणामपि स्वत एव सास्तु । वैधर्म्यव्याप्ता सा कथं तद्विनेति चेत् ? अंततस्तत्तद्वयक्तित्वादीनामपि तत्त्वसंभवात्प्रतिद्रव्यमनंताऽगुरुलघुपर्यायाणां सिद्धांतसिद्धत्वाच्च । एतेन-अयमनारब्धद्रव्यः परमाणुः एतत्परमाणुनिष्टजातिगुणकर्मभिन्नधर्मसमवायो परमाणुत्वादन्यपरमाणुवदित्यनुमानमपि-निरस्त, तर्कविरहेऽनुमानसहस्रस्याऽकिंचित्करत्वात् , द्रव्यसमवायित्वस्योपाधित्वाच्च । किं चैवमप्याकाशादौ न विशेषसिद्धिः । शब्दादेरेव तत्र व्यावर्तकत्वाच्च सिद्धयसिद्धिव्याघातेन तु विशेषस्येव द्रव्यस्यैव व्यावृत्तिस्वभावत्वं न्याय्यमिति दिए । अभिलाप्यत्वाऽनभिलाप्यत्वे अपि न विरुद्धे । दृष्टं हि घटस्य यथा घटपदापेक्षयाsभिलाप्यत्वं तथा पटपदापेक्षयाऽनभिलाप्यत्वमपीति । नन्वभिलाप्यभावापेक्षयाऽनंतगुणिता अनभिलाप्या भावा भवद्भिरुपेयंते, यदुक्तं '[बृहत्कल्पवृत्तौ]-"पन्नवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं" ति । तेष्वेवेदमुभयमनुपपन्नमिति चेत् ? न, तेषामनभिलाप्यपदेनैवाभिलाप्यत्वात् । [ अभिलाप्यत्वपदार्थपरीक्षा ] ननु तर्हि किमिदृशानभिलाप्यव्यावृत्तमभिलाप्यत्वं ? न तावत्पदशक्तिविषयत्वं, अतिप्रसंगात् । नापि पदजन्यबोधविषयत्वं, तदविषये कचिद् घटादावभावात् । नापि तद्बोध्यतावच्छे. दकरूपवत्त्वं, घटस्यापि पटपदाभिलाप्यत्वापत्तेः, एकस्यापि पदस्य सर्वार्थवाचकत्वेन पटपदाभिलाप्यतावच्छेदकप्रमेयत्ववत्त्वस्य घटे सत्त्वात् । अथ पटपदादितः प्रमेयत्वेनाऽबोधान्न तदवच्छिन्ने शक्तिः, शक्तिज्ञानपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकत्वेनैव कार्यकारणभावादिति चेत् ? १. 'प्रज्ञापनीया भावा अनंतभागस्त्वनभिलाप्यानाम्। (पूर्वार्द्धमेतत् । विशेषावश्यकेऽपि लोक० १११)

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182