Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 44
________________ सत्त्वासत्त्वाद्यविरोधप्रदर्शनम् एतदवष्टम्भाय दृष्टान्तमाहुः - "गुडो हि" ति - गुडो हि कफहेतुः स्यान्नागर पित्तकारणम् । दयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥६॥ निगदसिद्धोऽयम् ||६|| अथ नित्यत्वाऽनित्यत्वभेदा मेदसत्त्वासच्वसामान्यविशेषात्मकत्वाऽभिलाप्य (त्वा)ऽनभिलाप्यत्वादिधर्माणां विरोधशंका मुद्दिधीर्ष वोऽभिदधति " इयमिति" - द्वयं विरुद्धं नैकत्राऽसत्प्रमाणप्रसिद्धितः विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु 1 | १६ 11611 एकत्र=एकाश्रयवृत्तिमत् । द्वयं = नित्यत्वाऽनित्यत्वादिकं न विरुडं न परस्परानधिकरणाधिकरणकम् । तत्र हेतुमाहुः - असदिति -प्रमाण प्रसिद्धेरसत्वात् । नहूयेकत्र सतो - र्वस्तुनोर्विरोध ग्राहकं किंचित्प्रमाणमस्ति । तथाहि, न हि जलानलयोरिव तयोविरोधोऽनुभूयते, रूपरसयोरिवैकवृत्तित्वस्यैवानुभविकत्वात् । न चैकज्ञानानन्तरमज्ञायमानत्वं तथा, नित्यत्वादिज्ञाने सत्यप्यनित्यत्वादेर्ज्ञानात् । स्वभावतो विरोधाभिधानं तु स्ववासनामात्र विजृ ' भितम् । ननु नित्यानित्यत्व-भेदाभेदयोर्भवतु प्रागुक्तदिशैकत्र वृत्तित्वं सत्त्वाऽसत्त्वयोस्तु कुत इति चेत् ? श्रुणु । सर्वं हि वस्तु स्वद्रव्यादिचतुष्टयापेक्षया सत्, परद्रव्यादिचतुष्टयापेक्षया च न सत् । व्यवहति हि घटोऽयं मार्त्तत्वेन काशीयत्वेनाऽद्यतनत्वेन रक्तत्वेन चास्ति, न तु ग्रावयत्वेन प्रयागीयत्वेन श्वस्तनत्वेन श्यामत्वेन चेति । नन्वेतादृशमसत्त्वं व्यधिकरणधर्मावच्छिन्नाभावपर्यवसन्नमिति चेत् १ किं तावता ? ताहशाऽभावे मानमेव नास्तीति चेत् ? न, 'घटत्वेन पटो नास्तीति प्रतीतेरेव मानत्वात् । यत्किंचि - द्धर्मावच्छिन्नप्रतियोगिताकत्वं यत्र तृतीयान्ताल्लभ्यते तत्र प्रकारीभूततद्धर्मावच्छिन्नप्रतियोगिताकस्यैव व्युत्पत्तिबललभ्यत्वात् । कथमन्यथा घटत्वेन कम्बुग्रीवादिमान्नास्तीत्यादिप्रतीतेरपि प्रामाण्यम् ? प्रत्यक्षे हि येन रूपेण प्रतियोगिनोऽनुपलम्भस्तद्धर्मावच्छिन्ना प्रतियोगिता संसर्ग - मर्यादया भासते. तादृशधर्म एव च तृतीयान्तेनोल्लिख्यते इति । घटास्तित्वं च प्रदेशपु जपरिणमनरूपं मार्त्तत्वेन न विरुद्धम् । न च समयकालस्याऽनवच्छेदकत्वाद् द्रव्यादिचतुष्टयबाधस्तत्र प्रतीतिबलात् स्वस्यैव स्वास्तित्वावच्छेदकत्वात् । अथ यदेव स्वरूपेणाऽस्तित्वं तदेव पररूपेण नास्तित्वमिति द्वयमेव तावत्प्रदर्शनीयमिति चेत् ? नयनमुन्मिलय, ग्रावत्वेन नास्तित्ववति पटादौ किं मार्त्तत्वेनास्तित्वमुपलब्धवानसि ! मार्चत्वमार्त्तभिन्नत्वाभ्यामस्तित्व नास्तित्वयोस्तथाप्यद्वैतमेवोपलभे इति चेत् ? तत्किं तत्तनिमि

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182