Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ २७ w wwwww प्रलो० ५] तमोद्रव्यत्ववादः इति वाच्यम्, चक्षुधूमसंयोगत्वेनैव जलनिपातजनकत्वादुद्भूतस्पर्शस्य धूमेऽसिद्धेः, नीलत्रसरेणौ व्यभिचाराच्च । न च पाटितपटसूक्ष्मावयवत्तत्राप्युद्भूतस्पर्शवत्त्वानुमानम् , अनुभूतरूपस्योद्भूतरूपजनकताया इवानुभृतस्पर्शस्यापि निमित्तभेदसंसर्गेणोद्भुतस्पर्शजनकतासंभवादृष्टान्ताऽसंप्रतिपत्तेः । जन्यानुभूतरूपं प्रत्यनुद्भुतेतररूपाभावस्य कारणत्वपक्षे तप्ततैलस्थादनुभूतरूपाद्वह्रुद्भूतरूपभागांतराकर्षणेनैवोद्भूतरूपोत्पत्तिस्वीकारादत्र दृष्टान्ताऽसंप्रतिपत्तिरिति चेत् ? तथापि त्रसरेणोरुद्भुतस्पर्शवत्त्वे तत्स्पर्शस्पार्शनप्रसङ्गात् । 'द्रव्यान्यद्रव्यसमवेतस्पार्शनजनकतवच्छेदकीभूतप्रकर्षवन्महत्त्वाभावान्नायं दोष'इति चेत् ! न, तादृशप्रकर्षस्यैकत्वेऽपि कल्पयितुं शक्यत्वेन विनिगमनाविरहात् । अथैकत्वे तादृशजातिकल्पने स्वतन्त्रमतसिद्धद्रव्यचाक्षुषजनकतावच्छेदकीभूतैकत्वनिष्टजात्या सांकर्यमेव विनिगमकमिति चेत् १ तथापि सा जातिमहत्त्वे कल्प्यतामियं त्वेकत्वे इत्यत्रैव विनिगमकमन्वेषणीयम् । अथ-- द्रव्यचाक्षुषजनकतावच्छेदकैकत्वानेष्टजातिव्याप्यैव द्रव्यान्यद्रव्यसमवेतस्पार्शनजनकतावच्छेदकजातिरभ्युपेयतां, वायोश्चाक्षुषत्वं तु विषयविधया वायोश्चाक्षुषाऽहेतुत्वादिति-चेत् ? तवमेव त्रुटिस्पर्शास्पार्शनस्याप्युपपत्तेद्रव्यचाक्षुषजनकतावच्छेदकैकत्वनिष्ठजातेद्रव्यान्यद्रव्यसमवेतस्पार्शनजनकतावच्छेदकजातिव्याप्यत्वे विनिगमकाभावो, विषयस्य तत्तद्वयक्तित्वेन कारणतायां मानाभावश्च । यत्तु-महत्त्वोद्भूतस्पर्शयोः कारणत्वाकल्पनलाघवात्त्वक्संयुक्तत्वाचवत्समवायत्वेन द्रव्यान्यद्रव्यसमवेतस्पार्शन प्रति प्रत्यासत्तित्वान्न त्रुटिस्पर्शस्पार्शनमिति-तन्न, आश्रयत्वाचस्य नियमतः पूर्वमभावेन त्वाचवत्त्वस्य विशेषणत्वाऽयोगात्, उपलक्षणत्वे घटाद्युत्पत्तिद्वितीयक्षणे स्पर्शादिस्पार्शनापत्तेः । कालभेदेनैकस्यामेव व्यक्ताव तत्वाचानां संभवेन तावत्त्वाचापेक्षया महत्त्वोद्भुतस्पर्शयोरेव प्रत्यासत्तिमध्ये प्रवेशस्य त्रुटिस्पर्शेऽनुभूतत्वकल्पनस्य चोचितत्वात् । केचित्त-व्यासज्यवृत्तिगुणास्पशेननिर्वाहाय प्रकृष्टमहत्त्वोद्भूतस्पर्शयोः प्रत्यासत्यघटकत्वेन लाघवाद्व्यान्यसत्त्वाचत्वाच्छिन्नं प्रत्येव लौकिकविषयत्वावच्छिन्नत्वाचाभावस्य स्वाश्रयसमवेततत्वसम्बन्धेन प्रतिबंधकता कल्प्यते, वायोरस्पार्शनत्वं तु न यौक्तिकमिति न तवृत्तिस्पर्शस्पार्शनानुपपत्तिः, तथा च त्रसरेणोरस्पार्शनत्वान्न तवृत्तिस्पर्शादिस्पार्शनप्रसंग इति-तन्न, लाघवाद्वायोः स्पार्शनत्वस्य सांप्रदायिकत्वाच्च समवायसंबंधावच्छिन्नोद्भूतस्पर्शाभावस्यैव स्वाश्रयसमवेतत्वसंबन्धेन द्रव्यान्यसत्त्वाचत्वावच्छिन्नं प्रति प्रतिबन्धकत्वं कल्पयित्वा त्रुटिस्पर्शेऽनुद्भूतत्वकल्पनस्यैवौचित्यात् । नचावयव्युद्भूतस्पर्श प्रति अवयवोद्भूतस्पर्शस्यैव हेतुत्वात्कथं चतुरणुकोद्भूतस्पर्शारम्भकस्य त्रुटिस्पर्शस्याऽनुद्भूतत्वमिति वाच्यं, उद्भूतस्पर्शत्वस्यार्थसमाजसिद्धत्वेन कार्यतानवच्छेदकत्वादित्यन्यत्र विस्तरः । 'इदानों में शरीरं शीतलीभूतमि तिप्रतीत्या तमसः उद्भूतस्पर्शवत्वमप्यानुभविकमिति तु वृद्धाः । तेषामयमाशयो-यथाहि उद्भतशीतस्पर्शवत एव जलस्य संयोगादेहे शैत्यं प्रतीयते तथा

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182