________________
२७
w
wwwww
प्रलो० ५]
तमोद्रव्यत्ववादः इति वाच्यम्, चक्षुधूमसंयोगत्वेनैव जलनिपातजनकत्वादुद्भूतस्पर्शस्य धूमेऽसिद्धेः, नीलत्रसरेणौ व्यभिचाराच्च । न च पाटितपटसूक्ष्मावयवत्तत्राप्युद्भूतस्पर्शवत्त्वानुमानम् , अनुभूतरूपस्योद्भूतरूपजनकताया इवानुभृतस्पर्शस्यापि निमित्तभेदसंसर्गेणोद्भुतस्पर्शजनकतासंभवादृष्टान्ताऽसंप्रतिपत्तेः । जन्यानुभूतरूपं प्रत्यनुद्भुतेतररूपाभावस्य कारणत्वपक्षे तप्ततैलस्थादनुभूतरूपाद्वह्रुद्भूतरूपभागांतराकर्षणेनैवोद्भूतरूपोत्पत्तिस्वीकारादत्र दृष्टान्ताऽसंप्रतिपत्तिरिति चेत् ? तथापि त्रसरेणोरुद्भुतस्पर्शवत्त्वे तत्स्पर्शस्पार्शनप्रसङ्गात् । 'द्रव्यान्यद्रव्यसमवेतस्पार्शनजनकतवच्छेदकीभूतप्रकर्षवन्महत्त्वाभावान्नायं दोष'इति चेत् ! न, तादृशप्रकर्षस्यैकत्वेऽपि कल्पयितुं शक्यत्वेन विनिगमनाविरहात् । अथैकत्वे तादृशजातिकल्पने स्वतन्त्रमतसिद्धद्रव्यचाक्षुषजनकतावच्छेदकीभूतैकत्वनिष्टजात्या सांकर्यमेव विनिगमकमिति चेत् १ तथापि सा जातिमहत्त्वे कल्प्यतामियं त्वेकत्वे इत्यत्रैव विनिगमकमन्वेषणीयम् ।
अथ-- द्रव्यचाक्षुषजनकतावच्छेदकैकत्वानेष्टजातिव्याप्यैव द्रव्यान्यद्रव्यसमवेतस्पार्शनजनकतावच्छेदकजातिरभ्युपेयतां, वायोश्चाक्षुषत्वं तु विषयविधया वायोश्चाक्षुषाऽहेतुत्वादिति-चेत् ? तवमेव त्रुटिस्पर्शास्पार्शनस्याप्युपपत्तेद्रव्यचाक्षुषजनकतावच्छेदकैकत्वनिष्ठजातेद्रव्यान्यद्रव्यसमवेतस्पार्शनजनकतावच्छेदकजातिव्याप्यत्वे विनिगमकाभावो, विषयस्य तत्तद्वयक्तित्वेन कारणतायां मानाभावश्च । यत्तु-महत्त्वोद्भूतस्पर्शयोः कारणत्वाकल्पनलाघवात्त्वक्संयुक्तत्वाचवत्समवायत्वेन द्रव्यान्यद्रव्यसमवेतस्पार्शन प्रति प्रत्यासत्तित्वान्न त्रुटिस्पर्शस्पार्शनमिति-तन्न, आश्रयत्वाचस्य नियमतः पूर्वमभावेन त्वाचवत्त्वस्य विशेषणत्वाऽयोगात्, उपलक्षणत्वे घटाद्युत्पत्तिद्वितीयक्षणे स्पर्शादिस्पार्शनापत्तेः । कालभेदेनैकस्यामेव व्यक्ताव तत्वाचानां संभवेन तावत्त्वाचापेक्षया महत्त्वोद्भुतस्पर्शयोरेव प्रत्यासत्तिमध्ये प्रवेशस्य त्रुटिस्पर्शेऽनुभूतत्वकल्पनस्य चोचितत्वात् ।
केचित्त-व्यासज्यवृत्तिगुणास्पशेननिर्वाहाय प्रकृष्टमहत्त्वोद्भूतस्पर्शयोः प्रत्यासत्यघटकत्वेन लाघवाद्व्यान्यसत्त्वाचत्वाच्छिन्नं प्रत्येव लौकिकविषयत्वावच्छिन्नत्वाचाभावस्य स्वाश्रयसमवेततत्वसम्बन्धेन प्रतिबंधकता कल्प्यते, वायोरस्पार्शनत्वं तु न यौक्तिकमिति न तवृत्तिस्पर्शस्पार्शनानुपपत्तिः, तथा च त्रसरेणोरस्पार्शनत्वान्न तवृत्तिस्पर्शादिस्पार्शनप्रसंग इति-तन्न, लाघवाद्वायोः स्पार्शनत्वस्य सांप्रदायिकत्वाच्च समवायसंबंधावच्छिन्नोद्भूतस्पर्शाभावस्यैव स्वाश्रयसमवेतत्वसंबन्धेन द्रव्यान्यसत्त्वाचत्वावच्छिन्नं प्रति प्रतिबन्धकत्वं कल्पयित्वा त्रुटिस्पर्शेऽनुद्भूतत्वकल्पनस्यैवौचित्यात् । नचावयव्युद्भूतस्पर्श प्रति अवयवोद्भूतस्पर्शस्यैव हेतुत्वात्कथं चतुरणुकोद्भूतस्पर्शारम्भकस्य त्रुटिस्पर्शस्याऽनुद्भूतत्वमिति वाच्यं, उद्भूतस्पर्शत्वस्यार्थसमाजसिद्धत्वेन कार्यतानवच्छेदकत्वादित्यन्यत्र विस्तरः ।
'इदानों में शरीरं शीतलीभूतमि तिप्रतीत्या तमसः उद्भूतस्पर्शवत्वमप्यानुभविकमिति तु वृद्धाः । तेषामयमाशयो-यथाहि उद्भतशीतस्पर्शवत एव जलस्य संयोगादेहे शैत्यं प्रतीयते तथा