________________
स्थावरस्ये
तमसोऽप्युद्भूतशत स्पर्शकत्व एव तत्संयोगात्सरीरे शैल्यप्रतीतिरुपपत्तिमती, तादृशस्यैव तस्याः परंपरासंबन्धेन शैत्यप्रतीतिजनकत्वात्तत्परिणामकत्वाद्वा । ननु तर्हि तमसि तत्प्रतीतिः कुतो न भव तीस चेत् ! योग्यतामेवेदं परिपृच्छं । नीलरूपवतस्तस्य शांतस्पर्शवत्वं कथं संगच्छत इति वेद : शक्तिवैचित्र्यवशादेवेति ब्रूमः ।
[लोकाभावेन तमोव्यवहार निर्वाहस्य खण्डनम् ]
अथालोकाभावेनैव तमो व्यवहारोपपत्तेर्न तस्य द्रव्यत्वकल्पनमिति चेत् ? विपरीतमेव किं न रोचयेः ? आलोकस्य चाक्षुषजनक संयोगाश्रयत्वेन नैवमिति चेत् ? न, चक्षुरप्राप्यकारित्ववादिनामस्माकं तमःसंयुक्तचाक्षुषं प्रति योग्यताविशेषकारणत्वस्यैवेष्टत्वात् । न च तादृशयोग्यतां विनापि किञ्चिदंशेन तमः संयुक्तद्रव्यग्रह | द्वयभिचार इति वाच्यं तमःसंयुक्तांशग्रहे तादृशयोग्यताया अवश्यापेक्षणात्, अंशांशिनोः कथंचिद्भेदस्य च प्रत्यक्षसिद्धत्वात् । 'मूले वृक्षः कपिसंयोमीत्यत्र हि मूलांशवृक्षः कपिसंयोगीत्येव प्रमीयते सदंश एव कपिसंयोगाविष्वग्भावात् । न च तस्मिन्नेवांशे नयनपराङ्मुखतमः शालिन्यपि प्रत्यक्षोदयादा लोकसंयोगावच्छेदकावच्छिन्न-वक्षुः संयोगस्यैव द्रव्यचाक्षुषे हेतुत्वमुचितमिति वाच्यम्, घूकादिचाक्षुषानुरोधेन चक्षुरुन्मुखतमः संयोगवच्चाक्षुषं प्रति योग्यताशेषहेतुकस्यैवावश्याश्रयणीयत्वात् । आलोकाऽजन्यद्रव्यचाक्षुषं प्रति तस्य हेतुत्वमस्त्विति नाभिधामीयम्, आलोकजन्यतावच्छेद कनियतरूपापरिचयादा लोकजन्यत्वाऽज्ञाने तदजन्यत्वाऽज्ञानात् । आलोकायुक्तचाक्षुषं प्रति तस्य हेतुत्वमित्यपि न वक्तुं युक्तं महदुद्भूतानभिभूतरूपवत्तम्निवेशे गौरवात् ।
२२८
योग्यता विशेषश्च 'तदंशे ज्ञानावरणकर्मक्षयोपशम' इति न विशेषपदार्थाऽनिरुक्तिः । परेण तु चक्षुःसंयोगावच्छेदकावच्छिन्नमहदुद्भूतानभिभूतरूपवदालेोकसंयोगत्वेन द्रव्यचाक्षुषत्वावच्छिन्मं प्रति कारणता वक्तव्या, सा च न संभवति, आलोक संयोगस्याप्यवच्छेदकत्व संभवे विनिगमनाविरहात् । एतेन - स्वावच्छेदकावच्छिन्नचक्षुः संयोगसंबंधे नाप्यालोकसंयोगस्य कारणत्वं प्रत्युक्तं चक्षुःसंयोगस्यापि स्वावच्छेदकावच्छिन्ना लोक संयोगसम्बन्धेन तथात्वे विनिगमकाभावात् ।
अथ चक्षुः संयोगस्यैव निरुक्तसम्बन्धेन तथात्वमस्तु, महदुभूतानभिभूतरूपवदालोकसंयोगत्वस्य चाक्षुषानभिभूतरूपवदा लोकसंयोगत्वस्य वाऽपेक्षया चक्षुः संयोगत्वस्य कारणतावच्छेदकत्वे लाघवादिति चेत् न, संबंधविघया तत्प्रवेशे तवापि साम्यात् संबंधगौरवाऽदोषत्व प्रवादस्य निर्युक्तिकत्वाद्विजातीया लोकसंयोगत्वेनैव तद्धेतुत्वमित्यन्ये ।
"
अथ द्रव्यनिष्टलौकिक विषयताद्रव्यसमवेतनिष्ठलौकिक विषयतादि संबंधभेदेन चाक्षुषत्वावच्छिन्नं प्रत्यालोकसंयोगावच्छेदकावच्छिन्नचक्षुः संयोगतत्संयुक्तसमवायादेर्नाना हे तुता कल्पने गौरवात्, लाघवात्समवायेन तमस्तद्वयाप्यभिन्नीयलौकिक विषयितावच्चाक्षुषं प्रत्यालोकसंयोगस्य स्वावच्छेदकावच्छिन्नसंयोगवच्चक्षुः संयुकमनः प्रतियोगि कविजातोयसंयोगसंबंधेनैव कारणता कल्प्यते । चक्षुः सं