________________
श्लो० ५]
तमन्यात्ववादः योगस्य स्वावच्छेदकावच्छिन्नालोकसंयोगावच्छेदकावच्छिन्नस्वक्चक्षुःसंयुक्त मनःप्रतियोगिकविजातीयसंयोगसंबंधेन तथात्वे तु स्फुटमेव गौरवं, संबन्धगौरवादोषत्ववादिनापि संभवति लघुसंबंधे गुरुसंबंधाकल्पनादिति चेत् १ म, तथापि संबोगस्य संबंधविधया निवेशानिवेशाभ्यां महत्त्वोदभूतरूपवत्वादिविशेषणविशेष्यभावे च तहोक्तादवस्थ्यात् । स्वावच्छेदकावच्छिन्नेत्यादिसंबन्धेन तत्र तमसंयोगस्य प्रतिबन्धकत्वेनोपपत्तेश्च ।
[उलूकादिचाक्षुषेन व्यभिचारदूषणम् ] पेचकादिचाक्षुषे व्यभिचारश्च सर्वत्र साधारणं दूषणम् । न च नरचाक्षुषं प्रत्येक कारणता अंजनादिसंस्कृतचक्षुषां तस्करादीनां चाक्षुषे तथापि व्यभिचारात् । न च स्वाभाविकनरचाक्षुषत्वस्य कार्यतावच्छेदकत्वान्नायं दोष इति वाच्यं, स्वाभाविकत्वस्यालोकसहकृतचक्षुर्जन्यत्वरूपस्यालोककारणतापरिचयं विनाऽपरिचयात् , अन्यस्य दुर्वचत्वात् । अथांजनाद्यसंस्कृतचक्षुर्जन्यत्वं तदिति चेत् ? न, आदिपदार्थाऽनमुममेन कार्यतावच्छेदकाननुगमात् । आलोकेतराऽसंस्कृतचक्षुजन्यत्वं तदिति चेत् ? न, आलोकेतरस्यांजनादेर्व्यभिचारेण चाक्षुषाजनकत्वेन कक्षरसंस्कारकत्वात् । अंजनाद्यभावाकालीनचाक्षुषं प्रत्यंजनादीनां जनकत्वे वालोकाभावकालीनचाक्षुषत्वमात्रस्य कार्यतावच्छेदकत्वौचित्येन तमसो द्रव्यत्वसिद्धेः ।
केचित्तु-फलबलासत्रालोकविशेषः कल्प्यते । व्यभिचारग्रहे सत्यालोकस्य कारणताग्रहस्यैवानुपपत्तेः । कथमेवमिति चेत् ? न, तदवच्छेदेन व्यभिचारग्रहस्यैव तत्सामानाधिकरण्येन कारणसाग्रहप्रतिबंधकत्वात् । अत्र चालोकत्वसामानाधिकरण्येनैव तद्ग्रहात्तत्सामानाधिकरण्येन कारणताग्रहस्य निरपायत्वात् । अन्यथा क्वचिप्रथममतिप्रसक्तेनाऽपि धर्मेण कारणताग्रहोत्तरं पश्चादनुगतावच्छेदकधर्मकल्पमासिद्धान्तव्याकोपाफ्तेरिति । तन्न, तदालोकेनान्येषामपि चाक्षुषापत्तेर्दुवारस्यात् । पेचकादिनयनगोलकसंसृष्टालोकस्य पेचकादिमात्रचाक्षुषं प्रति नानाकारणताकल्पने च महद्गौरवादिति दिक् ।
उच्छृखलास्तु-आलोककालीनचाक्षुषजनकविजातीयचक्षुर्मनोयोगाभावादेव तमसि न घटादिचाक्षुषोदय इति न तत्रालोकस्य कारणता । म च तथापि तमसि घटादीनामालोकाकालीनचाक्षुषापत्तिः, पेक्कादीमामिष्टत्वात् । न चास्मदादिघटचक्षुःसंयोगादपि तदापत्तिः, आलोकाभावकालीनचाक्षुषं प्रत्यपि विजातोयचक्षुःमनोयोमस्य पृथक्कारणत्वादित्याहुः । यदि पुनरंधकारेऽपि घटादेः कालीकेनालोकविशिष्टत्वात्तद्देशावच्छेदेनालोकविशिष्टत्वस्य तथात्वे गौरवं, कार्यतावच्छेदकाननुगमो, विनिगमनाविरहश्चेति विभाव्यते, तदास्तु लाघवात्तमःसंयुक्तचाक्षुषं प्रत्येव विजातीयचक्षुर्मनोयोगस्य च हेतुत्वम् । न च तमः कालीमचक्षुःसंयोगादेवालोकसमवहिताद्धटादिचाक्षुषोदयदर्शनाच्चक्षुर्मनोयोगस्याप्येकस्यैव संभवात्कथमेवमिति वाच्यं, मनसस्त्वरितगतित्वेनालोकसमवधानवशायां क्षुमनोयोगस्य मिन्नत्यैव कल्पनादिति तमसो द्रव्यत्वं निराबाधम् । एतेन-'द्रव्य