________________
स्याद्वादरहस्ये
चाक्षुषसामान्यं प्रत्यालोक संयोगहेतुतायाः क्लृप्तत्वादालोकं विना वीक्ष्यमाणस्य तमसः कथं द्रव्यत्वमित्यपि दुरापास्तम् ।
३०
[तमोग्राहकतामसेन्द्रियकल्पना तन्निराकरणं च ]
तौतातिकैकदेशिनस्तु -- द्रव्यचाक्षुषं प्रत्यालोकसंयोगस्य हेतुत्वेऽपि तामसेन्द्रियेणैव तमोग्रहसंभवान्नानुपपत्तिः । न च निमिलितनयनस्यापि तद्द्महापत्तिः, चक्षुः श्रवः श्रोत्रवत्तस्य चक्षुर्गोलकाधिष्ठानत्वात् । न चेंद्रियांतराऽग्राह्यस्वग्राह्यगुणाभावात्तादृशेंद्रियाऽसिद्धिः, लाघवादिन्द्रियान्तराप्राह्यग्राहकत्वमात्रस्यैव भिन्नेंद्रियत्वव्यवस्थापकत्वात् तादृशस्य च प्रकृते तमस एव सत्त्वात् । न च पेचकादीनां दिवापि घटादिग्रहापत्तिः, तामसेंद्रिये तमःसंयोगस्यापि सहकारित्वात् । न च तमसि तमः संयोगाऽसंभवो, गगनतमः संयोगस्य तत्रापि सत्त्वात् । नन्वेवमपि किञ्चिदवच्छेदेन तमःसंयोगवति भित्यादावालोकसंयुक्ते तामसेन्द्रियेण प्रतीतिः स्यादिति चेत् ? तर्हि तमःसंयोगावच्छेदकावच्छिन्नता मर्सेद्रियसंयोगस्यैव तमः संयुक्तद्रव्यग्राहकत्वमस्तु । विनिगमनाविरहस्तु परस्यापि तुल्यः । चंद्रिकायां पेचकादेस्तु चाक्षुषमेवाभ्युपेयम्, न च दिवापि तदग्रहापत्तिः, फलबलात्सौ लोकस्य तत्प्रतिबन्धकत्वकल्पनादित्याहुः ।
तत्तुच्छं-'तमः पश्यामी' तिप्रतोतेर्निरालम्बनत्वापत्तेः । अथ पश्यामीति विषयता न्यायनये चक्षुः संनिकर्षदोषाविशेषयोरिव तामसेन्द्रियसंनिकर्षस्यापि नियम्या, अव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौ दानेन व्यभिचाराऽप्रचारादिति चेत् ? न, स्फुटगौरवात्; तथापि तामसेंद्रियेण तमस इव घटादीनामपि, पेचकादीनामिव मानवानामपि प्रतीत्यापत्तेश्च । न च विषयतया नरतामसेन्द्रियजन्यज्ञानं प्रति तादात्म्येन तमसस्तमत्वादेश्व हेतुत्वमिति घटादेस्तादात्म्येन तत्राहेतुत्वान्नायं दोषः, अंजनादिसंस्कृत चक्षुषां तस्करादीनां तु बहलतमे तमसि घटादीनां न तामसेंद्रियजन्यं ज्ञानं किंतु चाक्षुषमेत्र । नचालोकं विना कथं तदानीं तेषां तच्चाक्षुषमिति वाच्यं, आलोकस्येवांजनादेरपि चाक्षुषजनने चक्षुषः पृथक्सहकारित्वात् ।
अञ्जनादिसंस्कृतचक्षुष एवालोकाजन्यचाक्षुषे हेतुत्वादं जनादेर्हेतुतावच्छेदकत्वमेवेति केचित् । तन्न, अंजनाद्यभावाकालीन चाक्षुषं प्रति स्वसंस्कृतचक्षुः संयोगसंबंधेनां जनादेर्हेतुत्वस्यैवौचित्यादित्यपरे । तथा च न तत्र व्यभिचार इति चेत् ? नैवं सति नानाकार्यकारणभावकल्पने महागौरवात् । वस्तुतः सामान्यतः एका चाक्षुषजननी योग्यताsपरा च तमःसंयुक्तचाक्षुषजननी । तत्र पेचकादीनां दिवा न चाक्षुषं, मानवानां च नक्तं न घटादिचाक्षुषमित्यत्र स्वभाव एव शरणम् । न चैवं स्वभाववादिमतप्रवेशः, समवायाभ्युपगमे तदप्रवेशात् सर्वज्ञानस्वभावस्य चात्मनः तत्तदेशतत्तत्कालतत्तद्विषयाद्याश्रित्य विचित्रज्ञानावरणक्षयोपशमवशाद्विचित्रज्ञानोत्पत्तौ को वा विस्मयः स्याद्वादास्वाद सुंदरधियाम् ।
ज्ञानस्वभावत्वात्मनः कथमिति चेत् द्रव्यत्वेन गुणस्वभावत्वसिद्धौ पारिशेष्यादिति