________________
लो० ५]
तमोद्रव्यत्ववादः
३१
ब्रूमः । ज्ञानोत्पत्तिव्यवहारः पुनरावरण विगमादाविर्भावनिबंधन, भानुप्रकाशोत्पत्तिव्यवहारवत् । नचाविर्भावस्य सदसद्विकल्पो स्याद्वादिनां दोषाय, रूपमेदेनैव सदसत्त्वाभ्युपगमादित्यन्यत्र विस्तरः । यत्तु -- तमसो द्रव्यत्वसिद्धी तद्ग्रहार्थं तामसेन्द्रियसिद्धिः, तत्सिद्धौ चालोकनिरपेक्षचक्षुर्ग्राह्यत्वस्य बाधकस्याऽभावात् तमसो द्रव्यत्वसिद्विरित्यन्योन्याश्रय इति कस्यचिदभिधानं; तद्दुरवधानं, पेचकादीनां घटादिग्रहार्थमेव साध्यमानस्य तस्य तद् ग्राहकत्वेन सिद्धेः ।
प्राभाकरास्तु — 'आलोकज्ञानाभाव एव तमः, अत एव आलोकवद्गर्भगृहं प्रविशतस्तमोधीः, तत्तुच्छं, एवं सति अन्धकारवानहमिति प्रतीत्यापत्तेः । न च संबंधविशेषेणालो कज्ञानाभाववत्येव तमः प्रतीतिनियमान्नायं दोषः, तथासत्या लोकज्ञानाभाववानहमितिप्रतीतेरपि विलयापत्तेः । न ह्यालोकज्ञानाभावत्वं तमस्त्वादिदानीमतिरिष्यते । एतेन - विषयतासंबंधावच्छिन्नप्रतियोगिताकस्यापि तस्य तमस्त्वं प्रत्याख्यातम् । किं चैवं तमसश्चाक्षुषत्वं न स्यात्, ज्ञानाभावस्य मानसत्वात् । तथा च ' तमः पश्यामी' तिप्रतीतिः कथमुपपादनीया ? एतेन —तदंशेऽलौकिक चाक्षुषमपि प्रत्युक्तम्, बाह्येन्द्रियज्ञाने उपनीतस्य विशेषणत्वेनैव भाननियमा 'नीलं तमः' इति प्रतीत्यनापति किमधिकविवादक्षोदेन !
[प्रकाशक रूपाभावतमोवादिप्रगल्भमत खंडनम् ]
प्रगल्भस्तु–प्रकाशकरूपाभाव एव तमः, प्रौढप्रकाशकयावत्तेजः संसर्गाभावस्य तमसोऽतन्द्रियत्वापत्तेः । अतीन्द्रियचन्द्रादिप्रभाप्रतियोगिकत्वात् विनिगमनाविरहेणोद्भूतरूपवत्त्वस्येवोद्भूतस्पर्शवत्त्वस्यापि प्रत्यक्षतायां तन्त्रत्वात्तस्यातीन्द्रियत्वादिति । स पुनरप्रगल्भः, योग्यताविशेषस्यैव प्रत्यक्षताप्रयोजकत्वात् । किं च परेणापि द्रव्यचाक्षुषत्वावच्छिन्नं प्रति उद्भूतरूपस्य हेतुत्वं वाच्यम् । तत्र च नोदभूत स्पर्शवत्त्वस्यापि तथात्वेऽपि विनिगमकाभावः, वायोश्चाक्षुषत्वापत्तेरेव विनिगमकत्वात् । न च बहिर्द्रव्यप्रत्यक्षत्वावच्छिन्नं प्रत्येवोद्भूतरूपस्पर्शोभयत्वेन हेतुताऽस्तु, द्रव्यचाक्षुषत्वावच्छिन्नं प्रत्युद्भूतरूपस्य द्रव्यस्पार्शनत्वावच्छिन्नं प्रत्युद्भूतस्पर्शस्य च हेतुताद्वयकल्पने गौरवादिति वाच्यम्, उदभूतत्वस्यैकविशिष्टापरतया विशेषणविशेष्यभावे विनिगमनाविरहात् । किं च प्रकाशकरूपाभावस्य तमस्त्वे पृथिव्यादौ सदा तमोव्यवहारापत्तिः, समवायेन तदभावस्य तत्र सार्वदिकत्वात् । 'स्वाश्रयसंयोगसंबंधेन तदभावस्यैव तमस्त्वमिति नायं दोष' इति चेत् ? न, तस्य वृत्त्यनियामकत्वेन तत्संबंधावच्छिन्नाभावस्यैवासिद्धेः । तत्संबंधावच्छिन्नप्रतियोगितावच्छेदकताकतद्भेदस्य तथात्वे तु निशीथिन्यामपि भूतलादौ तमोव्यवहारानुपपत्तिरन्योन्याभावस्याव्याप्यवृत्तित्वादिति दिक्
किंच - तमसोऽभावत्वे विधिमुखेन प्रत्ययः कथमुपपनीपद्यताम् ? ध्वंसादादिव काचित्कनञ्प्रयोगं विनाऽत्रापि तदुपपत्तौ किं विस्मयोत्कंघरतयेति चेत् ? तथापि घटस्य ध्वंस इ