________________
स्याद्वादरहस्ये
नियमादेव शक्यतावच्छेदकबोधसंभवात् , इति चेत् ? न, शक्यतावच्छेदकेऽपि शक्तेरबाधादित्याहुः ।
___ अत्र वदन्ति-प्रकरणादीनामननुगतानां नार्थविशेषबोधे शक्तेः सहकारित्वं, तात्पर्यग्राहकत्वेन तदनुगमे तु लाघवात्तात्पर्यग्रहत्वेनैव तत्सहकारित्वकल्पनमुचितमित्येकदोभयतात्पर्यग्रहे एकपदादेकदोभयबोधाऽस्वारस्यनिर्वाहाय 'सकृदुच्चरिते'त्यादिनियमो युक्त इत्ति । एकपदमेकया वृत्त्या एकमेवार्थ बोधयतीति सकृदुच्चरितेत्याद्यर्थ इति तु न युक्तं 'सर्वे सर्वार्थवाचका' इत्यभ्युपगमेनैकया शक्त्याप्येकपदस्यानेकार्थबोधकत्वात् । नचैवं लक्षणाधुच्छेदः नियंत्रितसंकेताऽसंभवे तदवकाशात् । न च घटत्वपटत्वादिना शक्तिकल्पने गौरवं, प्रमेयत्वेनैव तत्कल्पनात्, तत्तद्धर्मेण बोधस्य संकेतविशेषनियम्यत्वात् । न चैवं शक्तिरन्तर्गडुरिति वाच्यं, वाच्यवाचकभावप्रतिनियमाय तत्कल्पनमित्याद्याकरे स्पष्टत्वात् । न च शब्दत्वेनैवाऽस्तु वाचकता, प्रमेयत्वेन च वाच्यता, तथापि शब्दादेवार्थबोधोऽर्थात्तु न, (तत्)कुतः ? इति पर्यनुयोगस्य वाच्यवाचकभावप्रतिनियामकशक्यनभ्युपगमे दुरुद्धरत्वात् । कालाधष्टकस्वरूपं च श्रीपूज्यलेखादवसेयम् । अधिकतर्कास्त्वत्रत्या मत्कृतसप्तभंगीतरंगिणीतोऽवसेयाः ।
ननु भवतु कदाचिदन्यवस्तुनो नित्यानित्यत्वं, प्रदीपादेस्तु सर्वथाऽनित्यत्वमेवोचितमिति चेत् ? न, प्रदीपादिपुद्गलानामेव तमस्त्वेन परिणमनाद्रव्यार्थतया ध्रुवत्वात् । अथैवं तमसो द्रव्यत्वं स्यादिति चेत् ! स्यादेव 'स्यादेव तथापि परमतप्रवेशः, तमस उत्पत्तौ प्रदीपादेरवश्यं विपत्तेस्तस्य प्रदीपादिप्रध्वंसरूपस्याभ्युपगमादिति चेत् ? न, भावाभावकरंबितैकवस्तुनः परैरनभ्युपगमात् ।
[तमोद्रव्यत्ववादः] तेजसो विनिवृत्तिरूपता । स्वीकृता तमसि या कणाशिना । द्रव्यतां वयममी समीक्षिणस्तत्र पत्रमवलम्ब्य चक्ष्महे ॥१॥
तत्र तमसो द्रव्यत्वे रूपवत्वमेव मानम् । न च तदेवासिद्धम् , 'तमो नीलमि'तिप्रतीतेः सार्वजनीनत्वात् । न च सा भ्रमः, बाधकाभावात् । न च - उद्भूतरूपमुद्भूतस्पर्शव्याप्यं, इन्द्रनीलप्रभासहचरितनीलभागस्तु स्मर्यमाणारोपेणैव तत्प्रभायां नीलधीनिर्वाहाद्गौरवान्न कल्प्यते इति न तत्र व्यभिचारः, कुंकुमादिपूरितस्फटिकभांडे बहिरारोप्यमाणपीताश्रयेऽपि न व्यभिचारस्तत्रापि स्मर्यमाणारोपेणैव बहिःपीतधीनिर्वाहात्. बहिर्गन्धोपलब्धेस्तु वाय्वाकृष्टानुभूतरूपभागांतरेणैवोपपत्तेः, तथा च तमस उद्भूतरूपवत्त्वे उद्भूतस्पर्शाभाव एव बाधक इतिवाच्यम्, तादृशव्याप्तौ मानाभावात्प्रभायां व्यभिचाराच्च । न च उद्भूतनीलरूपवत्त्वमेवोद्भूतस्पर्शव्याप्यं, न च धूमे व्यभिचारः तत्राप्युद्भूतस्पर्शवत्त्वादत एव तत्संबंधाच्चक्षुषि जलनिपात