Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
२० ]
लघुस्याद्वाद रहस्ये
तापेक्षाकृतविशेषं न ज्ञातवानसि ? साहजिकभेदयाचा तु पृथग्द्रव्ययोरेवोचिता ।
सामान्यविशेषात्मकत्वमपि, वस्तुनः सदृश विसदृशपरिणती अपेक्ष्य अनुवृत्ति व्यावृत्तिप्रत्ययजननात् । नह्येतदनुरोधेन तयोः पदार्थान्तरतास्वीकार उचितः । यतः सामान्यं नित्यमेकमनेकसमवेतं च परैरभ्युपेयते, तदयुक्तं - अत्र मृत्पिडे घटत्वमासीदिति प्रतीत्या तस्याऽनित्यत्वसिद्धेः । एकत्वमप्यनित्यतया प्रतीयमानस्यऽस्य सदृशपरिणतिरूपस्यैव संग्रहनयाणया आजते तथा [हि] अनेकसमवेतत्वमपि जातेर्यावद्व्यक्तिवृत्तित्वरूपं न संगच्छते अतीतानागतव्यक्तिवृत्तित्वस्यैव दुरुपपादत्वादित्याहुः ।
अथ यथा भवन्मते एकस्य शब्दस्य सर्वार्थवाचकत्वं अतीतानागतव्यक्तिनिरूपितत्वस्य कादाचित्कत्वेऽपि तन्निरूपितवाचकताया एकत्वेन निर्वहति तथा ममापि तत्तद्व्यक्तिनिरू पितत्वस्य कादाचित्कत्वेऽपि तन्निरूपितसमवायस्यैकतयाऽनेकसमवेतत्वं जातेनिर्वक्ष्यते इति चेत् ? न, समवायस्यैवाऽविष्वग्भावातिरिक्तस्याऽसिद्धेः । एतेनाऽनेक वृत्तित्वं च स्वाश्रयान्योन्याभावसामानाधिकरण्यमिति वर्धमानवचनमप्यपास्तं विशेषेऽतिव्याप्तितादवस्थ्य वारणाय सामानाधिकरण्यस्य समवायगर्भत्वावश्यकत्वात् ।
I
किंच - अनुगतधीजनकत्वेन सिध्यत् सामान्यमभावादासधारण्येनैव स्वीक'मुचितम् । अपि च क्वचिदखंडोपाधिस्वीकतुस्तव स्वाभिप्रेतजात्या पलायितमेव । किच- लाघवाद्वयञ्जकत्वेनाऽभिमतानामुपाधीनामेव संग्रहनयार्पणयै कीभवतां तत्त्वकल्पनमुचितं, अन्यथा प्रवृत्त्यादि - नकतावच्छेदकत्वेन कारणत्वादीनामप्यतिरेककल्पनाऽऽपत्तेः ।
अथैवमपि ऊर्ध्वता सामान्ये मानाभावोंऽगदकुडलादौ कांचनत्वरूपतिर्यक् सामान्येनैव कांचनं कांचनमित्यनुगतप्रतीतेर्निवाहादिति चेत् ? न, यदेव कांचनमंगदीभूतं तदेव कुंडलीभूतमित्यादिप्रतीतीनामेकाकारत्वस्योर्ध्वता सामान्यं विनाऽनुपपत्तेः । यद्यपीदृशमूर्ध्वता सामान्यं चिरस्थायिनां गुणपर्यायाणामपि सम्भवति तथापि पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वतासामान्यमित्यत्र द्रव्यपदं धर्मिपरमिति न कोऽपि दोषः । विशेषपदार्थस्वीकारोऽपि तेषां भेदकधर्मान्तरा - भाववतां परमाण्वादीनां नित्यद्रव्याणां परस्परं योगिभेदप्रत्यक्षानुपपत्तेः । सोप्यनुपपन्नस्तद्गुणेष्वपि तत्स्वीकाराऽऽपत्तेः । अथ तंत्र शुक्लतरत्वाद्यवतिरजातयः स्वीक्रियन्ते, परमाणौ त्वन्तकार्याऽवर्त्तिन्यस्ताः स्वीकतु न शक्यन्ते इति चेत् ? तथाप्यवांतरजातीयेष्वपि रूपादौ परस्परव्यावृत्तिः किमधीना ? स्वाश्रयाश्रितत्वसम्बन्धेन विशेषाधीना चेत् ? तर्हि स विशेषो गुणनिष्ठ एव कल्प्यतां, परमाणौ परस्परव्यावृत्तिस्तु स्वाश्रयसमवायित्वसम्बन्धेन विशेषाधीनेत्यत्र किं विनिगमकं ? गुणानां बहुत्वात् तत्रानन्तविशेषकल्पनायां गौरवमेव विनिगमकमिति चेत् ? तथापि प्रत्येकं

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182