Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 83
________________ स्वाद्वादरहस्यै योगितातदवच्छेदकत्वादेः स्वरूपानतिरिक्ततया न तरकल्पनगौरवमिति वाच्यं, एवं सति गुरुधर्मे कारणतावच्छेदकत्वादेरप्यापत्तेः शास्त्रे गौरवपदार्थस्य दुःप्रचारापत्तेः । यत्तु - 'घटत्वेन पटो नास्तीति प्रतीतेर्षटस्व संबंधावच्छिन्नपटनिष्ठप्रतियोगिताकाभावावगा हित्वेनैवोपपत्तेर्न तथा व्यधिकरणधर्मावच्छिन्नाभावसिद्धिरन्यथा घटत्वाद्यवच्छिन्नघटादिनिष्ठप्रतियोगिताका भावत्वेन घटत्वायवच्छिन्नं प्रति हेतुला कल्पने गौरवादिति भषदेषाऽभिमतं तच्चिन्त्यं घटत्वविशिष्टपटवताभ्रमप्रतिबंधिकायास्तस्या घटत्वविशिष्टपटाभावाऽवगाहित्वस्य बाधकसहस्रेणापि पराकर्तुमशक्यवात् । न खलु सहस्रेणापि बाधकैरिदं रजतमिति प्रतीतेः रंगत्वावलम्बनत्वं व्यव - स्थापयितुं शक्यते । तदिदमभिप्रेत्योक्तं दीधितिकृता 'यदि पुनरानुभविको लोकानां स्वरसवाही घटत्वेन पटो नास्तीत्यादिप्रत्ययो तदा तादृशी [Sभावनिवारणं गीर्वाणगुरुणामप्यशक्यमिति ] । न च घटत्वेनाऽनाहार्य पटवत्ता निश्चये कथमेतादृशधीरिति वाच्यं, अवच्छेदकोदासीमायास्तस्या अविरोरोधात् । तदौदासीन्यमेव क्रथमिति चेत् ? तृतीयान्तपदोल्लिखितधर्मेऽवच्छेदकत्वस्य गौरवेण बाधातृतीयतपदस्थळेऽन्वयितावच्छेदकावछिन्नप्रतियोगिताकत्वस्य च व्युत्पत्यलभ्यवात् । गौरवाऽप्रतिसंधानदशायां घटत्वांशेऽवछेदकत्वाऽनुदासीनामपि च 'घटत्वेन पटो नास्ती 'ति धियं घटत्वेन घटवत्ताधर्न विरुणद्धि, तस्या घटत्वावच्छिन्नाभावधिय एव विरोधित्वात् । अथ व्यधिकरणसंबंधावछिन्नप्रतियोगिताकाभाव एव व्यधिकरणधर्मावछिन्नप्रतियोगिताक इति न तदतिरेककल्पनागौरवम् । न च तथापि घटत्वादेः पटादिनिष्ठप्रतियोगितावच्छेदकत्वभासक सामग्रया घटत्वपटत्वादिज्ञानस्य नानाविधतद्विरोधज्ञानस्य च सहकारित्वकल्पने महगौरवमिति वाच्यं घटत्वादेः पटादिनिष्ठप्रतियोगितावच्छेदकत्वभ्रमोपपत्तये तस्कल्पनाया आवश्यकत्वादिति चेत् न, तथापि घटत्वादौ पटादिनिष्ठप्रतियोगितावच्छेदकत्वकल्पने गौरवात् । न च तत्र स्वरूप संबंधरूपत कल्पने गौरवधीर्न विरोधीनीं, एवं सति गुरुणि कारणतावच्छेदकत्वादेरप्यापत्तेः शास्त्रे गौरवपदार्थप्रचारशैथिल्यापातादिति चेत् ! , मै तो नत्र घटत्वेन घटस्येव घटत्वेन घटास्तित्वस्य विधिः, न वा घटत्वेन पटस्येव पटत्वादिना घटास्तित्वस्य प्रतिषेधः । किन्तु स्वद्रव्यादिचतुष्टयपरद्रव्यादिचतुष्टयावच्छेदेन मूलाप्रावच्छेदेन 'वृक्षे संयोगतदभावाविश्व घटेऽस्तित्वविधिनिषेधौ । 'अवच्छेद्याधिकरणसंबद्धमेवावच्छेदकत्वं कथमनुपप्लवमिति चेत् तादृ ( ग्) नियमे मानाभावादित्येव ब्रूमः । उत्पादव्यवन्यैक्यरूपं घटास्तित्वं स्वद्रव्यादिचतुष्टयनिर्वृतं तदभावस्तु परद्रव्यादिचतुष्टयनिवृत इति तदर्थ स्वप्याहुः । ननु 'पटत्वेन घटो नास्तीत्यत्रास्तित्वाभाववान् घटः इति न धीर्येन पटत्वस्य तदवच्छेदकत्वं कल्प्येत, किंतु 'पटत्वेन घटाभावोऽस्तित्वाश्रय' इति, अन्यथा 'भूतले घटो नास्तीत्यत्रापि १- मूलादर्शे ताशशब्दानन्तरमनन्वयात् शेषा पंक्तिः व्यधिकरणदीधितितो योजिता । २२

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182