________________
स्वाद्वादरहस्यै
योगितातदवच्छेदकत्वादेः स्वरूपानतिरिक्ततया न तरकल्पनगौरवमिति वाच्यं, एवं सति गुरुधर्मे कारणतावच्छेदकत्वादेरप्यापत्तेः शास्त्रे गौरवपदार्थस्य दुःप्रचारापत्तेः । यत्तु - 'घटत्वेन पटो नास्तीति प्रतीतेर्षटस्व संबंधावच्छिन्नपटनिष्ठप्रतियोगिताकाभावावगा हित्वेनैवोपपत्तेर्न तथा व्यधिकरणधर्मावच्छिन्नाभावसिद्धिरन्यथा घटत्वाद्यवच्छिन्नघटादिनिष्ठप्रतियोगिताका भावत्वेन घटत्वायवच्छिन्नं प्रति हेतुला कल्पने गौरवादिति भषदेषाऽभिमतं तच्चिन्त्यं घटत्वविशिष्टपटवताभ्रमप्रतिबंधिकायास्तस्या घटत्वविशिष्टपटाभावाऽवगाहित्वस्य बाधकसहस्रेणापि पराकर्तुमशक्यवात् । न खलु सहस्रेणापि बाधकैरिदं रजतमिति प्रतीतेः रंगत्वावलम्बनत्वं व्यव - स्थापयितुं शक्यते । तदिदमभिप्रेत्योक्तं दीधितिकृता 'यदि पुनरानुभविको लोकानां स्वरसवाही घटत्वेन पटो नास्तीत्यादिप्रत्ययो तदा तादृशी [Sभावनिवारणं गीर्वाणगुरुणामप्यशक्यमिति ] । न च घटत्वेनाऽनाहार्य पटवत्ता निश्चये कथमेतादृशधीरिति वाच्यं, अवच्छेदकोदासीमायास्तस्या अविरोरोधात् । तदौदासीन्यमेव क्रथमिति चेत् ? तृतीयान्तपदोल्लिखितधर्मेऽवच्छेदकत्वस्य गौरवेण बाधातृतीयतपदस्थळेऽन्वयितावच्छेदकावछिन्नप्रतियोगिताकत्वस्य च व्युत्पत्यलभ्यवात् । गौरवाऽप्रतिसंधानदशायां घटत्वांशेऽवछेदकत्वाऽनुदासीनामपि च 'घटत्वेन पटो नास्ती 'ति धियं घटत्वेन घटवत्ताधर्न विरुणद्धि, तस्या घटत्वावच्छिन्नाभावधिय एव विरोधित्वात् । अथ व्यधिकरणसंबंधावछिन्नप्रतियोगिताकाभाव एव व्यधिकरणधर्मावछिन्नप्रतियोगिताक इति न तदतिरेककल्पनागौरवम् । न च तथापि घटत्वादेः पटादिनिष्ठप्रतियोगितावच्छेदकत्वभासक सामग्रया घटत्वपटत्वादिज्ञानस्य नानाविधतद्विरोधज्ञानस्य च सहकारित्वकल्पने महगौरवमिति वाच्यं घटत्वादेः पटादिनिष्ठप्रतियोगितावच्छेदकत्वभ्रमोपपत्तये तस्कल्पनाया आवश्यकत्वादिति चेत् न, तथापि घटत्वादौ पटादिनिष्ठप्रतियोगितावच्छेदकत्वकल्पने गौरवात् । न च तत्र स्वरूप संबंधरूपत कल्पने गौरवधीर्न विरोधीनीं, एवं सति गुरुणि कारणतावच्छेदकत्वादेरप्यापत्तेः शास्त्रे गौरवपदार्थप्रचारशैथिल्यापातादिति चेत् !
,
मै तो नत्र घटत्वेन घटस्येव घटत्वेन घटास्तित्वस्य विधिः, न वा घटत्वेन पटस्येव पटत्वादिना घटास्तित्वस्य प्रतिषेधः । किन्तु स्वद्रव्यादिचतुष्टयपरद्रव्यादिचतुष्टयावच्छेदेन मूलाप्रावच्छेदेन 'वृक्षे संयोगतदभावाविश्व घटेऽस्तित्वविधिनिषेधौ । 'अवच्छेद्याधिकरणसंबद्धमेवावच्छेदकत्वं कथमनुपप्लवमिति चेत् तादृ ( ग्) नियमे मानाभावादित्येव ब्रूमः । उत्पादव्यवन्यैक्यरूपं घटास्तित्वं स्वद्रव्यादिचतुष्टयनिर्वृतं तदभावस्तु परद्रव्यादिचतुष्टयनिवृत इति तदर्थ स्वप्याहुः ।
ननु 'पटत्वेन घटो नास्तीत्यत्रास्तित्वाभाववान् घटः इति न धीर्येन पटत्वस्य तदवच्छेदकत्वं कल्प्येत, किंतु 'पटत्वेन घटाभावोऽस्तित्वाश्रय' इति, अन्यथा 'भूतले घटो नास्तीत्यत्रापि १- मूलादर्शे ताशशब्दानन्तरमनन्वयात् शेषा पंक्तिः व्यधिकरणदीधितितो योजिता ।
२२